संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ८८ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ८८ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ८८ Translation - भाषांतर अथाष्टाशीतितमोऽध्यायः ।वसिष्ठ उवाच ।जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया ।देवदेवो हृषीकेशः सर्वेशः सर्वभावनः १जलकुम्भं नरव्याघ्र सुवर्णरजतान्वितम् ।रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः समन्वितम् २सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम् ।कुष्ठं मांसीमुशीरं च वालकामलकैर्युतम् ३प्रियङ्गुपात्रसहितं सितयज्ञोपवीतिनम् ।सच्छत्त्रं सौपानत्कं दर्भविस्तरसंस्थितम् ४चतुर्भिः संवृतं भूप तिलपात्रैश्चतुर्दिशम् ।स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखे ५उपोषितः समभ्यर्च्य वासुदेवं जनेश्वरम् ।पुष्पधूपोपहारैस्तु यथाविभवमादृतः ६सङ्कल्प्य जलधेनुं च कुम्भं समभिपूज्य च ।पूजयेद्वत्सकं तद्वत्कृतं जलमयं बुधः ७एवं सम्पूज्य गोविन्दं जलधेनुं सवत्सकाम् ।सितवस्त्रधरः शान्तो वीतरागो विमत्सरः ८दद्याद्विप्राय राजेन्द्रप्रीत्यर्थं जलशायिनः ।जलशायी जगद्योनिः प्रीयतां मम केशवः ९इति चोच्चार्य भूनाथ विप्राय प्रतिपाद्यताम् ।अपक्वान्नाशिना स्थेयमहोरात्रमतःपरम् १०अनेन विधिना दत्त्वा जलधेनुं जनाधिप ।सर्वाह्लादानवाप्नोति ये दिव्या ये च मानुषाः ११शरीरारोग्यमाबाधाप्रशमः सार्वकामिकः ।नृणां भवति दत्तायां जलधेन्वां न संशयः १२अत्रापि श्रूयते भूप पुद्गलेन महात्मना ।जातिस्मरेण यद्गीतमिहाभ्येत्य पुरा किल १३स पुद्गलः पुरा विप्रो यमलोकगतो मुनिः ।ददर्श यातना घोराः पापकर्मकृतां किल १४दीप्ताग्नितीक्ष्णशस्त्रोत्थाः क्वाथतैलगतास्तथा ।उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ १५व्रणाः क्षारनिपातोग्राः कुम्भीपाकमहाभयाः ।ता दृष्ट्वा यातना विप्रश्चकार परमां कृपाम् १६आह्लादं ते तदा जग्मुः पापास्तदनुकम्पिताः ।तं दृष्ट्वा नारकाः केचित्केचित्तदवलोकिनः १७तदा स्वस्थं विलोक्यैव मुनिर्नारकमण्डलम् ।धर्मराजं स पप्रच्छ तेषां प्रशमकारणम् १८तस्मै चाचष्ट राजेन्द्रतदा वैवस्वतो यमः ।आह्लादहेतुं विप्राय पृच्छते पृथिवीपते १९यम उवाच ।तवानुभावादेतेषां नारकाणां द्विजोत्तम् ।सम्प्रवृत्तोऽयमाह्लादः कारणं यच्छृणुष्व तत् २०त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम् ।जलधेनुः पुरा दत्ता विधिवन्मुनिपुङ्गव २१अस्मात्तु जन्मनोऽतीते तृतीये द्विज जन्मनि ।तस्य दानस्य ते व्युष्टिरियमाह्लाददायिनी २२येन त्वं तपसा युक्तो मानवानामगोचरम् ।सम्प्राप्तोऽसि महाप्रज्ञ सर्वशास्त्रविशारद २३ये त्वां पश्यन्ति शृण्वन्ति ये च ध्यायन्ति पापिनः ।शृणोषि यांस्त्वं विप्रेन्द्रयांश्च ध्यायसि पश्यसि २४निर्वृतिः परमा तेषां सर्वाह्लादप्रदायिनी ।सद्यो भवति मात्र त्वं द्विजेन्द्रकुरु विस्मयम् २५आह्लादहेतुजननं नास्ति विप्रेन्द्रतादृशम् ।जलधेनुर्यथा नॄणां जन्मान्येकोनसप्ततिः २६न दाघो न क्लमो नार्तिर्न मोहो विप्र जायते ।अपि जन्मसहस्रेषु जलधेनुप्रदायिनाम् २७एकजन्मकृतं वाञ्छा त्रिजन्मोत्थं समाहृता ।सप्तजन्मकृतं पापं हन्ति दत्ताम्बुगौर्नृणाम् २८स त्वं गच्छ गृहीत्वार्घमस्मत्तो द्विजसत्तम ।येषां समाश्रयः कृष्णो न नियम्या हि ते मया २९कृष्णः सम्पूजितो यैस्तु ये कृष्णार्थमुपोषिताः ।यैश्च नित्यं स्मृतः कृष्णो न ते मद्विषयोपगाः ३०नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम् ।यैर्भावभावितैर्विप्र न ते मद्विषयोपगाः ३१दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति ।श्रद्धापुरःसरैर्विप्र न ते मद्विषयोपगाः ३२उत्तिष्ठद्भिः स्वपद्भिश्च व्रजद्भिश्च जनार्दनः ।यैः संस्मृतो द्विजश्रेष्ठ न ते मद्विषयोपगाः ३३क्षुतस्खलितभीत्यादावसहद्भिश्च वेदनाम् ।कृष्णेत्युदीरितं यैश्च न ते मद्विषयोपगाः ३४सर्वाबाधासु ये कृष्णं स्मरन्त्युच्चारयन्ति च ।तद्भावभाविता विप्र न ते मद्विषयोपगाः ३५स एव धाता सर्वस्य तन्नियोगकरा वयम् ।जनसंयमनोद्युक्ताः सोऽस्मत्संयमनो हरिः ३६वसिष्ठ उवाच ।इत्थं निशाम्य वचनं यमस्य वदतो मुनिम् ।ऊचुस्ते नारकाः सर्वे वह्निशस्त्रास्त्रभीरवः ३७नारका ऊचुः ।नमः कृष्णाय हरये विष्णवे जिष्णवे नमः ।हृषीकेशाय देवाय जगद्धात्रेऽच्युताय च ३८नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।जनार्दनाय श्रीशाय श्रीपते पीतवाससे ३९गोविन्दाय नमो नित्यं नमश्चोदधिशायिने ।नमः करालवक्त्राय नृसिंहायातिनादिने ४०शार्ङ्गिणे सितखड्गाय शङ्खचक्रगदाधृते ।नमो वामनरूपाय क्रान्तलोकत्रयाय च ४१वराहरूपाय तथा नमो यज्ञाङ्गधारिणे ।व्याप्ताशेषदिगन्ताय शान्ताय परमात्मने ४२वासुदेव नमस्तुभ्यं नमः कैटभसूदन ।केशवाय नमो व्यापिन्नमस्तेऽस्तु महीधर ४३वसिष्ठ उवाच ।नमोऽस्तु वासुदेवायेत्येवमुच्चारिते ततः ।शस्त्राणि कुण्ठतां जग्मुरनलश्चाप्यशीशमत् ४४अभज्यन्त च यन्त्राणि समुत्पेतुरयोमुखाः ।संशुष्काः क्षारसरितः पतितः कूटशाल्मलिः ४५प्रकाशतामसीतत्त्वं नरकश्चागतस्तु सः ।विवान्बभञ्ज पवनोऽप्यसिपत्रवनं ततः ४६निरुत्साहा जडधियो बभूवुर्यमकिङ्कराः ।आसन्गन्धाम्बुवाहिन्यः पूयशोणितनिम्नगाः ४७ववौ सुगन्धी पवनो मनःप्रीतिकरस्ततः ।वेणुवीणास्वनयुतान्गीतशब्दांश्च शुश्रुवुः ४८तं तादृशमथालक्ष्य नृप वैवस्वतो यमः ।नरकस्य विपर्यासं सङ्क्षुद्धहृदयस्ततः ४९ददर्श नारकान्सद्यो दिव्यस्रगनुलेपनान् ।जाज्वल्यमानांस्तेजोभिरमलाम्बरवाससः ५०नमो नमोऽस्तु कृष्णाय गोविन्दायाव्ययात्मने ।वासुदेवाय देवाय विष्णवे प्रभविष्णवे ५१इत्येवं वादिनस्तत्र प्रजासंयमनो यमः ।क्षीणपापचयांस्तांस्तु पाद्यार्घ्यादिभिरर्चयन् ५२पूजयित्वा च तानाह स कृष्णाय कृताञ्जलिः ।समाहितमना भूत्वा धर्मराजो नरेश्वर ५३विष्णोर्देवातिदेवस्य जगद्धातुः प्रजापतेः ।प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ५४सर्वस्य सर्वसंस्थस्य सर्वाधारस्य योगिनः ।ये विष्णोः प्रणतास्तेभ्यो नमः सद्यः पुनः पुनः ५५तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ५६वसिष्ठ उवाच ।एवं ते संस्तुतास्तेन धर्मराजेन नारकाः ।विमानानि समारूढा नृत्तगान्धर्ववन्ति वै ५७पुद्गलोऽपि महाबुद्धिर्दृष्ट्वैतदखिलं नृप ।जातिस्मरोऽभवद्भूप कण्वगोत्रे महामुनिः ५८संस्मृत्य यमवाक्यानि विष्णोर्माहात्म्यमेव च ।जलधेन्वाश्च माहात्म्यं संस्मृत्यैतदगायत ५९अहो दुरुत्तरा विष्णोर्मायेयमतिगह्वरी ।यया मोहितचित्तस्तं न वेत्ति परमेश्वरम् ६०जीवो वाञ्छति कीटत्वं यूकामत्कुणयोनितः ।तस्माच्च शलभादीनां योनिं तस्माच्च पक्षिणाम् ६१ततश्च पशुतां प्राप्य नरत्वमभिवाञ्छति ।विमुक्तिहेतुकी धन्या नरयोनिः कृतात्मनाम् ६२न प्राप्नुवन्ति संसारे विभ्रान्तमनसो गतिम् ।जीवा मानुष्यतामन्ये जन्मनामयुतैरपि ६३विष्णुमायापरीतास्ते प्राप्यापि न तरन्ति ये ।तदीदृग्दुर्लभं प्राप्य मुक्तिद्वारमचेतसः ।पतन्ति भूयः संसारे विष्णुमायाविमोहिताः ६४दुस्तरापि तु साध्यासौ माया कृष्णस्य मोहनी ।छिद्यते यामनोन्यस्ते मुधैव हि जनार्दने ६५असन्त्यज्य च गार्हस्थ्यमतप्त्वैव तथा तपः ।छिन्दन्ति वैष्णवीं मायां केशवार्पितमानसाः ६६अविरोधेन विषयां भुञ्जन्विष्णुव्यपाश्रयः ।कृत्वा मनस्तरत्येतां विष्णोर्मायां सुदुस्तराम् ६७ईदृग्बहुफलां भक्तिं सर्वधातरि केशवे ।मायया तस्य देवस्य न कुर्वन्ति विमोहिताः ६८मुधैवोक्तं मुधायातं मुधा तद्विधिचेष्टितम् ।मुधैव जन्म तन्नष्टं यत्र नाराधितो हरिः ६९आराधितो हि यः पुंसामैहिकामुष्मिकं फलम् ।ददाति भगवान्देवः कस्तं न प्रतिपूजयेत् ७०संवत्सरास्तथा मासा विफला दिवसाश्च ते ।नराणां विषयान्धानां येषु नाराधितो हरिः ७१यो न वित्तर्द्धिविभवैर्न वसोभिर्न भूषणैः ।तुष्यते हृदयेनैव कस्तमीशं न पूजयेत् ७२जलधेन्वाश्च माहात्म्यं निशाम्यापीदृशं नराः ।तां न यच्छन्ति ये तेषां विवेकः कुत्र तिष्ठति ७३कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि ।स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः ७४सम्प्राप्य तन्न यैर्विष्णुस्तोषितो नाम्बुधेनुका ।दत्ता च सम्यक् ते मुष्टा जन्मनि सुबहूनि भोः ७५ऊर्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः ।आराधयत गोविन्दं जलधेनुं प्रयच्छत ७६दुःसहो नारको वह्निरविषह्याश्च यातनाः ।ज्ञानं ममैतदालम्ब्य कृष्णे भवत सुस्थिराः ७७अदेशिके देशिकोऽहमत्र मार्गे मयोदितम् ।विमृष्य सत्यमित्येतन्मनः कृष्णे निवेश्यताम् ७८प्रातः कृष्णेति देवेति गोविन्देति च जल्पताम् ।मध्याह्ने चापराह्ने च योऽवसादः स उच्यताम् ७९अनेकविषयालम्बि यच्चित्तं तज्जनार्दने ।कुरुध्वमालम्बनवत्संस्मृतः पुण्यदो हि सः ८०मुधैव जिह्वा कृष्णेति केशवेति च वक्ष्यति ।मुधा च चित्तं तद्गामि यदि स्यात्किमतोऽधिकम् ८१मयोक्तमेतद्बहुशो विनष्टे तु शरीरके ।मनुष्यत्वं विना विष्णुर्दुर्लभो वो भविष्यति ८२वसिष्ठ उवाच ।एताः पुद्गलगाथास्ते यमवाक्यं तवोदितम् ।जलधेन्वाश्च माहात्म्यं विष्णुसम्पूजनस्य च ८३व्रतानि सोपवासानि सर्वकामप्रदानि ते ।व्रतमन्यन्महाभाग सर्वकामप्रदं शृणु ८४इति विष्णुधर्मेषु पुद्गलगाथाः । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP