संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय २९

विष्णुधर्माः - अध्याय २९

विष्णुधर्माः


अथैकोनत्रिंशोऽध्यायः ।
दाल्भ्य उवाच ।
सुरूपता मनुष्याणां स्त्रीणां च द्विजसत्तम ।
कर्मणा जायते येन तन्ममाख्यातुमर्हसि १

सुरूपाणां सुगात्राणां सुवेषाणां तथा मुने ।
न्यूनं तथाधिकं वापि किञ्चिदङ्गं प्रजायते २

समस्तैः शोभनैरङ्गैर्नराः केचित्तथा द्विज ।
काणाः कुब्जाश्च जायन्ते त्रुटितश्रवणास्तथा ३

नराणां योषितां चैव समस्ताङ्ग्सुरूपता ।
कर्मणा येन भवति तत्सर्वं कथयाअल ४

लावण्यगतिवाक्यानि सति रूपे महामते ।
प्रयान्ति चारुतां रूपं तेनोक्तः परमो गुणः ५

वाक्यलावण्यसंस्कारविलासललिता गतिः ।
विडम्बना कुरूपाणां स्त्रीपुंसामभिजायते ६

रूपकारणभूताय यतेत मतिमांस्ततः ।
कर्मणा तन्ममाचक्ष्व कर्म यच्चारुरूपदम् ७

पुलस्त्य उवाच ।
सम्यक् पृष्टं त्वया हीदमुपवासाश्रितं द्विज ।
कथयामि यथा प्रोक्तं वसिष्ठेन महात्मना ८

वसिष्ठमृषिमासीनं सप्तर्षिप्रवरं पतिम् ।
पप्रच्छारुन्धती प्रश्नं यदेतद्भवता वयम् ९

तस्याः स परिपृच्छन्त्या जगाद मुनिसत्तमः ।
यत्तच्छृणुष्व धर्मज्ञ ममेह वदतोऽखिलम् १०

वसिष्ठ उवाच ।
श्रूयतां मम यत्पृष्टस्त्वयाहं ब्रह्मवादिनि ।
सुरूपता नृणां येन योषितां चोपजायते ११

अनभ्यर्च्य यथान्यायमनाराध्य च केशवम् ।
रूपादिका गुणाः केन प्राप्यन्तेऽन्येन कर्मणा १२

तस्मादाराधनीयो वै विष्णुरेव यशस्विनि ।
परत्र प्राप्तुकामेन रूपसम्पत्सुतादिकम् १३

यस्तु वाञ्छति धर्मज्ञे रूपं सर्वाङ्गशोभनम् ।
नक्षत्रपुरुषस्तेन सम्पूज्यः पुरुषोत्तमः १४

नक्षत्राङ्गं यथाहारः समुपोष्यति यो हरिम् ।
सुरूपैरखिलाङ्गैश्च रूपवानभिजायते १५

योषिता च परं रूपमिच्छन्त्या जगतः पतिः ।
स एवाराधनीयोऽत्र नक्षत्राङ्गो जनार्दनः १६

अरुन्धत्युवाच ।
नक्षत्ररूपी भगवान्पूज्यते पुरुषोत्तमः ।
मुने येन विधानेन तन्ममाख्यातुमर्हसि १७

वसिष्ठ उवाच ।
चैत्रमासं समारभ्य विष्णोः पादादिपूजनम् ।
यथा कुर्वीत रूपार्थी तन्निशामय तत्त्वतः १८

नक्षत्रमेकमेकं वै स्नातः सम्यगुपोषितः ।
नक्षत्रपुरुषस्याङ्गं पूजयेत्साध्वी चक्रिणः १९

मूले पादौ तथा जङ्घे रोहिणीष्वर्चयेच्छुभे ।
जानुनी चाश्विनीयोग आषाढे चोरुसञ्ज्ञिते २०

फाल्गुनीद्वितये गुह्यं कृत्तिकासु तथा कटिम् ।
पार्श्वे भद्रपदायुग्मे द्वे कुक्षी रेवतीषु च २१

अनुराध उरः पृष्ठं श्रविष्ठास्वभिपूजयेत् ।
भुजयुग्मं विशाखासु हस्ते चैव करद्वयम् २२

पुनर्वसावङ्गुलींश्च आश्लेषासु तथा नखान् ।
ज्येष्ठायां पूजयेद्ग्रीवं श्रवणे श्रवणे तथा २३

पुष्ये मुखं तथा स्वातौ दशनानभिपूजयेत् ।
हन्वौ शतभिषायोगे मघायोगे च नासिकाम् २४

मृगोत्तमाङ्गे नयने पूजयेद्भक्तितः शुभे ।
चित्रायोगे ललाटं च भरण्यां च तथा शिरः ।
सम्पूजनीया विद्वद्भिश्चाद्रासु च शिरोरुहाः २५

नक्षत्रयोगेष्वेतेषु पूजितो जगतः पतिः ।
नक्षत्रपुरुषाख्योऽयं यथावत्पुरुषोत्तमः २६

पापापहारं कुरुते सम्यच्छ्रद्धावतां सताम् ।
अङ्गोपाङ्गानि चैवास्य पापादीनि यशस्विनि २७

सुरूपान्यभिजायन्ते सप्त जन्मान्तराणि वै ।
सर्वाणि चैव भद्राणि शरीरारोग्यमुत्तमम् २८

सन्ततिं मनसः प्रीतिं रूपं चातीवशोभनम् ।
वाङ्माधूर्यं तथा कान्तिं यच्चान्यदभिवाञ्छितम् २९

ददाति नक्षत्रपुमान्पूजितश्च जनार्दनः ।
उपोष्य सम्यगेतेषु क्रमेण र्क्षेषु शोभने ३०

सम्पूजनीयो भगवान्नक्षत्राङ्गो जनार्दनः ।
गन्धपुष्पादिसंयुक्तं पूजयित्वा यदाविधि ।
जानुभ्यां धरणीं गत्वा इदं चोदाहरेत्ततः ।
स्वरूपमारोग्यमतीव वर्चसं सुसन्ततिं त्वस्थितभक्तिमच्युताम् ।
अपि सर्वमेतं प्रोतं सूत्रे मणिगणा इव ।
एकपुरुष महापुरुष ऋक्षपुरुष नमोऽस्तु ते ।
प्रतिनक्षत्रयोगे च भोजनीया द्विजोत्तमाः ३१

नक्षत्रज्ञाय विप्राय दद्याद्दानं च शक्तितः ।
पारिते च पुनर्दद्यात्स्त्रीपूंसां चारुहासिनि ३२

छत्त्रोपानद्युगं चैव सप्तधान्यं सकाञ्चनम् ।
घृतपात्रं च धर्मज्ञे यच्चान्यदतिवल्लभम् ३३

स्त्री वा साध्वी सदा विष्णोराराधनपरायणा ।
अनेनैव विधानेन सम्पूज्यैतदवाप्नुयात् ३४

इति विष्णुधर्मेषु नक्षत्रपुरुषव्रतं नामैकोनत्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : February 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP