संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ३७ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ३७ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ३७ Translation - भाषांतर अथ सप्तत्रिंशोऽध्यायः ।दाल्भ्य उवाच ।यन्न तापाय वै पुंसां भवत्यामुष्मिकं कृतम् ।तापाय यच्च भवति तदाचक्ष्व महामुने १उपवासप्रभावं च कृष्णाराधनकाङ्क्षिणः ।कथयेह मम ब्रह्मन्न च तृप्यामि कथ्यते २पुलस्त्य उवाच ।श्रूयतां दाल्भ्य यत्पृष्टाः कौतुकाद्भवता वयम् ।आमुष्मिकं न तापाय यच्च तापाय जायते ३उपोषितप्रभावं च कृष्णाराधनकाङ्क्षिणः ।कथयामि यथावृत्तं पूर्वमेव महामते ४वैदिशं नाम नगरं प्रख्यातमिह सत्तम ।तत्र वैश्योऽभवत्पूर्वं वीरभद्रइति श्रुतः ५भार्याजामाऋदुहितृपुत्रपौत्रस्नुषान्वितः ।प्रभूतभृत्यवर्गश्च बहुव्यापारकारकः ६पुत्रपौत्रादिभरणव्यासक्तमतिरेव च ।परलोकं प्रति मतिस्तस्य चात्यन्तदुर्मुखा ७चकारानुदिनं सोऽथ न्यायान्यायैर्धनार्जनम् ।सर्वत्रान्यत्र निःस्नेहः परस्वे चातितर्षुलः ८न जुहोत्युदिते काले न ददात्यतितृष्णया ।बभूव चोद्यमस्तस्य पुत्रादिभरणे परः ९नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणाम् ।तृष्णाभिभूतो विप्रर्षे स्ववर्गभरणाधृतः १०कालेन गच्छता सोऽथ मृतो विन्ध्याटवीतटे ।यातनादेहभृत्प्रेतो ग्रीष्मकालेऽभवन्मुने ११तं ददर्श महाभागो दिव्यज्ञानसमन्वितः ।वेदवेदान्तविद्विद्वान्पिपीतो नाम वै द्विजः १२भास्करस्यांशुभिर्दीप्तैर्दह्यन्तमनिवारणैः ।प्रतप्तवालुकामध्ये तृषा चात्यन्तपीडितम् १३क्षुत्क्षामकण्ठं शुष्कास्यं स्तब्धोद्वृत्तविलोचनम् ।निष्क्रान्तजिह्वमङ्गेषु विस्फोटैः सर्वतश्चितम् १४निश्वासायासखेदेन विरलास्यमनादरम् ।श्रान्तं मक्षिकयाकीर्णं दुर्दग्धं चातिदारुणम् ।निजेन कर्मणा बद्धमसमर्थं पलायने १५तं तादृशमथो दृष्ट्वा गार्दभेयो महामुनिः ।पिपीतः प्राह विप्रर्षिः कारुण्यस्तिमितं वचः १६जानन्नपि तथा प्राप्तं तदनुष्ठानजं फलम् ।जन्तोस्तस्योपकाराय सर्वतो ह्लादयन्निव १७पिपीत उवाच ।अधः सूर्यांशुभिस्तप्तैर्बहुभिर्यानपांसुभिः ।उपर्यर्ककरैरुग्रैस्तृषा चार्तस्तथा क्षुधा १८अन्यैस्तथाधिभिर्घोरैरविषह्यैरवारणैः ।कथयेह यथातत्त्वमेकाकी दह्यसे कथम् १९पुलस्त्य उवाच ।तस्यैतद्वचनं श्रुत्वा पिपीतस्य सवेदनम् ।यातनास्थ उवाचेदं कृच्छ्रादुच्छ्वास्य मस्तकम् २०वीरभद्रउवाच ।ब्रह्मन्नालोचितं पूर्वं कथमन्ते भविष्यति ।अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः २१धनापणगृहक्षेत्रपुत्रदारहिते रतः ।नात्मनोऽहं हितारम्भी तेन दह्यामि दुर्मतिः २२इदं करिष्ये कृत्वेदं करिष्याम्यपरं त्विदम् ।इतीच्छाशतसरोऽहं तेन दह्यामि दुर्मतिः २३जुहोमि यदि तन्नास्ति ददामि यदि सीदति ।कुटुम्बमिति मूढोऽहं तेन दह्यामि दुर्मतिः २४शीतोष्णवर्षाभिभवं लोभात्सोडः मयाशुभम् ।तदेव हि न धर्मार्थं तेन दह्यामि दुर्मतिः २५पितृदेवमनुष्याणामदत्त्वापोषिता हि ये ।तेऽन्यत्र क्वापि वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः २६पुत्रभृत्यकलत्रेषु मम त्वादृतमानसः ।कृत्वा कर्माण्यसाधूनि दह्याम्येकोऽत्र दुर्मतिः २७मृते मयि धने तस्मिन्नन्यायोपार्जिते मया ।नूनं ममेति वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः २८न हि नः पूजिता गेहान्निर्गता द्विजसत्तमाः ।स्ववर्गहितकामस्य तेन दह्याम्यहर्निशम् २९यन्मे न पूजिता देवाः कुटुम्बं पोषीतं परम् ।एकाकी तेन दह्यामि ये पुष्टास्तेऽन्यतो गताः ३०नित्यनैमित्तिकं कर्म कृते येषां न म कृतम् ।एकाकी तेन दह्यामि तैर्मन्ये क्वापि रम्यते ३१यन्मे परिजनस्यार्थे कृतं कर्म शुभाशुभम् ।एकाकी तेन दह्यामि गतास्ते फलभोगिनः ३२दाराः पुत्राश्च भृत्याश्च पापव्याप्त्या मयैधिताः ।एकाकी तेन दह्यामि गतास्ते फलभोगिनः ३३पुत्रदारादिभृत्यार्थे मयान्यायार्थसञ्चयाः ।कृतास्तेनात्र दह्यामि भुञ्जतेऽप्यन्यतो गताः ३४कृतं पापं मया भुक्तमन्यैस्तत्कर्मसञ्चितम् ।दह्याम्येकोऽहमत्यन्तं त्यक्तस्तैः फलभोगिभिः ३५यन्ममत्वाभिभूतेन मया धनमुपार्जितम् ।अन्यस्य तेऽद्य कस्यापि केवलं मम दुष्कृतम् ३६अन्तर्दुःखेन दग्धोऽन्तर्बहिर्दह्यामि भानुना ।नान्तर्दुःखं न वा भानुः पापमेव द्विधा स्थितम् ३७कञ्चित्कर्मसमुद्धारं पश्यस्यसुखसागरात् ।मम येनाहमाह्लादमाप्नुयां मुनिसत्तम ३८पिपीत उवाच ।अल्पकालिकमुद्धारं तव पश्याम्यसंशयम् ।प्रक्षीणप्रायमेतत्ते सुकृतं चास्ति ते परम् ३९अतीते दशमे जन्मन्यच्युताराधनेच्छया ।सुकर्मजयदां भद्रद्वादशीं त्वमुपोषितः ४०तव तस्याः प्रभावेण पापमत्यन्तदुर्जयम् ।अल्पैरहोभिः सङ्क्षीणं नवपात्रे यथा जलम् ४१यदन्यः क्षपयेद्वर्षैस्तद्दिनैर्भवतः क्षयम् ।गतं पापमयं तस्याः प्रभावोऽत्यन्तदुर्लभः ४२शमं पापस्य कुरुते जयं सुकृतकर्मणः ।सत्कर्मजयदा ह्येषा ततो वै द्वादशी स्मृता ४३यच्चैतद्वेदनार्तेन भवता परिदेवितम् ।तत्तथा नात्र सन्देहो ममता पापहेतुकी ४४पापमत्र कृतं प्रेत्य भद्रतापाय जायते ।आह्लादाय तथा पुण्यमिह पुण्यकृतां नृणाम् ४५पुलस्त्य उवाच ।वीरभद्रंसमाश्वास्य ययावित्थं महामुनिः ।सोऽप्यल्पेनैव कालेन ततो मोक्षमवाप्तवान् ४६एवं दाल्भ्य परे लोके यदत्रासुकृतं कृतम् ।तत्तापाय सुखायोक्तं यदत्रैव शुभं कृतम् ४७उपवासप्रभावश्च कथितस्ते महामुने ।येनाल्पैरेव दिवसैर्भूरि पापं क्षयं गतम् ४८तस्मान्नरेण पुण्याय पतितव्यं न पातके ।उपवासाश्च कर्तव्याः सदैवात्महितैषिणा ४९इति विष्णुधर्मेषु वीरभद्रगीता सुकृतद्वादशीप्रभावः । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP