संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ३६ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ३६ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ३६ Translation - भाषांतर अथ षट्त्रिंशोऽध्यायः ।पुलस्त्य उवाच ।एवं स्तुतस्ततः प्राह प्रीतिमांस्तं जनार्दनः ।परिष्वज्य महाबाहुं समाश्वास्य च फाल्गुनम् १प्रोवाच भगवान्देवः प्रहृष्टेनान्तरात्मना ।यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु ।अभेदेनात्मना वेद्मी त्वामहं पाण्डुनन्दन २ममांशत्वं महाबाहो जगतः पालनेच्छया ।भुवो भारावतारार्थं पृथक् पार्थ मया कृतम् ३देवदैत्योरगा यक्षा गन्धर्वाः किन्नराप्सराः ।राक्षसाश्च पिशाचाश्च पशुपक्षिसरीसृपाः ४वृक्षगुल्मादयः शैलाः सर्वभूतानि चार्जुन ।ममैवांशानि भूतानि विद्धि सर्वाण्यरिन्दम ५अर्जुन उवाच ।भगवन्सर्वभूतात्मन्सर्वभूतेषु वै भवान् ।परमात्मस्वरूपेण स्थितं वेद्मि तदव्ययम् ६क्षेत्रेषु येषु येषु त्वं चिन्तनीयो मयाच्युत ।चेतसः प्रणिधानार्थं तन्ममाख्यातुमर्हसि ७यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ ।प्रसादसुमुखो नाथ तन्ममाशेषतो वद ८भगवानुवाच ।सर्वगः सर्वभूतोऽहं न हि किञ्चिद्मया विना ।चराचरे जगत्यस्मिन्विद्यते कुरुसत्तम ९तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन ।स्तोतव्यो नामभिर्यैस्तु श्रूयतां तद्वदामि ते १०पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम् ।लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ११क्ष्वामाच्ये कुमारं नेपाले लोकभावनम् ।राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम् ।वृन्दावने च गोविन्दं मा स्तुवन्पुण्यभाग्भवेत् १२मन्दोदपाने वैकुण्ठं माहन्त्रे चाच्युतं विभुम् ।जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।वाराहं कर्दमाले तु काश्मीरे चक्रपाणिनम् १३जनार्दनं च कुब्जाम्रे मथुरायां च केशवम् ।कुब्जके श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् १४शालग्रामे महायोगिं हरिं गोवर्धनाचले ।पिण्डारके चतुर्बाहुं शङ्खोद्धारे च शङ्खिनम् १५वामनं च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।वनमालं च किष्किन्धाआं देवं रैवतके द्विज ।काशीजले महायोगं देवं चामिततेजसम् ।वैशाखयूपे अजितं विरजायां विप्रक्षयम् ।विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे १६श्वेतद्वीपपतिं चापि गङ्गासागरसङ्गमे ।भूधरं देविकानद्यां प्रयागे चैव माधवम् १७नरनारायणाख्यं च तथा बदरिकाश्रमे ।समुद्रेदक्षिणे स्तव्यं पद्मनाभेति फाल्गुन १८द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम् ।रामं नाम महेन्द्राद्रौहृषीकेशं तथार्बुदे १९अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले ।नृसिंहं कृतसौचे च विपाशायां द्विजप्रियम् २०नैमिषे यज्ञपुरुषं जम्बूमार्गे तथाच्युतम् ।अनन्तं सैन्धवारण्ये दण्डके शाङ्गधारिणम् २१उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम् ।दामोदरं रैवतके नन्दायां जलशायिनम् २२सर्वयोगेश्वरं चैव सिन्धुसागरसङ्गमे ।सह्याद्रौदेवदेवेशं वैकुण्ठं मागधे वने २३सर्वपापहरं विन्ध्ये उड्रेषु पुरुषोत्तमम् ।हृदये चापि कौन्तेय परमात्मानमात्मनः २४वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् ।पर्वते पर्वते रामं सर्वत्र मधुसूदनम् २५नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम् ।वासुदेवं च सर्वत्र संस्मरञ्ज्योतिषां पतिम् २६अर्चयन्प्रणमंस्तु त्वं संस्मरंश्च धनञ्जय ।एतेष्वेतानि नामानि नरः पापैः प्रमुच्यते २७स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणनं नरः ।द्विजानां प्रीणनं कृत्वा स्वर्गलोकेऽभिजायते २८नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान् ।जयं वै पञ्चपञ्चाशत्त्रिसन्ध्यं मत्परायणः २९त्रीणि जन्मानि यत्पापमवस्थात्रितये कृतम् ।तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ३०द्विष्कालं वा जपन्नेव दिवारात्रौ च यत्कृतम् ।तस्माद्विमुच्यते पापात्सद्भावपरमो नरः ३१जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम् ।मोचयन्ते नरं पापाद्यत्तत्रैव दिने कृतम् ३२धन्यं यशस्यमायुष्यं जयं कुरु कुलोद्वह ।ग्रहानुकूलतां चैव करोत्याशु न संशयः ३३उपोषितो मत्परमः स्थानेष्वेतेषु मानवः ।कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ३४उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते ।अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ३५यस्तु मत्परमः कालं करोत्येतेषु मानवः ।देवानामपि पूज्योऽसौ मम लोके महीयते ३६इति विष्णुधर्मेषु पञ्चपञ्चाशन्नामानि । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP