विष्णुधर्माः - अध्याय ७३
विष्णुधर्माः
अथ त्रिसप्ततितमोऽध्यायः ।
शतानीक उवाच ।
जगत्प्रभुं देवदेवमशेषेशं जनार्दनम् ।
प्रणिपत्याहमेतं त्वां यत्पृच्छामि तदुच्यताम् १
यैरुपायैः प्रदानैर्वा नराणाममरार्चितः ।
प्रीतिमान्पुण्डरीकाक्षो भवत्याचक्ष्व तन्मम २
शौनक उवाच ।
ये स्वधर्मे स्थिता वर्णा विप्राद्याः कुरुनन्दन ।
विधर्मेषु न वर्तन्ते प्रीतिमांस्तेषु केशवः ३
ब्रह्मचारिगृहस्थाद्या न च्यवन्त्याश्रमाच्च ये ।
स्वधर्मतो हरिस्तेषां प्रीतिमानेव सर्वदा ४
ये न दम्भेन वर्तन्ते नरा भूतेष्वलोलुपाः ।
त्यक्तग्राम्यादिसङ्गाश्च तेषु प्रीतिः परा हरेः ५
दातारो नापहर्तारः परस्वानाममायिनः ।
ये नरास्तेषु गोविन्दः पुत्रेष्विव सदा हितः ६
येषां नराणां न मतिर्जिह्वा वासत्यमुज्झति ।
ते प्रिया वासुदेवस्य ये च द्विजपरायणाः ७
कर्मणा मनसा वाचा ये न हिंसानुवर्तिनः ।
ते नरा वासुदेवस्य आः पाण्डुकुलोद्वह ८
सर्वदेवेषु ये विष्णुं सर्वभूतेष्ववस्थितम् ।
मन्यन्ते वासुदेवस्य ते प्रियाः पुत्रवत्सदा ९
ब्रह्माद्यं स्थावरान्तं च भूतग्रामं जनार्दनात् ।
ये च पश्यन्त्यभेदेन ते विष्णोः सततं प्रियाः १०
देववेदद्विजातीनां निन्दायां ये न मानवाः ।
प्रीतिभाजो भवन्तीष्टास्ते सदा शार्ङ्गधन्विनः ११
प्रियाणामथ सर्वेषां देवदेवस्य स प्रियः ।
आपत्स्वपि सदा यस्य भक्तिरव्यभिचारिणी १२
तस्मात्प्रियत्वं कृष्णस्य वाञ्छता निजधर्मजैः ।
गुणैरात्मा सदा योज्यो न दूरे गुणिनो हरिः १३
येषां न गृद्धिः पारक्ये दारे द्रव्ये च चेतसः ।
हिंसायां च मनुष्याणां ते कृष्णेनावलोकिताः १४
वेदाः प्रमाणं स्मृतयो येषां सन्मार्गसेविनाम् ।
परोपकारसक्तानां ते कृष्णेनावलोकिताः १५
कलिकल्मषदोषेण येषां नोपहता मतिः ।
पाषण्डानुगता नैव ते कृष्णेनावलोकिताः १६
येषां क्लेशो गुरोरर्थे देवविप्रोद्भवोऽपि वा ।
न विवित्सासमुद्भूतस्ते कृष्णेनावलोकिताः १७
स्वपन्तः संस्थिता यान्तस्तिष्ठन्तश्च जनार्दनम् ।
ये चिन्तयन्त्यविरतं ते कृष्णेनावलोकिताः १८
यथात्मनि तथापत्ये येषां अद्रोहिणी मतिः ।
समस्तसत्त्वजातेषु ते कृष्णेनावलोकिताः १९
देवपूजामनुदिनं गुरुविप्रार्थसत्क्रियाम् ।
ये कुर्वन्ति नरा विद्धि ते कृष्णेनावलोकिताः २०
सुवर्णं रत्नमथवा पारक्यं विजने वने ।
विलोक्य नैति यो लोभं तं अवैहि हरेः प्रियम् २१
देवान्पितॄंस्तथापन्नानतिथीञ्जामयोऽध्वगान् ।
यो बिभर्ति विजानीहि तं नरं भगवत्प्रियम् २२
न क्रोधमेति क्रुद्धेभ्यः सहते यो निराक्रियाम् ।
तं विजानीहि भर्तव्यं देवदेवस्य शार्ङ्गिनः २३
परलोकप्रतीकारकरणाय सदोद्यमम् ।
कुर्वन्नालक्ष्यतामेति केशवेनावलोकितः २४
नात्मसंस्तवमन्येषां न निन्दां चार्थलिप्सया ।
करोति पुरुषव्याघ्र यस्य नारायणो हृदि २५
सर्वभूतदयां सत्यमक्रोधं धर्मशीलताम् ।
भजन्ते पुरुषा देवे गोविन्दे हृदये स्थिते २६
न कलौ न परद्रव्ये परदाराश्रिता मतिः ।
नराणां जायते राजन्गोविन्दे हृदयस्थिते २७
क्षमां करोति क्रुद्धेषु दयां मूढेषु मानवः ।
मुदं च धर्मशीलेषु गोविन्दे हृदये स्थिते २८
यदा बिभेत्यधर्मादेर्धर्मादींश्च यदेच्छति ।
तदा कुरुवरश्रेष्ठ नरः कृष्णेन वीक्षितः २९
पुत्रदारगृहक्षेत्रद्रव्यादेर्ममतां नरः ।
नायास्यति जगन्नाथे हृषीकेशे पराङ्मुखे ३०
कलौ कृतयुगं तेषां क्लेशास्तेषां सुखाधिकाः ।
येषां शरीरग्रहणे हरिशुश्रूषणे मतिः ३१
यदा नेच्छति पापानि यदा पुण्यानि वाञ्छति ।
ज्ञेयस्तदा मनुष्येण हृदयेऽस्य हरिः स्थितः ३२
परमार्थे मतिः पुंसामसारे तु भवार्णवे ।
कथं भवति राजेन्द्रविष्वक्सेन पराङ्मुखे ३३
श्रद्दधानो दयाशीलः समलोष्टाश्मकाञ्चनः ।
परार्थे मानवः कृष्णे प्रसन्ने नृप जायते ३४
वहतोऽपि सदा कृष्णे भक्तिमव्यभिचारिणीम् ।
पाणिष्वसमदृग्बुद्धेः सुलभो नैव केशवः ३५
ये दाम्भिका भिन्नवृत्ता ये च धर्मध्वजोच्छ्रयाः ।
दुर्लभो भगवान्देवस्तेषां सुयततामपि ३६
कामलोभाश्रितं येषां चित्तं क्रोधादिदूषितम् ।
तेषां जन्मसहस्रेऽपि न मतिः केशवाश्रया ३७
हेयां कृष्णाश्रयां वृत्तिं मन्यन्ते हेतुसंश्रिताः ।
अवियोपहतज्ञाना येऽज्ञाने ज्ञानमानिनः ३८
वेदवादविरोधेन कूटयुक्तिमपाश्रिताः ।
ये केशवस्तद्धृदये न कदाचित्प्रियातिथिः ३९
मानुषं तं मनुष्यत्वे मन्यमानाः कुबुद्धयः ।
कर्माणि येऽस्य निन्दन्ति न तेषां निष्कृतिर्नृणाम् ४०
केचिद्वदन्ति तं देवं मनुष्यं चाल्पमेधसः ।
तिर्यक्त्वं चापरे विष्णुं मायया तस्य मोहिताः ४१
देवत्वमपि कृष्णस्य यस्य निन्दा महात्मनः ।
स्तुतिं तस्य कथं शक्ताः कर्तुमीशस्य मानवाः ४२
व्यापित्वं शाश्वतत्वं च जन्मभावविवर्जितम् ।
यदास्य प्रोच्यते कास्य स्तुतिरर्थे तथा स्थितौ ४३
सर्वेश्वरेश्वरः कृष्णः प्रोच्यते यदि पण्डितः ।
तथापि स्वल्पमेवोक्तं भूतार्थे कतमा स्तुतिः ४४
आब्रह्मस्तम्बपर्यन्ते संसारे यस्य संस्थितिः ।
निन्दापि तस्य न नृभिः कर्तुमीशस्य शक्यते ४५
यदा काणाश्च कूण्ठाश्च मूढो दुर्बुद्धिरातुरः ।
सर्वगत्वात्स एवैकस्तदासौ निन्द्यते कथम् ४६
स्रष्टा पालयिता हर्ता जगतोऽस्य जगच्च सः ।
यष्टा याजयिता याज्यः स एव भगवान्हरिः ४७
दाता दानं तथादाता कर्ता कार्यं तथा क्रियाः ।
हन्ता घातयिता हिंस्यो हार्यं हर्ता च यः स्वयम् ४८
सर्वकारणभूतस्य तस्येशस्य महात्मनः ।
कः करोति स्तुतिं विष्णोर्निन्दां वा पृथिवीपते ४९
तस्मात्सर्वेश्वरो विष्णुर्न स्तोतुं न च निन्दितुम् ।
शक्यते सर्वभूतत्वाच्चोक्षाचोक्षस्वरूपिणा ५०
स्तुतेः पादाद्यतो नान्यदुत्कृष्टमुपलभ्यते ।
तस्याप्युच्चारणेनेशो न स्तोतुं शक्यते हरिः ५१
भूतार्थवादस्तुतये न निन्दायै विधीयते ।
यतोऽतः सर्वभूतस्य का निन्दा तस्य का स्तुतिः ५२
येन सर्वात्मना तत्र हृदयं सन्निवेशितम् ।
अपि मौनवतस्तस्य सुलभोऽयं जनार्दनः ५३
तस्मात्त्वं कुरुशार्दूल स्वधर्मपरिपालनम् ।
कुरु विष्णुं च हृदये सर्वव्यापिनमीश्वरम् ५४
तन्मना भव तद्भक्तस्तद्याजी तं नमस्कुरु ।
विष्णोरेवं प्रियत्वं त्वमाशु यास्यसि पार्थिव ५५
यं स्तुवन्स्तव्यतामेति वन्द्यमानश्च वन्द्यताम् ।
तमीश्वरेश्वरं विष्णुं हृदये सन्निवेशय ५६
सम्पूज्य यं पूज्यतमो भवत्यत्र जगत्त्रये ।
तमीश्वरेश्वरं विष्णुं हृदये कुरु पार्थिव ५७
स्ववर्णकर्माभिरतः कुरु चित्ते जनार्दनम् ।
एष शास्त्रार्थसद्भावः किमुक्तैर्बहुविस्तरैः ५८
यस्मिन्प्रसन्नचित्तस्त्वं यस्मिन्कोपमुपैषि च ।
तावुभावपि तद्भूतौ चिन्तयन्सिद्धिमेष्यसि ५९
यत्र यत्र स्थितं चेतः प्रीत्या स्नेहेन वा तव ।
तं तं चिन्तय गोविन्दं मनसः स्थैर्यकारणात् ६०
स्वपन्विबुद्ध्यन्नुत्तिष्ठन्स्थितो भुञ्जन्पिबन्व्रजन् ।
सर्वगं सर्वकर्तारं विष्णुं सर्वत्र चिन्तय ६१
यथाग्निसङ्गात्कनकमपदोषं प्रजायते ।
संश्लिष्टं वासुदेवेन मनुष्याणां तथा मनः ६२
यज्विनो यं नमस्यन्ति यं नमस्यन्ति देवताः ।
योगिनो यं नमस्यन्ति तं नमस्यं नमाम्यहम् ६३
इति विष्णुधर्मेषु भक्तिवर्णनम् ।
N/A
Last Updated : February 28, 2024
TOP