विष्णुधर्माः - अध्याय ३४
विष्णुधर्माः
अथ चतुर्त्रिंशोऽध्यायः ।
दाल्भ्य उवाच ।
अनायासेन भगवन्दानेनान्येन केनचित् ।
पापं प्रशममायाति येन तद्वक्तुमर्हसि १
पुलस्त्य उवाच ।
शृणु दाल्भ्य महापुण्यां द्वादशीं पापनाशनीम् ।
यामुपोष्य परं पुण्यं प्राप्नुते श्रद्धयान्वितः २
माघमासे तु सम्प्राप्त आषाढार्क्षं भवेद्यदि ।
मूलं वा कृष्णपक्षस्य द्वादश्यां नियतस्तदा ३
गृह्णीयात्पुण्यफलदं विधानं तस्य मे शृणु ।
देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ४
कृष्णनाम्ना च संस्तूय एकादश्यां महामते ।
उपोषितो द्वितीयेऽह्नि पुनः सम्पूज्य केशवम् ५
संस्तूय नाम्ना च ततः कृष्णाख्येन पुनः पुनः ।
दद्यात्तिलांस्तु विप्राय कृष्णो मे प्रीयतामिति ।
स्नानप्राशनयोः शस्तास्तथा कृष्णतिला मुने ६
तिलप्ररोहे जायन्ते यावत्सङ्ख्यास्तिला द्विज ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ७
जातश्चेहाप्यरोगोऽसौ नरो जन्मनि जन्मनि ।
नान्धो न बधिरश्चेह न कुष्ठी न जुगुप्सितः ।
भवत्येतामुषित्वा तु तिलाख्यां द्वादशीं नरः ८
विष्णोः प्रीणनमत्रोक्तं समाप्ते वर्षपारणे ।
पूजां च कुर्याद्विप्राय भूयो दद्यात्तथा तिलान् ९
दाल्भ्य विधिना तिलदानादसंशयम् ।
मुच्यते पातकैः सर्वैर्निरायासेन मानवः १०
उद्भृतपुलकः सर्वान्निरायासेन मानवः ।
दानविधिस्तथा श्रद्धा सर्वपातकशान्तये ।
नार्थः प्रभूतो नायासः शारीरो मुनिसत्तम ११
इति विष्णुधर्मेषु तिलद्वादशी ।
N/A
References : N/A
Last Updated : February 21, 2024
TOP