विष्णुधर्माः - अध्याय २५
विष्णुधर्माः
अथ पञ्चदशोऽध्यायः ।
दाल्भ्य उवाच ।
पाषण्डिभिरसंस्पर्शमसम्भाषणमेव च ।
विष्णोराराधनपरैर्नरैः कार्यमुपोषितैः १
किं ब्रूहि लक्षणं तेषां यादृशान्वर्जयेद्व्रती ।
कथञ्चिद्यदि संलापदर्शनस्पर्शनादिकम् २
उपोषितानां पाषण्डैर्नराणां विप्र जायते ।
किं तत्र वद कर्तव्यं येनाखण्डंव्रतं भवेत् ३
पुलस्त्य उवाच ।
श्रुतिस्मृत्युदितं धर्मं वर्णाश्रमविभागजम् ।
उल्लङ्घ्य ये प्रवर्तन्ते स्वेच्छया कूटयुक्तिभिः ४
विकर्माभिरता मूढा युक्तिप्रागल्भ्यदुर्मदाः ।
पाषण्डिनस्ते दुःशीला नरकार्हा नराधमाः ५
तांस्तु पाषण्डिनः पापान्विकर्मस्थांश्च मानवान् ।
वैडालव्रतिकांश्चैव नित्यमेव तु नालपेत् ६
सम्भाष्यैताञ्शुचिषदं चिन्तयेदच्युतं बुधः ।
इदं चोदाहरेत्सम्यक् कृत्वा तत्प्रवणं मनः ७
शारीरमन्तःकरणोपघातं वाचश्च विष्णुर्भगवानशेषम् ।
शमं नयत्वस्तु ममेह शर्म पापादनन्ते हृदि सन्निविष्टे ८
अन्तःशुद्धिं बहिःशुद्धिं शुद्धोऽन्तर्मम योऽच्युतः ।
स करोत्वमले तस्मिञ्शुचिरेवास्मि सर्वदा ९
बाह्योपघातादनघो बोद्धा च भगवानजः ।
शुद्धिं नयत्वनन्तात्मा विष्णुश्चेतसि संस्थितः १०
एतत्सम्भाष्य जप्तव्यं पाषण्डिभिरुपोषितैः ।
नमः शुचिषदेत्युक्त्वा सूर्यं पश्येत वीक्षितैः ११
श्रूयते च पुरा मर्त्याः स्वेच्छया स्वर्गगामिनः ।
बभूवुरनघाः सर्वे स्वधर्मपरिपालनात् १२
देवाश्च बलिनो मर्त्यैर्वर्णकर्मण्यनुव्रतैः ।
यज्ञाध्ययनदानेषु वर्तमानैश्च मानवैः १३
दैतेयाश्च पराभावमतुष्टावसुरा ययुः ।
ततश्च षण्डो मर्कश्च दैत्येन्द्राणां पुरोहितौ ।
चक्रतुः कर्म देवानां विनाशायातिभीषणम् १४
तत्रोत्पन्नोऽतिकृष्णाङ्गस्तमःप्रायोऽतिदारुणः ।
दम्भाधारः शाठ्यसारो निद्राप्रकृतिरुल्वणः १५
महामोह इति ख्यातः कृत्यरूपो विभीषणः ।
चतुर्धा स विभक्तश्च ताभामत्र महीयते १६
वेददेवद्विजातीनामेकांशेन स निन्दनम् ।
करोत्यन्येन न रतिं योगकर्मसु विन्दति १७
विकर्मण्यपरेणापि संयोजयति मानवान् ।
ज्ञानापहारमन्येन करोति द्विजसत्तम १८
ज्ञानबुद्ध्या तथाज्ञानं गृह्णात्यज्ञानमोहितः ।
वेदवादविरोधेन या कथा सास्य रोचते १९
एवं स तु महामोहः षण्डमर्कोपपादितः ।
दम्भादिदूषितोऽधर्मस्वरूपोऽतिभयङ्कर २०
स लोकान्विविधोपायैर्लोकेष्वेव व्यवस्थितः ।
मोहाभिभवनिःसाराण्करोति द्विजसत्तम २१
तन्मोहितानामचिराद्विवेको याति सङ्क्षयम् ।
क्षीणज्ञाना विकर्माणि कुर्वन्त्यहरहो द्विज २२
निजवर्णात्मकं धर्मं परित्यज्य विमोहिताः ।
धर्मबुद्ध्या ततः पापं कुर्वन्त्यज्ञानदुर्मदाः २३
ज्ञानावलेपस्तत्रैव ततस्तेषां प्रजायते ।
सुहृद्भिर्वार्यमाणास्ते पण्डितैश्च दयालुभिः ।
प्रयच्छन्त्युत्तरं ऊढाः कूटयुक्तिसमन्वितम् २४
ततस्ते स्वयमात्मानमन्यं चाल्पमतिं नरम् ।
विकर्मणा योजयन्तश्च्यवयन्ति स्वधर्मतः २५
पाषण्डिनो दुराचाराः परान्नगुणवादिनः ।
असंस्कृतान्नभोक्तारो व्रात्याः संस्कारवर्जिताः २६
पाषण्डाः पापसङ्कल्पा दाम्भिकाः शठबुद्धयः ।
वर्णसङ्करकर्तारो मायाव्याजोपजीविनः ।
निःशौचा वक्रमतयो नान्यदस्तीतिवादिनः २७
एवंविधास्ते सन्मार्गाद्वेदप्रोक्ताद्बहिःस्थिताः ।
क्रियाकलापं निन्दन्त ऋग्यजुःसामसञ्ज्ञितम् ।
आत्मानं च परांश्चैव कुर्वन्ति नरकस्थितान् २८
तेषां दर्शनसम्भाषस्पर्शनानि नरैः सदा ।
परित्याज्यानि दृष्टे च प्रोक्तः सम्भाषणे च यः ।
संस्पर्शे च बुधः स्नात्वा शुचिः शुचिषदं स्मरेत् २९
भवत्यतः सदैवैषामालापस्पर्१शनं त्यजेत् ।
पुण्यकामो महाभागः किं पुनर्यदुपोषितः ३०
यतो हि निन्दिते कर्मण्यभ्यासो रतिरेव च ।
पाषण्डिनामशेषाणामप्रीतिर्वेदकर्मणि ।
ते ह्यधोगामिनः प्रोक्ता आसुरं भावमाश्रिताः ३१
इति विष्णुधर्मेषु पाषण्डालापप्रायश्चित्तम् ।
N/A
References : N/A
Last Updated : February 19, 2024
TOP