संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ३९

विष्णुधर्माः - अध्याय ३९

विष्णुधर्माः


अथैकोनचत्वारिंशोऽध्यायः ।
दाल्भ्य उवाच ।
कार्यारम्भेषु सर्वेषु दुःस्वप्नेषु च सत्तम ।
अमङ्गल्येषु सर्वेषु यज्जप्तव्यं तदुच्यताम् १

येनारम्भाश्च सिद्ध्यन्ति दुःस्वप्नं चोपशाम्यति ।
अमङ्गलानां सर्वेषां प्रतिघातश्च जायते २

पुलस्त्य उवाच ।
जनार्दनं भूतपतिं जगद्गुरुं ।
स्मरन्मनुष्यः सततं महामुने ।
दुष्टान्यशेषाण्यपहन्ति साधयत्य् ।
अशेषकार्याणि तथा यदीच्छति ३

शृणुष्व चान्यद्वदतो ममाखिलं वदामि यत्ते द्विजवर्य मङ्गलम् ।
सर्वार्थसिद्धिं प्रददाति यः सदा निहन्त्यशेषाणि च पातकानि ४

प्रतिष्ठितं यत्र जगच्चराचरं जगच्च यो यो जगतश्च हेतुः ।
जगच्च पात्यत्ति च यः स सर्वदा ममास्तु मङ्गल्यविवृद्दये हरिः ५

व्योमाम्बुवाय्वग्निमहीस्वरूपैर्विस्तारवान्योऽणुतरोऽणुभागात् ।
स स्थूलसूक्ष्मः सततं सुरेश्वरोममास्तु मङ्गल्यविवृद्धये हरिः ६

यस्मात्परस्तात्पुरुषादनन्ताद् ।
अनादिमध्यादखिलं न किञ्चित् ।
स हेतुहेतुः परमेश्वरेश्वरो ।
ममास्तु मङ्गल्यविवृद्धये हरिः ७

हिरण्यगर्भाच्युतरुद्ररूपी ।
सृजत्यशेषं परिपाति हन्ति ।
गुणाश्रयी यो भगवान्स सर्वदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः ८

परः सुराणां परमोऽसुराणां ।
परो मुनीनां परमो यतीनाम् ।
परः समस्तस्य च यः स देवो ।
ममास्तु मङ्गल्यविवृद्धये हरिः ९

ध्यातो यतीनामपकल्मषैर्यो ।
ददाति मुक्तिं परमेश्वरेश्वरः ।
मनोभिराद्यः पुरुषः स सर्वदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः १०

सुरेन्द्रवैवस्वतवित्तपाम्बुपस्वरूपरूपी परिपाति यो जगत् ।
स शुद्धसत्त्वः परमेश्वरेश्वरो ।
ममास्तु मङ्गल्यविवृद्धये हरिः ११

यन्नामकीर्तनतो विमुच्यते ।
अनेकजन्मार्जितपापसञ्चयैः ।
पापेन्धनाग्निः स सदैव निर्मलो ।
ममास्तु मङ्गल्यविवृद्धये हरिः १२

येनोद्धृतेयं धरणी रसातलाद् ।
अशेषसत्त्वस्थितिकारणादिदम् ।
बिभर्ति विश्वं जगतः स मूलवान् ।
ममास्तु मङ्गल्यविवृद्धये हरिः १३

पादेषु वेदा जठरे चराचरं ।
रोमस्वशेषा मुनयो मुखे मखाः ।
यस्येश्वरेशस्य स सर्वदा प्रभुर् ।
ममास्तु मङ्गल्यविवृद्धये हरिः १४

समस्तयज्ञाङ्गमयं वपुर्विभोर् ।
यस्याङ्गमीशेश्वरसंस्तुतस्य ।
वराहरूपो भगवान्स सर्वदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः १५

विक्षोभ्य सर्वोदधितोयसम्पदं ।
दधार धात्रीं जगतश्च योद्भवः ।
यज्ञेश्वरो यज्ञपुमान्स सर्वदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः १६

पातालमूलेश्वरभोगिसंहतौ ।
विन्यस्य पादौ पृथिवीं च बिभ्रतः ।
यस्योपमानं न बभूव सोऽच्युतो ।
ममास्तु मङ्गल्यविवृद्धये हरिः १७

विघर्घरं यस्य च बृंहतो मुहुः ।
सनन्दनाद्यैर्जनलोकसंस्थितैः ।
श्रुतं जयेत्युक्तिपरैः स सर्वदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः १८

एकार्णवाद्यस्य महीयसो महीम् ।
आदाय वेगेन समुत्पतिष्यतः ।
नुतं वपुर्योगिवरैः स सर्वदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः १९

हतो हिरण्याक्षमहासुरः पुरा ।
पुराणपुंसा परमेण येन ।
वराहरूपः स पतिः प्रजापतेर् ।
ममास्तु मङ्गल्यविवृद्धये हरिः २०

दंष्ट्राकरालं सुरभीतिनाशनं ।
कृत्वा वपुर्दिव्यनृसिंहरूपिणं ।
त्रातं जगद्येन स सर्वदा प्रभुर् ।
ममास्तु मङ्गल्यविवृद्धये हरिः २१

दैत्येन्द्रवक्षःस्थलदारदारुणैः ।
करोरुहैः शत्रुरुजानुकारिभिः ।
चिच्छेद लोकस्य भयानि चाव्ययो ।
ममास्तु मङ्गल्यविवृद्धये हरिः २२

दन्तान्तदीप्तिद्युतिनिर्मलाणि ।
चकार सर्वाणि दिशं मुखानि ।
निनादवित्रासितदानवो ह्यसौ ।
ममास्तु मङ्गल्यविवृद्धये हरिः २३

यन्नामसङ्कीर्तनतो महाभयाद् ।
विमोक्षमाप्नोति न संशयं नरः ।
समस्तलोकार्तिहरो नृकेसरी ।
ममास्तु मङ्गल्यविवृद्धये हरिः २४

सटाकलापभ्रमणानिलहताः ।
स्फुटन्ति यस्याम्बुधराः समन्ततः ।
स दिव्यसिंहः स्फुरिताकुलेक्षणो ।
ममास्तु मङ्गल्यविवृद्धये हरिः २५

यदीक्षणज्योतिषि रश्मिमण्डलं ।
प्रलीनमेव न रराज भास्वतः ।
कुतः शशाङ्कस्य स सिंहरूपधृ ।
ममास्तु मङ्गल्यविवृद्धये हरिः २६

द्रवन्ति दैत्याः प्रणमन्ति देवता ।
नश्यन्ति रक्षांस्यपयान्ति चारयः ।
यत्कीर्तनात्सोऽद्भुतरूपकेसरी ।
ममास्तु मङ्गल्यविवृद्धये हरिः २७

अशेषदेवेशनरेश्वरेश्वरैः ।
सदा स्तुतं यच्चरितं महाद्भुतम् ।
स सर्वलोकार्तिहरो महाहरिर् ।
ममास्तु मङ्गल्यविवृद्धये हरिः २८

ऋक्कारितं यो यजुषातिशान्तिमत् ।
सामध्वनिध्वस्तसमस्तपातकम् ।
चक्रे जगद्वामनकः स सर्वदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः २९

यत्पादविन्यासपवित्रतां मही ।
ययौ वियदृग्यजुषामुदीरणात् ।
स वामनो दिव्यशरीरधृक् सदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः ३०

यस्मिन्प्रयाते सुरभूभृतोऽध्वरं ।
ननाम खेदादवनिः ससागरा ।
स वामनः सर्वजगन्मयः सदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः ३१

महाद्युतौ दैत्यपतेर्महाध्वरं ।
यस्मिन्प्रविष्टे क्षुभितं महासुरैः ।
स वामनोऽन्तस्थितसप्तलोकधृङ् ।
ममास्तु मङ्गल्यविवृद्धये हरिः ३२

समस्तदेवेष्टिमयं महाद्युतिर् ।
दधार यो रूपमतीन्द्रियं प्रभुः ।
त्रिविक्रमाक्रान्तजगत्त्रयः सदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः ३३

सङ्घैः सुराणां दिवि भूतले स्थितैस् ।
तथा मनुष्यैर्गगने स सर्वदा ।
स्तुतः क्रमाद्यः प्रददे स सर्वदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः ३४

क्रान्त्वा धरित्रीं गगनं तथा दिवं ।
मरुत्पतेर्यः प्रददौ त्रिविष्टपम् ।
स देवदेवो भुवनेश्वरेश्वरो ।
ममास्तु मङ्गल्यविवृद्धये हरिः ३५

अनुग्रहं चापि बलेरनुत्तमं ।
चकार यश्चेन्द्रपदोपलक्षणं ।
सुरांश्च यज्ञस्य भुजः स सर्वदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः ३६

रसातलाद्येन पुरा समाहृताः ।
समस्तवेदा वरवाजिरूपिणा ।
स कैटभारिर्मधुसूदनो महान् ।
ममास्तु मङ्गल्यविवृद्धये हरिः ३७

निःक्षत्रियां यश्च चकार मेदिनीम् ।
अनेकशो बाहुवनं तथाछिनत् ।
यः कार्तवीर्यस्य स भार्गवोत्तमो ।
ममास्तु मङ्गल्यविवृद्धये हरिः ३८

निहत्य वालिं च कपीश्वरं हि यो ।
निबध्य सेतुं जलधौ दशाननम् ।
जघान चान्यान्रजनीचरानसौ ।
ममास्तु मङ्गल्यविवृद्धये हरिः ३९

चिक्षेप बालः शकटं बभञ्ज यो ।
यमलार्जुनौ कंसमरिं जघान ।
ममर्द चाणूरमुखं स सर्वदा ।
ममास्तु मङ्गल्यविवृद्धये हरिः ४०

प्रातः सहस्रांशुमरीचिनिर्मलं ।
करेण बिभ्रद्भगवान्सुदर्शनम् ।
कौमोदकीं चापि गदामनुत्तमां ।
ममास्तु मङ्गल्यविवृद्धये हरिः ४१

हिमेन्दुकुन्दस्फटिकाभ्रकोमलं ।
मुखानिलापूरितमीश्वरेश्वरः ।
मध्याह्नकाले च स शङ्खमुत्तमम् ।
ममास्तु मङ्गल्यविवृद्धये हरिः ४२

तथापराह्ने प्रविकासिपङ्कजं ।
वक्षःस्थलेन श्रियमुद्वहद्विभुः ।
विस्तारिपद्मोत्पलपत्रलोचनो ।
ममास्तु मङ्गल्यविवृद्धये हरिः ४३

सर्वेषु कालेषु समस्तदेशेष्व् ।
अशेषकार्येषु तथेश्वरेश्वरः ।
सर्वैः स्वरूपैर्भगवाननादिमान् ।
ममास्तु मङ्गल्यविवृद्धये हरिः ४४

एतत्पठन्दाल्भ्य समस्तपापैर् ।
विमुच्यते विष्णुपरो मनुष्यः ।
सिध्यन्ति कार्याणि तथास्य सर्वाण्य् ।
अर्थानवाप्नोति तथा यथेष्टम् ४५

दुःस्वप्नं प्रशममुपैति पठ्यमाने ।
स्तोत्रेऽस्मिञ्श्रवणविधौ सदोत्थितस्य ।
प्रारम्भो द्रुतमुपयाति सिद्धिमीशः ।
पापानि क्षपयति चास्य वासुदेवः ४६

मङ्गल्यं परममिदं सदार्थसिद्धिं ।
निर्विघ्न त्वधिकफलं सदा ददाति ।
किं लोके तदिह परत्र चास्ति पुंसाम् ।
यद्विष्णुप्रवणधिया न दाल्भ्य साध्यम् ४७

देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः ।
सर्वर्द्धिं त्रिभुवनगां च कार्तवीर्यः ।
वैदेहः परमपदं प्रसाद्य विष्णुं ।
सम्प्राप्तः सकलफलप्रदो हि विष्णुः ४८

सर्वारम्भेषु दाल्भ्यैतद्दुःस्वप्नेषु च पण्डितः ।
जपेदेकमतिर्विष्णौ तथामङ्गल्यदर्शने ४९

शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः ।
कर्मारम्भाश्च सिध्यन्ति पुण्यमाप्नोति चोत्तमम् ५०

हरिर्ददाति भद्राणि मङ्गल्यस्तुतिसंस्तुतः ।
करोत्यखिलरूपैश्च रक्षामक्षतशक्तिधृक् ५१

इति विष्णुधर्मेषु मङ्गल्यस्तवः ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP