संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय २३

विष्णुधर्माः - अध्याय २३

विष्णुधर्माः


अथ त्रयोविंशोऽध्यायः ।
दाल्भ्य उवाच ।
भगवन्यातना घोराः श्रूयन्ते नरकेषु याः ।
तासां स्वरूपमत्युग्रं यथावद्वक्तुमर्हसि १

पुलस्त्य उवाच ।
शृणु दाल्भ्यातिघोराणां यातनानां मयोदितम् ।
स्वरूपं नारकैर्यत्तु नरकेष्वनुभूयते २

योजनानां सहस्राणि रौरवो नरको द्विज ।
अङ्गारपूर्णमध्योऽसौ ज्वालामालापरिष्कृतः ३

तन्मध्ये पतितो याति योजनानि सहस्रशः ।
सत्यहान्यानृती याति तत्र पापरतिर्नरः ४

रौरवाद्द्विगुणश्चैव महारौवरसञ्ज्ञितः ।
तप्तताम्रपुटाङ्गारज्वलत्पावकसंवृतः ५

परोपतापिनस्तत्र पतन्ति नरके नराः ।
नाश्चर्यं द्विजशार्दूल वर्षलक्षयुतानि च ६

कालसूत्रेण च्छिद्यन्ते चक्रारूढाश्च मानवाः ।
कालाङ्गुलिस्थेन सदा आपादतलमस्तकात् ७

कालसूत्र इति ख्यातो घोरः स नरकोत्तमः ।
तत्रापि वञ्चका यान्ति ये चैवोत्कोचजीविनः ८

तप्तकुम्भस्तथैवान्यो नरको भृशदारुणः ।
तैलकुम्भेषु पच्यन्ते तत्राप्यग्निभृतेषु ते ९

देववेदद्विजातीनां ये निन्दां कुर्वते सदा ।
संशृण्वन्ति च ये मूढा ये च मत्सरिणोऽधमाः १०

करम्भवालुकाकुम्भसञ्ज्ञं च नरकं शृणु ।
परदाररता ये तु पतन्ति नरकेऽधमाः ११

हृतं यैश्च जलं तेऽपि तस्मिन्यान्ति नराधमाः ।
गोनिपानेषु विघ्नानि मूढा ये चापि कुर्वते ।
करम्भवालुकाकुम्भनरके ते पतन्ति वै १२

अन्धे तमसि दुष्पारे शीतार्तिपरिकम्पिताः ।
भ्राम्यन्ते मानवा गात्रैः समस्तैः स्फुटितास्थिभिः १३

गोवधः स्त्रीवधः पापैः कृतं यैश्च गवानृतम् ।
ते तत्रातिमहाभीमे पतन्ति नरके नराः १४

उत्पाट्यते तथा जिह्वा सन्दंशैर्भृशदारुणैः ।
आक्रिशकानां दुष्टानां सदैवाबद्धभाषिणाम् १५

करपत्रैश्च पाट्यन्ते यमस्य पुरुषैस्तथा ।
परदारपरद्रव्यहिंसकाः पुरुषाधमाः १६

आयसीं च शिलां तप्तामशेषाङ्गैस्तथा नराः ।
परदाररता एवं समालिङ्गन्ति पापिनः १७

सर्वाङ्गैर्विकृतैर्रक्तमुद्गिरन्तोऽतिपीडिताः ।
यन्त्रेष्वन्येषु पीड्यन्ते जन्तुपीडाकरा नराः १८

वृकैः सम्भक्ष्यते पृष्ठं नराणां पापकारिणाम् ।
जनस्य पृष्ठमांसं यैर्भक्षितं पापकारिभिः १९

असिपत्रवनैर्घोरैश्छिद्यन्ते पापकर्मिणः ।
सद्भावप्रवणा यैस्तु भग्ना विश्रम्भिनो जनाः २०

अयोमुखैः खगैर्भग्नाः खण्डखण्डं तथापरैः ।
व्रजन्ति पापकर्माणः श्वशृगालैस्तथापरैः २१

सूषायामपि धास्यन्ते ज्वलदग्निचयावृताः ।
पाषाणपेष्यं पिष्यन्ते तथान्ये पापकर्मिणः २२

देवतातिथिभृत्याणामदत्त्वा भुञ्जते तु ये ।
मृषागतास्तथाइवैक्यं त्रपुषा सीसकेन च ।
प्रयान्ति पुरुषास्तैलैः क्वाथ्यन्तेऽन्ये पुनः पुनः २३

वर्णधर्मपरित्यागे नैक्यं ये पुरुषा गताः ।
तेऽपि पापसमाचारा वर्णसङ्करकारिणः २४

स्वरूपं नारकस्याग्नेः शृणुष्व कथयामि ते ।
मुक्तस्ततोऽन्यवह्निस्ह्तः शेते सम्प्राप्य निर्वृतिम् २५

शस्त्रधारास्तथैवैता मृणालप्रस्तरं नरः ।
मन्यते नारकैः शस्त्रैर्विक्षतो द्विजसत्तम २६

हिमखण्डचयाछन्नो निवातं मन्यते नरः ।
विमुक्तो नारकाच्छीतात्प्रकाशं तमसस्तमः २७

प्रोता गुदेषु भिन्नाङ्गा आर्ता रावविराविणः ।
शूलेषु लोहेष्वपरे त्रिशूलेषु तथापरे २८

याज्योपाध्यायदाम्पत्यसुहृन्मित्रसुतादिषु ।
कृतो भेदो दुराचारैर्यैरलीकोक्तिभाषिभिः २९

आयसाः कण्टकास्तीक्ष्णा नरके कूटशाल्मलौ ।
तेषु प्रोता दुरात्मानः परदारभुजो नराः ३०

कृमिकीटजलौकादितीक्ष्णदंष्ट्रास्यविक्षताः ।
भ्राम्यन्ते चान्धतामिस्रे वृथामांसाशिनो हि ये ३१

एतांश्चान्यांश्च नरकाञ्शतशोऽथ सहस्रशः ।
कर्मान्तरं जनो भुङ्क्ते परिणामांश्च चेतसः ३२

यादृक् कर्म मनुष्याणां तादृग्विषयरूपवत् ।
परिणामं मनो याति शुभाशुभमयं द्विज ३३

इति विष्णुधर्मेषु नरकाध्यायः ।

N/A

References : N/A
Last Updated : February 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP