विष्णुधर्माः - अध्याय ७२
विष्णुधर्माः
अथ द्विसप्ततितमोऽध्यायः ।
शतानीक उवाच ।
कुर्वन्भक्तिं हृषीकेशे मानवो भृगुनन्दन ।
निर्वाणं समवाप्नोति यादृशं तद्वदस्व मे १
दृश्यन्ते पुरुषा भक्तिमुद्वहन्तो जनार्दने ।
तथाप्यनेकदेहार्तिमनस्तापातुरा मुने २
स्मृतमात्रः सुरेन्द्रस्य योऽर्तिहा मधुसूदनः ।
तस्यापि कर्माभिरता दुःखभाजः कथं नराः ३
कैश्च दानैर्जगत्स्वामी स्वामी नारायणो नृणाम् ।
उपकाराय भक्तानां जायते स महामुने ४
शौनक उवाच ।
त्वद्युक्तोऽयमनुप्रश्नो महाराज शृणुष्व तम् ।
यथा पृष्टमिदं सम्यक् कथ्यमानं यथाखिलम् ५
पृथिवीं रत्नसम्पूर्णां यः कृष्णाय प्रयच्छति ।
तस्याप्यन्यमनस्कस्य सुलभो न जनार्दनः ६
नाराध्यतेऽच्युतो दानैर्न होमैर्भाववर्जितैः ।
ऐकात्म्यं पुरुषैर्याति तन्मयैरेव माधवः ७
श्रूयते च पुराख्यातो राजोपरिचरो वसुः ।
इयाज सुबहून्यज्ञाञ्श्रद्धापूतेन चेतसा ८
स विप्रशापाद्राजर्षिः कस्मिंश्चित्कारणान्तरे ।
आकाशचारी सहसा प्रविवेश रसातलम् ९
रसातलमनुप्राप्तस्तथापि जगतः प्रभुम् ।
तुष्टाव तन्मयो भूत्वा दिव्यैर्मन्त्रैर्जनार्दनम् १०
देवानामेष यज्ञांशैर्यज्वी पक्षविवर्धनः ।
चेदिराडिति दैत्यानां मतिरासीद्रसातले ११
अनेन विविधैर्यज्ञैस्तर्पितस्त्रिदशेश्वरः ।
जघान दैत्यान्वध्योऽयं प्राप्तोऽस्मद्गोचरं रिपुः १२
इति सम्मन्त्र्! य ते दैत्याश्चेदिराजजिघांसवः ।
तत्समीपमनुप्राप्ता गृहीतविविधायुधाः १३
परमामर्षसंयुक्तास्ततस्ते चेदिपुङ्गवम् ।
हन्तुं न शेकुः शस्त्रैस्तु यत्नवन्तोऽपि पार्थिवम् १४
स चापि वसुरासीनः केशवार्पितमानसः ।
जजाप मन्त्रमॐकारं प्रणवं द्वादशाक्षरम् १५
ददर्श च स विश्वेशं ध्यानावस्थितमानसः ।
कृत्वान्यविषयत्यागि चित्तमत्यन्तनिश्चलम् १६
प्रागीशमक्षरं ध्यानं ज्ञानं ज्ञेयं जगद्गुरुम् ।
सञ्चिन्त्य वासुदेवाख्यमनिर्देश्यं परायणम् १७
ततोऽन्तर्यामिरुपेण प्राकृतेन च संस्थितम् ।
ब्रह्मविष्णुशिवानां च स्वरूपैः संस्थितं त्रिधा १८
पुनश्च देवगन्धर्वसिद्धादिमनुजादिषु ।
स्थावरान्तेषु भूतेषु सर्वेष्वेव समास्थितम् १९
दिक्ष्वम्बरधराभूभृत्तोयवाय्वनलादिषु ।
दृश्यादृश्येषु चैवेशं चिन्तया आस पार्थिवः २०
सर्वत्र दृष्ट्वा तं देवमात्मन्यपि च सर्वगम् ।
सर्वं च तन्मयं दृष्ट्वा विरराम समाधितः २१
इन्द्रियाणीन्द्रियार्थेषु पूर्ववत्स नराधिपः ।
विनिवेश्य ततोऽपश्यदसुरानुद्यतायुधान् २२
तान्स दृष्ट्वा गृहीतार्घ्य एकैकस्यैव पार्थिवः ।
पाद्यपूर्वेण विधिना पूजयामास भक्तिमान् २३
प्रसादं कुरु भद्रंवो भगवाञ्जगतः पतिः ।
वासुदेवो भवान्प्राप्तो ममानुग्रहकाम्यया २४
इत्येवं चेदिराजोऽसावेकैकस्य च दानवान् ।
पूजयामास पाद्यादि निवेद्य वचसा तथा २५
तेऽपि तं चेदिराजानं पप्रच्छुरसुरास्तदा ।
क्व वासुदेवोऽत्र वयं प्राप्ता दाक्षायणीसुताः २६
इत्येवं वदतो दैत्यान्स जगाद पुनर्वसुः ।
प्रणामनम्रो राजेन्द्रसर्वदर्शी महामतिः २७
वासुदेवो जगत्सर्वं यच्चेङ्गं यच्च नेङ्गति ।
ब्रह्मादिषु तृणान्तेषु स एवैको जगद्गुरुः २८
अहं भवन्तो देवाद्या मनुष्याः पशवश्च ये ।
तेऽपि देवा जगद्धातुर्व्यतिरिक्ता न केशवात् २९
तेनैव माया वितता वैष्णवी भिन्नदर्शनी ।
आ स्वाङ्गेषु देवोऽसौ प्रदर्शयति सर्वशः ३०
तद्यूयमहमन्ये च यच्च स्थावरजङ्गमम् ।
वासुदेवात्मकं सर्वमिति मत्वा नमोऽस्तु वः ३१
इत्युक्तास्तेन ते दैत्या न शक्ता मनुजेश्वरम् ।
यत्नवन्तोऽपि तं हन्तुं प्रययुः स्वानथालयान् ३२
ततः पुरोहितं सर्वे काव्यं नीतिविशारदम् ।
समेत्य ते यथावृत्तं सर्वमस्मै न्यवेदयन् ३३
असुरा ऊचुः ।
अस्माकमत्यन्तरिपुरयं प्राप्तो रसातलम् ।
देवानामुपकृद्ब्रह्मन्यज्वा चेदिपतिर्वसुः ३४
अस्मत्पक्षक्षयायैष देवानां पक्षवर्धनः ।
तत्र यत्प्रतिपत्तव्यं तन्नो ब्रूहि महामते ३५
शुक्र उवाच ।
स्वगोचरमरिः प्राप्तः शत्रुपक्षोपकारकः ।
न हन्तव्य इतीदं को नीतिमान्प्रवदिष्यति ३६
तस्मात्प्रगृह्य दिव्यानि सर्वास्त्राण्यमरार्दनाः ।
निपातयत तं गत्वा चेदिराजं स्वगोचरे ३७
असुरा ऊचुः ।
सर्वमेतन्महाभाग तस्मिन्नस्माभिरुद्यतैः ।
कृतं न शकितो हन्तुं निर्यत्नोऽपि हि पार्थिवः ३८
किं तद्योगफलं तस्य किं वा जपफलं मुने ।
तपसो वा मुनिश्रेष्ठ विस्तरात्तद्वदस्व नः ३९
शुक्र उवाच ।
नित्यं सञ्चिन्तयत्येष योगयुक्तो जनार्दनम् ।
सास्य रक्षा परा मन्ये को हिनस्त्यच्युताश्रयम् ४०
कीर्तितः संस्मृतो ध्यातः पूजितः संस्तुतस्तथा ।
ऐहिकामुष्मिकीं रक्षां करोति भगवान्हरिः ४१
यद्दुर्लभं यदप्राप्यं मनसो यन्न गोचरे ।
तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ४२
शरीरारोग्यमर्थांश्च भोगांश्चैवानुषङ्गिकान् ।
ददाति ध्यायतां नित्यमपवर्गप्रदो हरिः ४३
यदिदं चेदिराजानं हन्तुमिच्छथ दानवाः ।
तदस्य केशवाच्चित्तमुपायेनापनीयताम् ४४
शौनक उवाच ।
ततस्ते तद्वचः श्रुत्वा दानवाः कुरुपुङ्गव ।
ब्रह्मरूपप्रतिच्छन्ना जग्मुर्यत्र स्थितो वसुः ४५
ददृशुस्ते महात्मानं प्रणतं चेदिपुङ्गवम् ।
कृतपूजं जगद्धातुर्वासुदेवस्य पार्थिवम् ४६
संस्तुतावुद्यतं शान्तं सर्वत्र समदर्शिनम् ।
कृष्णार्पितमनोवृत्तिं जानुभ्यामवनिङ्गतम् ४७
ततः संशृण्वतां तेषां तुष्टाव मधुसूदनम् ।
तन्नामस्मरणोद्भूतपुलकश्चेदिपुङ्गवः ४८
शतानीक उवाच ।
जगाद यं स राजर्षिः स्तवं कृष्णस्य शौनक ।
शृण्वतां दानवेन्द्राणां तन्मे पापहरं वद ४९
शौनक उवाच ।
शृणु यद्देवदेवस्य विष्णोरद्भुतकर्मणः ।
स्तोत्रं जगाद राजासौ रसातलतलं गतः ५०
वसुरुवाच ।
स्तौमि देवमजं नित्यं परिणामविवर्जितम् ।
अवृद्धिक्षयमीशानमच्युतं परतः परम् ५१
कल्पनाकृतनामानमनिर्देश्यमजं विभुम् ।
मूलहेतुमहेतुं त्वां वासुदेवं नमाम्यहम् ५२
परमार्थपरैरीशश्चिन्त्यते यः प्रजाकरैः ।
तं वासुदेवमीशेशं नमाम्यद्य गुणं परम् ५३
यस्मादिदं यत्र चेदमिदं यो विश्वमव्ययम् ।
तं वासुदेवममलं नमामि परमेश्वरम् ५४
ज्ञेयं ज्ञातारमजरं भोक्तारं प्रकृतेः प्रभुम् ।
पुरुषस्वरूपिणं देवं नतोऽस्मि पुरुषं परम् ५५
प्रधानादिविशेषान्तस्वरूपमजमव्ययम् ।
स्थूलसूक्ष्ममयं सर्वंव्यापिनं तं नमाम्यहम् ५६
स्रष्टा पालयिता चान्ते यश्च संहारकारकः ।
त्रयीमयं तं त्रिगुणं नतोऽस्मि पुरुषोत्तमम् ५७
आब्रह्मस्थावरान्ते च यो जगत्यत्र संस्थितः ।
व्यक्तरूपी च तं देवं नतोऽहं विष्णुमव्ययम् ५८
नमो नमोऽस्तु ते देव जगतामीश्वरेश्वर ।
परमार्थ पराचिन्त्य विधातः परमेश्वर ५९
त्वमादिरन्तो मध्यं च जगतोऽस्य जगत्पते ।
जगत्त्वयि जगच्च त्वं जगत्त्वत्तो जगन्मय ६०
तवाग्निरासं वसुधाङ्घ्रियुग्मं नभः शिरश्चन्द्ररवी च नेत्रे ।
समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ६१
यद्भूगतं यद्गगनान्तराले यद्वा नभस्यखिललोकगं च ।
यत्स्थूलं सूक्ष्मं परतस्ततोऽपि यदस्ति यन्नास्ति च तत्त्वमीश ६२
वेदाश्च वेद्यं च भगवाननन्तो वेदान्तवेद्यश्च समस्तहेतो ।
वदन्ति तत्त्वा मुनयः परेशं त्वयि प्रसन्ने परमार्थदृश्ये ६३
नमो हृषीकेश तवाप्रमेय नमश्च तुभ्यं परमार्थसार ।
विष्णो नमस्तेऽस्तु परापरेश कृष्णाच्युतानन्त जगन्निवास ६४
नमोऽस्तु तुभ्यं परमेश्वराय नमस्तथान्तःकारणस्थिताय ।
प्रधानभूताय नमश्च तुभ्यं व्यक्तस्वरूपेण च संस्थिताय ६५
संहृत्य विश्वं जलशायिने नमो नमश्च ते कैटभसूदनाय ।
स्वनाभिपद्मोदरशायिने च ब्रह्मस्वरूपोपनताय चैव ६६
स्रष्ट्रे नमः पालयित्रे स्थितौ च सर्वेश तुभ्यं पुरुषोत्तमाय ।
रुद्राय चान्ते क्षयहेतवे ते नतोऽस्मि संहारकराय विष्णो ६७
जय प्रपन्नार्तिहराप्रमेय जयाग्निवस्वश्विमय प्रजेश ।
रुद्रेन्द्रचन्द्रस्तुत देवदेव जयामराणामरिशातनाय ६८
जितं त्वया सर्वग सर्वसारं सर्वात्मभूताखिल वेदवेद्य ।
जितं जिताक्षामलचित्तदृश्य चराचराधार धराधरेड्य ६९
यज्ञाश्रयो यज्ञपुमानशेष देवेश मर्त्यासुरयज्ञभोक्तः ।
त्वमीड्यमानोऽभिमतं ददासि धराधरेशाच्युत वासुदेव ७०
नमस्ते देवदेव त्वं यथा पास्यखिलं जगत् ।
स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर ७१
कृष्णाच्युत हृषीकेश सर्वभूतेश केशव ।
महात्मंस्त्राहि मां भक्तं वासुदेव प्रसीद मे ७२
शौनक उवाच ।
इति स्तोत्रावसाने तं चेदिराजं ततोऽसुराः ।
जहसुः सतलाक्षेपं प्रोचुश्च द्विजरूपिणः ७३
प्राज्ञः किल प्रजापालश्चेदिराट्संश्रुतो भुवि ।
तसस्य ज्ञानमखिलं विपरीतार्थमीदृशम् ७४
क्व वासुदेवः क्व भवानिमामन्त्यां दशां गतः ।
यो भवान्विप्रशापेन रसातलतलाश्रयः ७५
भविष्यति स्मृतो देवस्त्राता किल तवाच्युतः ।
योऽसावाप्याय्यते विप्रैरध्वरेषु हविःस्रवैः ७६
योऽन्यत्रस्त्राणकामो वा यज्ञभागमभीप्सते ।
स त्राता तव गोविन्दो भविष्यत्यतिविस्मयः ७७
यदा त्वं भगवद्भक्तो विप्रशापान्निपातितः ।
तदा स वासुदेवस्ते क्व गतोऽल्पश्रुतोऽव्ययः ७८
न वासुदेवो न हरिर्न गोविन्दो न केशवः ।
शापं ददत्सु विप्रेषु परित्राणपरो भवेत् ७९
स त्वमार्तप्रलापेभ्यो विरमाद्य यदीच्छसि ।
कुबुद्धिमेतां सन्त्यज्य स्वपौरुषपरो भव ८०
न वयं पुण्डरीकाक्षं नानन्तं नाच्युतं हरिम् ।
संश्रिता न च सीदामः स्वपौरुषमुपाश्रिताः ८१
यद्यस्मद्वचनं वीर न मोहेन विशङ्कसे ।
तदाश्रयस्व स्वं वीर्यं परित्यज्य विमूढताम् ८२
इत्युदीरितमाकर्ण्य स तेषां चेदिपुङ्गवः ।
अज्ञानपटलच्छन्नान्हृदयेन शुशोच तान् ८३
उवाच चेदिराजो वै हृदये कृतमत्सरः ।
अहो मोहोऽयमेतेषामहङ्कारसमुद्भवः ।
येन सर्वेश्वरे विष्णावेतेषामावृता मतिः ८४
प्रकाशं च स तानाह दानवान्प्रीतिपूर्वकम् ।
पापतस्तत्परित्राणं चिकीर्षुर्वसुधाधिपः ८५
मैवं भो भगवद्भक्तिं कुरुध्वं द्विजसत्तमाः ।
संसाराब्धौ मनुष्याणामेकः पोतो जनार्दनः ८६
यूयं वयं तथैवान्ये तस्य सर्वे विभूतयः ।
ब्रह्मादिस्थावरान्तं हि तस्य देवस्य विस्तृतिः ८७
सुखदुःखमयो नॄणां विपाकः कर्मणां च यः ।
संशुद्धिहेतुः स्वच्छन्दात्सोऽपि विप्राः प्रवर्तते ८८
परीक्षां च जगन्नाथः करोत्यदृढचेतसाम् ।
नराणामर्थविध्वंसनिकाशेषु जनार्दनः ८९
अल्पयत्नेन चायान्ति विमुक्तिं केशवाश्रयात् ।
तद्विघाताय शक्राद्या यतन्ते विघ्नहेतुभिः ९०
यदा जनार्दने भक्तिं वहन्सीदति मानवः ।
निर्विण्णचेताः शैथिल्यं मनसः कुरुते तदा ९१
देवानां महती शङ्का भक्तियुक्ता जनार्दने ।
मुक्तिभाजो भविष्यन्तीत्यतस्ते परिपन्थिनः ९२
प्रायो भवन्ति गोविन्दे भक्तिव्याघातहेतवः ।
विघ्नाश्चित्तविघाता हि विमुक्तिपरिपन्थिनः ९३
सत्यं शतेन विघ्नानां सहस्रेण तथा तपः ।
विघ्नायुतेन गोविन्दे नॄणां भक्तिर्निवार्यते ९४
स्वं चापि कर्म पुरुषः शुभाशुभमुपागतम् ।
भुङ्क्ते किमत्र देवस्य गर्ह्यते येन केशवः ९५
मर्यादां च कृतां तेन यो भिनत्ति स मानवः ।
न विष्णुभक्तो मन्तव्यः साधु धर्मार्चनो हरिः ९६
न पुष्पैर्न च धूपेन नोपहारानुलेपनैः ।
तोषं प्रयाति गोविन्दः स्वकर्माभ्यर्चितो यथा ९७
ब्राह्मणा देवदेवेन मुखात्सृष्टा महात्मना ।
देवानामपि सम्पूज्य भूमिदेवा द्विजोत्तमाः ।
अनुवृत्तिः सदा कार्या तेषां वर्णैरनुव्रतैः ९८
ते पूज्यास्ते नमस्कार्यास्तोषणीयाश्च यत्नतः ।
तेषु तुष्टेष्वशेषाणां देवानां प्रीतिरुत्तमा ९९
तेषां मया यदज्ञानाज्ज्ञानाद्वा कृतमप्रियम् ।
तेनापि तुष्ट एवाहं विष्णोरंशा द्विजोत्तमाः १००
क्रियावान्मम पोतोऽयं भूतलाद्यो रसातले ।
पतितस्यातिभीमेऽस्मिन्दुरुत्तारे भवार्णवे १०१
रसातलतलोत्तारं न हि वाञ्छाम्यहं द्विजाः ।
संसारगर्तादुत्तारं वृणोम्याराधनाद्धरेः १०२
यथाहं नाभिवाञ्छामि भोगानाराध्य केशवम् ।
तेन सत्येन विष्णुर्मे सर्वदोषान्व्यपोहतु १०३
यथा न माता न पिता नात्मा न सुहृदः सुताः ।
कृष्णालापात्प्रियतरास्तथा मां पातु केशवः १०४
यथा विष्णुमयं सर्वमेतत्पश्याम्यहं जगत् ।
तथा मम मनोदोषानशेषान्स व्यपोहतु १०५
जाता विष्णुविलोमेषु भवत्स्वपि दया मम ।
यथा तेनाद्य सत्येन भवन्तः सन्तु तन्मयाः १०६
यथा नाहं भवद्द्वेषान्न संहर्षाद्ब्रवीम्यहम् ।
कृपयैव तथा सर्वे भवन्तः सन्तु तन्मयाः १०७
यो यो न भक्तो गोविन्दे तत्र तत्र कृपा यथा ।
ममारिवर्गेऽपि तथा भक्तिर्वोऽस्तु जनार्दने १०८
एवमुच्चारिते तेषां दैत्यानां तत्क्षणात्तथा ।
तस्मिन्राजन्यभून्मैत्री तथान्येषु च जन्तुषु १०९
देवदेवेऽप्यभूद्भक्तिर्भावो नष्टस्तथासुरः ।
स्वरूपधारिणश्चैनं प्रणम्यासुरपुङ्गवाः ।
प्रत्यूचुः पार्थिवं विष्णुभक्तं सद्ब्रह्मचारिणम् ११०
चेदिभूपाल भद्रंते भवतोऽतुलविक्रम ।
संसारे त्वत्समैः सङ्गः पुण्यभाजां प्रवर्तते १११
वयं स्वजातिदोषेण देवपक्षविरोधिनः ।
भवन्तमागता हन्तुं देवप्रीणनतत्परम् ११२
यदा न शक्तितो हन्तुमस्माभिस्त्वं निरायुधः ।
विष्णुध्यानमहारक्षाषान्तरगतः प्रभो ११३
त्याजयद्भिस्तथा भक्तिं केशवादिति दर्शितम् ।
वैफल्यमतिपुण्येषु विष्णुशुश्रूषणा नृणाम् ११४
स त्वं देवातिदेवस्य विष्णोरमिततेजसः ।
अनुग्राह्यो यथा तेयमच्युते निश्चला मतिः ११५
दिष्ट्या क्रोधाभिभूतानामस्माकं त्वन्निवर्हणे ।
मतिर्जाता यतः प्राप्ता त्वत्सङ्गाद्दुर्लभा मतिः ११६
कुरुष्व च प्रसादं त्वं प्रणतानां नरेश्वर ।
शत्रावपि कृपाशीलं यन्नो दुष्टमभून्मनः ११७
दिशां वैमल्यं विमलं चक्षुषश्चोपपादितम् ।
भवता दुष्टतां एतामासुरीमपमार्जता ११८
दुष्टाः स्म वर्षपूगानि यद्यातानि वृथैव नः ।
विषयाक्षिप्तचित्तानां कृष्णे भक्तिमकुर्वताम् ११९
कर्मभूमौ मनुष्याणां तदेव विफलं दिनम् ।
यदच्युतकथालापध्यानार्चारहितं गतम् १२०
इत्युक्त्वा तेऽसुरा भूयः प्रसाद्य च तथा वसुम् ।
विष्णौ भक्तिपरा यातास्तीव्रसंयोगिनोऽलयन् १२१
स चापि चेदिराट्तस्माद्देवदेवेन चक्रिणा ।
पातालादुद्धृतः पश्चात्संसारगहनादपि १२२
इत्येतत्सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
यथावसीदन्ति नरा भक्तिमन्तोऽपि केशवे १२३
दृढा जनार्दने भक्तिर्यदैवाव्यभिचारिणी ।
तदा कियत्स्वर्गसुखं सैव निर्वाणहेतुकी १२४
इत्येतदसुरैः सार्धं संवादं यः पुरा वसोः ।
पठिष्यत्यखिलं भक्त्या स तल्लोकमुपैष्यति १२५
इति विष्णुधर्मेषु वस्वसुरसंवादः ।
N/A
References : N/A
Last Updated : February 28, 2024
TOP