संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ९१

विष्णुधर्माः - अध्याय ९१

विष्णुधर्माः


अथैकनवतितमोऽध्यायः ।
वसिष्ठ उवाच ।
श्रावणे शुक्लपक्षे तु द्वादश्यां प्रीयते नृप ।
गोप्रदानेन गोविन्दो यत्पूर्वं कथितं तव १

पौषशुक्ले तु तद्वच्च द्वादश्यां घृतधेनुकाम् ।
घृतार्चिः प्रीणनायालं प्रदद्यात्फलदायिनीम् २

तथैव माघद्वादश्यां प्रदत्ता तिलगौर्नृप ।
केशवं प्रीणयत्याशु सर्वकामान्प्रयच्छति ३

ज्यैष्ठे मासि सिते पक्षे द्वादश्यां जलधेनुका ।
दत्ता यथावद्विधिना प्रीणयत्यम्बुशायिनम् ४

लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः ।
प्रयच्छति द्विजाग्र्याय स सर्वरसदायकः ५

सर्वभोगमहाभोगान्भ्राजिष्मन्तो मनोरमान् ।
लोकानवाप्नोति नृप प्रसन्ने गरुडध्वजे ६

पौषमासे तु यो दद्याद्घृतं विप्राय पार्थिव ।
समभ्यर्च्याच्युतं सोऽपि सर्वकामानवाप्नुयात् ७

माघमासे तु सम्पूज्य माधवं ब्राह्मणाय यः ।
प्रयच्छति तिलांल्लोकान्सम्प्राप्नोत्यभिवाञ्छितान् ८

फाल्गुने पुण्डरीकाक्षं यः समभ्यर्च्य यच्छति ।
सप्तधान्यं नरश्रेष्ठ स सर्वस्येश्वरो भवेत् ९

चैत्रे चित्राणि वस्त्राणि यः प्रयच्छति केशवम् ।
पूजयित्वा स वै भोगान्विचित्रांल्लभते नरः १०

वैशाखे विष्णुमभ्यर्च्य यवगोधूमदो नरः ।
लोकानैन्द्रान्समासाद्य मोदते विगतज्वरः ११

दुर्निवर्त्यमहं मन्ये चञ्चलं हि मनो यतः ।
ज्यैष्ठेऽभ्यर्च्य हृषीकेशमुदकुम्भप्रदो हि यः ।
स परां निर्वृतिं याति सप्त जन्मान्तराणि वै १२

आषाढमासे च हरिं यः समभ्यर्च्य यच्छति ।
विप्राय चन्दनं सोऽपि परमाह्लादभाजनम् १३

यो नृसिंहं समभ्यर्च्य ब्राह्मणाय प्रयच्छति ।
श्रावणे नवनीतं तु स स्वर्गं सुकृती व्रजेत् १४

छत्त्रं च यो भाद्रपदे वासुदेवाभिपूजकः ।
प्रयच्छति द्विजाग्र्याय स च्छत्त्राधिपतिर्भवेत् १५

गुडशर्करया युक्तं मोदकं च प्रयच्छति ।
तथैवाश्वयुजेऽभ्यर्च्य योऽनन्तं सोऽमरो भवेत् १६

नारायणं समभ्यर्च्य यः प्रयच्छति कार्त्तिके ।
दीपकं विप्रगेहेषु विमानं सोऽधिरोहति १७

काम्यान्येतान्यशेषाणि यः सम्पूज्य जगत्पतिम् ।
दानानि यच्छति नरः स सम्पूर्णमनोरथः ।
सर्वश्रेष्ठः समस्तानां बन्धूनामाश्रयो भवेत् १८

एवं सर्वाणि दानानि प्रीणनायाच्युतस्य यः ।
प्रयच्छति स सर्वेषां फलानां भुवि भाजनम् १९

तस्मान्नरेन्द्रविप्रेभ्यः प्रीणनाय जगद्गुरोः ।
प्रयच्छैतानि दानानि यच्चान्यद्दयितं तव २०

यदीच्छसि पुनः प्राप्तुं भूतिमभ्रंशनीं नृप ।
तदाराधय गोविन्दं नान्यथा स्युर्विभूतयः २१

प्रह्लाद उवाच ।
एवं वसिष्ठेन तदा मान्धाता नृप बोधितः ।
सह पत्न्या महीपालः परितोषं परं ययौ २२

जगाद च मुदा युक्तः प्रणिपत्य पुरोहितम् ।
सह पत्न्या नरश्रेष्ठः समुत्थाय वरासनात् २३

राजोवाच ।
धिग्धिग्वृथैव यातानि ममैतानि दिनान्यहो ।
अनासज्य मनः कृष्णे विषयासक्तचेतसः २४

ता निशास्ते च दिवसास्ते र्तवस्ते च वत्सराः ।
नराणां सफला येषु चिन्तितो भगवान्हरिः २५

चिन्त्यमानः समस्तानां पापानां हाणिदो हि सः ।
समुत्सृज्याखिलं चिन्त्यं सोऽच्युतः किं न चिन्त्यते २६

कष्टं मुष्टोऽस्मि शिष्टेषु विद्यमानेषु मन्त्रिषु ।
पराङ्मुखानां गोविन्दे यत्प्राप्तं परमं वयः २७

प्रह्लाद उवाच ।
एवं विनिन्द्य सोऽत्मानां मान्धाता पृथिवीपतिः ।
चकाराराधने यत्नं देवदेवस्य शार्ङ्गितिणः २८

तमाराध्य च विश्वेशमुपेन्द्रमसुरेश्वर ।
प्राप सिद्धिं परां पूर्वं दक्षः प्राचेतसो यथा २९

तथा त्वमपि राजेन्द्रसर्वभावेन केशवम् ।
समाराधय गोविन्दं तमाराध्य न सीदति ३०

शौनक उवाच ।
एवं स दैत्यराजेन्द्रः! प्रह्रादेनावबोधितः ।
बलिराराधने यत्नं चक्रे चक्रभृतस्तदा ३१

पुष्पोपहारैर्धूपैश्च तथा चैवानुलेपनैः ।
वासोभिर्भूषणैः सम्यग्ब्राह्मणानां च तर्पणैः ३२

जपैर्होमैर्व्रतैश्चैव यथोक्तं पुरुषर्षभ ।
सह पत्न्या तथैव त्वं समाराधय केशवम् ३३

इति विष्णुधर्मेषु प्रह्लादबलिसंवादः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP