संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ५४

विष्णुधर्माः - अध्याय ५४

विष्णुधर्माः


अथ चतुष्पञ्चाशोऽध्यायः ।
भगवानुवाच ।
अध्यायं तपसो वक्ष्ये तन्मे निगदतः शृणु ।
तपसो हि परं नास्ति तपसा विन्दते फलम् १

ऋषयस्तप आस्थाय मोदन्ते दैवतैः सह ।
तपसा प्राप्यते स्वर्गं तपसा प्राप्यते यशः २

आयुःप्रकर्षं भोगांश्च तपसा विन्दते नरः ।
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ३

तपसा लभ्यते सर्वं मनसा यद्यदिच्छति ।
नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन ४

यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः ।
सर्वं तत्समवाप्नोति परत्रेह च मानवः ५

सुरापः पारदारी च भ्रूणहा गुरुतल्पगः ।
तपसा तरते सर्वं सर्वतश्च विमुच्यते ६

अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः ।
ब्रह्मा हुताशनः शक्रस्तपस्यन्ति सनातनाः ७

षडशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
तपसा दिवि मोदन्ते समेता दैवतैः सह ८

तपसा प्राप्यते राज्यं शक्रः सर्वसुरेश्वरः ।
तपसा पालयन्सर्वमहन्यहनि वृत्रहा ९

सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ ।
तपसैव प्रकाशेते नक्षत्राणि ग्रहास्तथा १०

न चास्ति तत्सुखं लोके यद्विना तपसा किल ।
तपसैव सुखं सर्वमिति धर्मविदो विदुः ११

विश्वामित्रश्च तपसा ब्राह्मणत्वमुपागतः ।
सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते ।
तपस्तप्यति योऽरण्ये मुनिर्मूलफलाशनः ।
ऋचमेकां अपि पठन्स याति परमां गतिम् १२

भगवानुवाच ।
तस्मात्तपः समास्थाय प्रार्थयेद्यदभीप्सितम् १३

इति विष्णुधर्मेषु तपःप्रशंसा ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP