विष्णुधर्माः - अध्याय ३
विष्णुधर्माः
अथ तृतीयोऽध्यायः ।
शौनक उवाच ।
राज्यस्थस्तु महीपालः प्रणिपत्य पुरोहितम् ।
वसिष्ठं परिपप्रच्छ विष्णोराराधनं प्रति १
देवदेवेन भगवन्नादिष्टोऽसि महात्मना ।
क्रियायोगाश्रितं सर्वं व्याख्यास्यति भवान्किल २
स त्वां पृच्छाम्यहं सर्वं क्रियायोगेन केशवम् ।
सन्तोषयितुमीशानं यथा शक्ष्यामि तद्वद ३
वसिष्ठ उवाच ।
देवप्रसादादखिला ममापि स्मृतिरागता ।
ज्ञानमेतदशेषं ते कथयामि निबोध तत् ४
भक्तिमानभवद्दैत्यो हिरण्यकशिपोः सुतः ।
नारायणे महाप्रज्ञः सर्वलोकपरायणे ।
स पप्रच्छ भृगुश्रेष्ठं शुक्रमात्मपुरोहितम् ५
प्रह्लाद उवाच ।
भगवन्नृसिंहरूपस्य विष्णोस्तातं जिघांसतः ।
दृष्टं देहे मया सर्वं त्रैलोक्यं भूर्भुवादिकम् ६
ब्रह्मा प्रजापतिश्चेन्द्रोरुद्रैः! पशुपतिः सह ।
वसवोऽष्टौ तथादित्या द्वादशाहःक्षपा मही ७
दिशो नभस्तारकौघं नक्षत्रग्रहसङ्कुलम् ।
अश्विनौ मरुतः साध्या विश्वेदेवास्तथ र्षयः ८
वर्षाचलास्तथा नद्यः सप्त सप्त कुलाचलाः ।
समुद्राः! सप्त ऋतवः कान्ताराणि वनानि च ।
नगरग्रामतरुभिः समावेतं च भूतलम् ९
एतच्चान्यच्च यत्किञ्चिद्देवर्षिपितृमानवम् ।
सतिर्यगूर्ध्वपातालं तस्य दृष्टं तनौ मया १०
सोऽहं तमजरं देवं दुष्टदैत्यनिवर्हणम् ।
आराधयितुमिच्छामि भगवंस्त्वदनुज्ञया ११
अनुग्राह्योऽस्मि यदि ते ममायं भक्तिमानिति ।
तन्ममोपदिशाद्य त्वं महदाराधनं हरेः १२
शुक्र उवाच ।
अनुग्राह्योऽसि देवस्य नूनमव्यक्तजन्मनः ।
आराधनाय दैत्येन्द्रयत्ते तत्प्रवणं मनः १३
यदि देवपतिं विष्णुमाराधयितुमिच्छसि ।
भगवन्तमनाद्यन्तं भव भागवतोऽसुर १४
न ह्यभागवतैर्विष्णुर्ज्ञातुं स्तोतुं च तत्त्वतः ।
द्रष्टुं वा शक्यते मर्त्यैः प्रवेष्टुं कुत एव हि १५
जन्मभिर्बहुभिः पूता नरास्तद्गतचेतसः ।
भवन्ति वै भागवतास्ते विष्णुं प्रविशन्ति च १६
अनेकजन्मसंसारचिते पापसमुच्चये ।
नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः १७
प्रद्वेषं याति गोविन्दे द्विजान्वेदांश्च निन्दति ।
यो नरस्तं विजानीयादसुरांशसमुद्भवम् १८
पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता ।
जायते विष्णुमायाम्भःपतितानां दुरात्मनाम् १९
यदा पापक्षयः पुंसां तदा वेदद्विजातिषु ।
विष्णौ च यज्ञपुरुषे श्रद्धा भवति ते यथा २०
यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः ।
भवन्ति ते भागवतास्तदा दैत्यपते नराः २१
भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे ।
हस्तावलम्बदो ह्येको भक्तिप्रीतो जनार्दनः २२
स त्वं भागवतो भूत्वा सर्वपापहरं हरिम् ।
आराधय परं भक्त्या प्रीतिमेष्यति केशवः २३
प्रह्लाद उवाच ।
किंलक्षणा भागवता भवन्ति पुरुषा गुरो ।
यच्च भागवतैः कार्यं तन्मे कथय भार्गव २४
शुक्र उवाच ।
कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः ।
भावभक्तश्च गोविन्दे दैत्य भागवतो हि सः २५
यो ब्राह्मणांश्च वेदांश्च नित्यमेन्वानुमंस्यति ।
न च द्रोग्धा परं वादे दैत्य भागवतो हि सः २६
सर्वान्देवान्हरिं वेत्ति सर्वलोकांश्च केशवम् ।
तेभ्यश्च नान्यमात्मानं दैत्य भागवतो हि सः २७
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकान् ।
तरुपाषाणकष्ठादि भूम्यम्भोगगनं दिशः २८
आत्मानं वापि देवेशान्नातिरिक्तं जनार्दनात् ।
यो भजेत विजानीष्व तं वै भागवतं नरम् २९
सर्वं भगवतो भावो यद्भूतं भवसंस्थितम् ।
इति यो वै विजानाति स तु भागवतो नरः ३०
भवभीतिं हरत्येष भक्तिभावेन भावितः ।
भगवानिति भावो यः स तु भागवतो नरः ३१
भावं न कुरुते यस्तु सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा स तु भागवतो नरः ३२
बाह्यार्थनिरपेक्षो यो भक्तो भगवतः क्रियाम् ।
भावेन निष्पादयति ज्ञेयो भागवतस्तु सः ३३
नारयो यस्य न स्निग्धा न चोदासी न वृत्तयः ।
पश्यतः सर्वमेवेदं विष्णुं भागवतो हि सः ३४
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ।
तां गतिं न नरा यान्ति यां वै भागवता गताः ३५
योगच्युतैर्भागवतैर्देवराजः शतक्रतुः ।
अर्वाङ्निरीक्ष्यते यज्ञी किमु ये योगपारगाः ३६
यज्ञनिष्पत्तये वेदा यज्ञो यज्ञपतेः कृते ।
तत्तोषणाय भावेन तस्माद्भागवतो भव ३७
येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः ।
दैत्येश्वर कृतार्थत्वाच्छ्लाघ्यो भागवतो हि सः ३८
अपि नः स कुले धन्यो जायते कुलपावनः ।
भगवान्भक्तिभावेन येन विष्णुरुपासितः ३९
यः कारयति देवार्चां हृदयालम्बनं हरेः ।
स नरो विष्णुसालोक्यमुपैति धूतकल्मषः ४०
यश्च देवालयं भक्त्या विष्णोः कारयति स्वयम् ।
स सप्तपुरुषांल्लोकान्विष्णोर्नयति मानवः ४१
यावन्त्यब्दानि देवार्चा हरेस्तिष्ठति मन्दिरे ।
तावद्वर्षसहस्राणि विष्णुलोके स मोदते ४२
देवार्चा लक्षणोपेता तद्गृहं सततं दिवि ।
निष्कामं च मनो यस्य स यात्यक्षरसात्म्यताम् ४३
पुष्पाण्यतिसुगन्धीनि मनोज्ञानि च यः पुमान् ।
प्रयच्छति हृषीकेशे तद्भावगतमानसः ४४
धूपांश्च विविधांस्तांस्तान्गन्धाढ्यं चानुलेपनम् ।
दीपावल्युपहारांश्च यच्चाभीष्टमथात्मनः ४५
नरः सोऽनुदिनं यज्ञं करोत्याराधनं हरेः ।
यज्ञेशो भगवान्विष्णुर्मखैरपि हि तोष्यते ४६
बहूपकरणा यज्ञा नानासम्भारविस्तराः ।
प्राप्यन्ते ते धनयुतैर्मनुष्यैर्नाल्पसञ्चयैः ४७
भक्त्या च पुरुषैः पूजा कृता दूर्वाङ्कुरैरपि ।
हरेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ४८
यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम् ।
दयितं भूषणं यच्च ये च कौशेयवाससी ४९
यानि चाभ्यवहाराणि भक्ष्याणि च फलानि च ।
प्रयच्छ तानि गोविन्दे भवेथाश्चैव तन्मनाः ५०
आद्यन्तं यज्ञपुरुषं यथाशक्त्या प्रसादय ।
आराध्य याति तं देवं तस्मिन्नेव नरो लयम् ५१
पुण्यैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा ।
क्षीरेण स्नापयेदीशमच्युतं जगतः पतिम् ५२
दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः ।
प्रयास्यस्यसुरश्रेष्ठ निर्वृतिं चापि शाश्वतीम् ५३
स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः ।
मनसश्चैकतायोगादाराधय जनार्दनम् ५४
आराध्य तं विदेहानां पुरुषाः सप्तसप्ततिः ।
हैहयाः पञ्चपञ्चाशदमृतत्वमुपागताः ५५
स त्वमेभिः प्रकारैस्तमुपवासैश्च केशवम् ।
तोषयाद्यो हि तुष्टोऽसौ विष्णुर्द्वन्द्वप्रशान्तिदः ५६
इति विष्णुधर्मेषु शुक्रप्रह्लादसंवादः ।
N/A
References : N/A
Last Updated : February 06, 2024
TOP