संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय १९ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय १९ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय १९ Translation - भाषांतर अथैकोनविंशोऽध्यायः ।पुलस्त्य उवाच ।फाल्गुनामलपक्षस्य एकादश्यामुपोषितः ।नरो वा यदि वा नारी समभ्यर्च्य जगद्गुरुम् १हरेर्नाम जपेद्भक्त्या सप्त वारान्नरेश्वर ।उत्तिष्ठन्प्रस्वपंश्चैव हरिमेवानुकीर्तयेत् २ततोऽन्यदिवसे प्राप्ते द्वादश्यां प्रयतो हरिम् ।स्नात्वा सम्यक् तमभ्यर्च्य दद्याद्विप्राय दक्षिणाम् ३हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः ।प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् ४पातालसंस्था वसुधा यं प्रसाद्य मनोरथान् ।अवाप वासुदेवोऽसौ प्रददातु मनोरथान् ५यमभ्यर्च्यादितिः प्राप्ता सकलांश्च मनोरथान् ।पुत्रांश्चैवेप्सितान्देवः प्रददातु मनोरथान् ६भ्रष्टराज्यश्च देवेन्द्रोयमभ्यर्च्य जगत्पतिम् ।मनोरथानवापाग्र्यान्स ददातु मनोरथान् ७एवमभ्यर्च्य पूजां च निष्पाद्य हरये ततः ।भुञ्जीत प्रयतः सम्यघविष्यं मनुजर्षभ ८फाल्गुनं चैत्रवैशाखौ ज्येष्ठमासं च पार्थिव ।चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् ९रक्तपुष्पैस्तु चतुरो मासान्कुर्वीत चार्चनम् ।दहेच्च गुग्गुलं प्राश्य गोशृङ्गक्षालनं जलम् १०हविष्यान्नं च नैवेद्यमात्मनश्चैव भोजनम् ।ततश्च श्रूयतामन्यदाषाढादौ तु या क्रिया ११जातीपुष्पाणि धूपश्च शस्तः सर्जरसो नृप ।प्राश्य दर्भोदकं चात्र शाल्यन्नं च निवेदनम् १२स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत् ।कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् १३सुगन्धं चेच्छया धूपं पूजाभृङ्गारकेण च ।कासारं चात्र नैवेद्यमश्नीयात्तच्च वै स्वयम् १४प्रतिमासं च विप्राय दातव्या दक्षिणा तथा ।प्रीणनं चेच्छया विष्णोः पारणे पारणे गते १५यथाशक्ति यथाप्रीति वित्तशाठ्यं विवर्जयेत् ।सद्भावेनैव गोविन्दः पूजितः प्रीयते यतः १६पारणान्ते यथाशक्त्या स्नापितः पूजितो हरिः ।प्रीणितश्चेप्सितान्कामान्ददात्यव्याहतान्नृप १७एषा धन्या पापहरा द्वादशी फलमिच्छताम् ।यथाभिलषितान्कामान्ददाति मनुजेश्वर १८पूरयत्यखिलान्भक्त्या यतश्चैषा मनोरथान् ।मनोरथद्वादशीयं ततो लोकेषु विश्रुता १९उपोष्यैतां त्रिभुवनं प्राप्तमिन्द्रेण वै पुरा ।अदित्या चेप्सिताः पुत्रा धनं चोशनसा नृप २०धौम्येन चाप्यध्ययनमन्यैश्चाभिमतं फलम् ।राजर्षिभिस्तथा विप्रैः स्त्रीभिः शूद्रैश्च भूपते २१यं यं काममभिध्यायेद्व्रतमेतदुपोषितः ।तं तमाप्नोत्यसन्दिग्धं विष्णोराराधनोद्यतः २२अपुत्रो लभते पुत्रमधनो लभते धनम् ।रोगाभिभूतश्चारोग्यं कन्या प्राप्नोति सत्पतिम् २३समागमं प्रवसितैरुपोष्यैतामवाप्नुते ।सर्वान्कामानवाप्नोति मृतः स्वर्गे च मोदते २४नापुत्रो नाधनो नेष्टवियोगी न च निर्गुणः ।उपोष्यैतद्व्रतं मर्त्यः स्त्री जनो वापि जायते २५य एव व्रतसञ्चीर्णो विष्णुलोके महीयते ।स्वर्गलोके सहस्राणि वर्षाणां मनुजाधिप ।भोगानभिमतान्भुक्त्वा स्वर्गलोकेऽभिकाङ्क्षितान् २६इह पुण्यवतां नॄणां धनिनां साधुशीलिनाम् ।गृहेषु जायते राजन्सर्वव्याधिविवर्जितः २७इति विष्णुधर्मेषु मनोरथद्वादशीकल्पः । N/A References : N/A Last Updated : February 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP