संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ७९

विष्णुधर्माः - अध्याय ७९

विष्णुधर्माः


अथैकोनाशीतितमोऽध्यायः ।
शौनक उवाच ।
एवं स्तुते ततस्तस्मिन्विष्णुचक्रे सुदर्शने ।
पुष्पवृष्टिर्बलेर्मूर्ध्नि निपपातान्तरिक्षतः ।
परिहृत्य च दैत्येन्द्रंययौ चक्रं यथेच्छया १

भ्रमदेव च दैत्यानां ययौ तद्भयमावहत् ।
ततस्तदद्भुतं दृष्ट्वा चक्रस्यागमनं हरेः ।
पूर्ववत्स्मरणं प्राप्य सस्मार स्वपितामहम् २

गच्छता पूर्वमार्येण स्मर्तव्योऽहमितीरितम् ।
तं स्मरिष्यामि दैत्येन्द्रंस नः श्रेयोऽभिधास्यति ३

इत्येतदधिसंस्मृत्य बलिरात्मपितामहम् ।
सस्मार दैत्याधिपतिं प्रह्लादं भगवत्प्रियम् ४

संस्मृतश्च स पातालमाजगाम महामतिः ।
चक्रोद्यतकरः साक्षाद्भगवानिव केशवः ५

तमागतमथोत्थाय यथावत्स महामतिः ।
अभिवाद्य बलिर्भक्त्या निवेद्यार्घमभाषत ६

बलिरुवाच ।
तातांह्रिदर्शनादद्य पावितोऽस्म्यपकल्मषः ।
दिवश्च्युतोऽप्यहं मन्ये शक्रादात्मानमुत्तमम् ७

त्रैलोक्यहरणादुग्रं यद्दुःखं हृदये मम ।
तच्छान्तं पादसम्पर्कमुपेत्य भवतो मम ८

शौनक उवाच ।
इति संस्तूय दत्त्वा च वरासनमुदारधीः ।
पर्युपासत राजेन्द्रोदैत्यानां स्वपितामहम् ९

तमुपासीनमनघः प्रह्रादो दैत्यपुङ्गवः ।
प्रत्युवाच महात्मानं बलिं वैरोचनिं नृप १०

प्रह्लाद उवाच ।
बले ब्रूहि यदर्थं ते स्मृतोऽहमरिसूदन ।
तवोपकारणे विद्धि धर्मे मां सततोद्यतम् ११

बलिरुवाच ।
तातेनाहं पुरा ज्ञप्तो भ्रष्टराज्येन ते बले ।
संस्मर्तव्योऽस्म्यसन्दिग्धं श्रेयो वक्ष्याम्यहं तदा १२

सोऽहं राज्यपरिभ्रष्टो विषयासक्तिहृषितः ।
इन्द्रियैरवशस्तात यत्कार्यं तत्प्रशाधि माम् १३

प्रह्लाद उवाच ।
यदि मद्वचनं तात श्रद्धधासि हितं बले ।
तं देवदेवमनघं प्रयाहि शरणं हरिम् १४

शब्दादिष्वनुरक्तानि तवाक्षाण्यसुराधिप ।
शब्दादयश्च गोविन्दे सन्त्येव व्यवहारतः १५

गीतकैर्गीयतां विष्णुर्मनोहारिभिरात्मनः ।
अन्यालम्बनतश्चित्तमाकृष्याधत्स्व केशवे १६

गन्धानुदारान्भक्षांश्च स्रजो वासांसि चासुर ।
प्रयच्छ देवदेवाय तच्छेषाण्युपयुञ्ज च १७

यत्र यत्र च ते प्रीतिर्विषये दितिजेश्वर ।
तत्तमच्युतमुद्दिश्य विप्रेभ्यः प्रतिपादय १८

सर्वभूतेषु गोविन्दो बहुरूपो व्यवस्थितः ।
इति मत्वा महाबाहो सर्वभूतहितो भव १९

आत्मानमच्युतं विद्धि शत्रुं च रिपुमात्मनः ।
इतिज्ञानवतः कोपस्तव कुत्र भविष्यति २०

शब्दादयो ये विषया विषयी यश्च पुरुषः ।
तदशेषं विजानीहि स्वरूपं परमात्मनः २१

परमात्मा च भगवान्विष्वक्सेनो जनार्दनः ।
तद्भक्तिमान्भागवतो नाल्पपुण्यो हि जायते २२

भगवच्छासनालम्बी भगवच्छासनप्रियः ।
भगवद्भक्तिमाथाय वत्स भागवतो भव २३

भगवान्भूतकृद्भव्यो भूतानां प्रभवो हि यः ।
भावेन तं भजस्वेशं भवभङ्गकरं हरिम् २४

भजस्व भावेन विभुं भगवन्तं महेश्वरम् ।
ततो भागवतो भूत्वा भवबन्धाद्विमोक्ष्यसे २५

सर्वभूते मनस्तस्मिन्समाधाय महामते ।
प्राप्स्यसे परमाह्लादकारिणीं परमां गतिम् २६

यत्रानन्दपरं ज्ञानं सर्वदुःखविवर्जितम् ।
तत्र चित्तं समावेष्टुं न शक्नोति भवान्यदि ।
तदभ्यासपरस्तस्मिन्कुरु योगं दिवानिशम् २७

तत्राप्यसामर्थ्यवतः क्रियायोगो महात्मना ।
ब्रह्मणा यः समाख्यातस्तन्मनाः सततं भव २८

करोषि यानि कर्माणि तानि देवे जगत्पतौ ।
समर्पयस्व भद्रंते ततः कर्म प्रहास्यसि २९

क्षीणकर्मा महाबाहो शुभाशुभविवर्जितः ।
लयमभ्येति गोविन्दे तद्ब्रह्म परमं महत् ३०

भोक्तुमिच्छसि दैत्येन्द्रकर्मणामथ चेत्फलम् ।
ततस्तमर्चयेशेशं ततः कर्मफलोदयः ३१

योऽर्थमिच्छति दैत्येन्द्रससमाराध्य केशवम् ।
निःसंशयमवाप्नोति धुन्धुमारो यथा नृपः ३२

अत्रिगेहसमुद्भूतं दत्तात्रेयस्वरूपिणम् ।
राज्यमाराध्य गोविन्दं कार्तवीर्यस्तथाप्तवान् ३३

धर्मं कृष्णप्रसादेन मुद्गलो जाजलिः कुणिः ।
प्रापुरन्ये तथा कामान्नरेन्द्रानहुषादयः ३४

जनकः सुध्वजो नाम जनकः समितिध्वजः ।
धर्मध्वजस्तथा मुक्तिं केशवाराधनाद्गतः ३५

तथान्ये मुनयो दैत्य राजानश्च सहस्रशः ।
प्रापुर्मुक्तिं महाभागाः कृत्वा भक्तिं जनार्दने ३६

यथा हि ज्वलितो वह्निस्तमोहानिं तदर्थिनाम् ।
शीतहानिं तथान्येषां स्वेदं स्वेदाभिलाषिणाम् ३७

करोति क्षुधितानां च भोज्यपाकं तथोत्कटम् ।
तथैव कामान्भूतेशः स ददाति यथेप्सितान् ३८

तदेतदखिलं ज्ञात्वा यत्तवेष्टं शृणुष्व तत् ।
कल्पद्रुमादिव हरेर्यत्ते मनसि वर्तते ३९

-—————–शौनक उवाच ।
एतत्प्रह्लादवचनं निशाम्य दितिजेश्वरः ।
प्रत्युवाच महाभागं प्रणिपत्य पितामहम् ४०

सम्प्राप्तस्यामृतस्येव तव वाक्यस्य नास्ति मे ।
तृप्तिरेतदहं तात श्रोतुमिच्छामि विस्तरात् ४१

अक्षीणकर्मा पुरुषो मरणे समुपस्थिते ।
कीदृशं लोकमायाति यः संस्मरति केशवम् ४२

यथा च वासुदेवस्य स्मरणं तात मानवैः ।
मुमूर्षुभिः प्रकर्तव्यं तन्ममाचक्ष्व विस्तरात् ४३

किं जप्यं कीदृशं रूपं स्मर्तव्यं च हरेस्तदा ।
कथं ध्येयं च विद्वद्भिस्तदाचक्ष्व यथातथम् ४४

प्रह्लाद उवाच ।
साधु वत्स त्वया प्रश्नः सुगुह्योऽयमुदाहृतः ।
तपसां तात सर्वेषां तपो नानशनात्परम् ४५

कथ्यते च महाबाहो संवादोऽयं पुरातनः ।
भगीरथस्य राजर्षेर्ब्रह्मणश्च प्रजापतेः ४६

अतीत्यामरलोकं च गवां लोकं च मानद ।
ऋषिलोकं च योऽगच्छद्भगीरथ इति श्रुतः ४७

तं दृष्ट्वा स वचः प्राह ब्रह्मा लोकपितामहः ।
कथं भगीरथागास्त्वमिमं देशं दुरासदम् ४८

न हि देवा न गन्धर्वा न मनुषा भगीरथ ।
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ४९

भगीरथ उवाच ।
निःशङ्कमन्नमददं ब्राह्मणेभ्यः ।
शतं सहस्राणि सदैव दायम् ।
ब्राह्मणं व्रतं नित्यमास्थाय विद्वन् ।
न त्वेवाहं तस्य फलादिहागाम् ५०

दशैकरात्रान्दश पञ्चरात्रानेकादशैकादशकांस्तथैव ।
ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि न चागतोऽहम् ५१

यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम् ।
प्रदाय तत्राश्वतरीसहस्रं फलेन तस्यापि न चागतोऽहम् ५२

दश धेनुसहस्राणि मणिरत्नविभूषिताः ।
दशार्बुदानि चाश्वानामयुतानि च विंशतिः ।
पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ५३

सुवर्णचन्द्रोत्तमधारिणीनां कन्योत्तमानामददं स्रग्विणीनाम् ।
षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन ५४

दशार्बुदान्यददं गोसवे यास्त्वेकैकशो दश गा लोकनाथ ।
समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन ५५

अहन्यहनि विप्रेषु एकैकं त्रिंशतोऽददम् ।
गृष्टीनां क्षीरदात्रीणां रोहिणीनां शतानि च ५६

दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव तु ।
प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः ५७

कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम् ।
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ५८

वाजिनां श्यामकर्णानां हरितानां पितामह ।
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ५९

ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान् ।
पत्नीवतः सहस्राणि प्रायच्छं दश सप्त च ६०

अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः ।
रथानां काआङ्गानां सहस्राण्यददं दश ।
सप्त चान्यानि युक्तानां वाजिभिः समलङ्कृतैः ६१

दक्षिणावयवाः केचिद्देवैर्ये सम्प्रकीर्तिताः ।
वाजपेयेषु दशसु प्रादां तेनापि नागतः ६२

शक्रतुल्यप्रभावानामीज्यया विक्रमेण च ।
सहस्रं निष्ककण्ठानां प्रददन्दक्षिणामहम् ६३

विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह ।
अष्टाभ्यो राजसूयेभ्यो न च तेनाहमागतः ६४

स्रोतश्च यावद्गङ्गायां छिन्नमासीज्जगत्पते ।
दक्षिणाभिः प्रवृत्ताभिर्मम नागं च तत्कृते ६५

वाजिनां च सहस्रे द्वे सुवर्णमणिभूषिते ।
वारणानां शतं चाहमेकैकस्य त्रिधाददम् ।
वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम् ६६

तपस्वी नियताहारः शममास्थाय वाग्यतः ।
दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् ६७

मूर्ध्ना धारां महादेवः शिरसा यामधारयत् ।
न तेनाप्यहमागच्छं फलेनेह पितामह ६८

शम्याक्षेपैरयजं देवदेव तथा क्रतूनामयुतैश्चापि यत्तः ।
त्रयोदशद्वादशाहैश्च देव सपुण्डरीकैर्न च तेषां फलेन ६९

अष्टौ सहस्राणि ककुद्मिनामहं ।
शुक्लर्षभाणामदं ब्राह्मणेभ्यः ।
पत्नीश्चैषामददं निष्ककण्ठीस् ।
तेषां फलेनेह न चागतोऽस्मि ७०

हिरण्यरत्नरचितानददं रत्नपर्वतान् ।
धनधान्यसहस्रांश्च ग्रामाञ्शतसहस्रशः ७१

शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः ।
इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो धनेन च ७२

एकादशाहैरयजं सुदक्षिणैर्द्विर्द्वादशाहैरश्वमेधैश्च देव ।
बृहद्भिर्द्वादशाहैश्च अश्वमेधैः पितामह ।
अर्कायणैः षोडशभिश्च ब्रह्मंस्तेषां फलेनेह न चागतोऽस्मि ७३

निष्क्रामकं चाप्यददं योजनानां द्विर्विस्तीर्णं काञ्चनपादपानाम् ।
वनं चूतानां रत्नविभूषितानां न चैव तेषामागतोऽहं फलेन ७४

तुरायणं तु व्रतमप्रधृष्यमक्रोधनोऽकरवं त्रिंशतोऽब्दान् ।
शतं गवामष्ट शतानि चाहं दिने दिने प्राददं ब्राह्मणेभ्यः ७५

पयस्विनीनां अथ रोहिणीनां तथैव चाप्यनडुहां लोकनाथ ।
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम् ७६

त्रिंशतं विधिवद्वह्नीनयजं यच्च नित्यशः ।
अष्टाभिः सर्वमेधैश्च नृमेधैर्द्विगुणैस्तथा ७७

दशभिर्विश्वजिद्भिश्च स्तोभैरष्टादशोत्तरैः ।
न चैव तेषां देवेश फलेनाहमिहागमम् ७८

सरव्यां बाहुदायां च गयायामथ नैमिषे ।
गवां शतानामयुतमददं न च तेन वै ७९

उत्क्रान्तिकाले गोविन्दं स्मरन्ननशनस्थितः ।
त्यक्तवानस्मि यद्देहं तेनेदृक् प्राप्तवान्फलम् ८०

एवमेतदितीत्याह ब्रह्मा लोकपितामहः ।
भगीरथं महीपालं पुण्यलोकनिवासिनम् ८१

तदेतदुक्तं तपसां समस्तानां महामते ।
गुणैरनशनं ब्रह्मा प्रधानतरमब्रवीत् ८२

त्यजत्यनशनस्थो हि प्राणान्यः संस्मरन्हरिम् ।
स याति विष्णुसालोक्यं यावदिन्द्राश्चतुर्दश ८३

अतीतानागतानीह कुलानि पुरुषर्षभ ।
पुनात्यनशनं कुर्वन्सप्त सप्त च सप्त च ८४

श्लोकाश्चात्र महाबाहो श्रूयन्ते यान्भगीरथः ।
जगाद ब्रह्मणो लोकमुपेतः पृथिवीपतिः ८५

ब्रह्म ब्रह्ममयं विष्णोर्यः पदं परमात्मनः ।
संस्मरंस्त्यजति प्राणान्स विष्णुं प्रविशत्यजम् ८६

यः क्षीणकर्मा भोगेन तपसा वापि संस्मरन् ।
करोति कालं कालेन न परिच्छेद्यते हि सः ८७

अक्षीणकर्मा मरणे संस्मरन्देवमच्युतम् ।
यथा त्वमेव देवानां लोके भोगानुपाश्नुते ८८

क्षुतितेऽपि कुले कश्चिज्जायेयं कर्मणः क्षये ।
मनुष्यो येन सर्वेशं चिन्तयेयं सदा हरिम् ८९

तच्चिन्तयाधुनाशेषपुण्यपापविवर्जितः ।
मरणे तन्मनस्तत्र लयमेत्य तमाप्नुयात् ९०

कर्मभूमौ समस्तानां कर्मणामुत्तमोत्तमम् ।
यदन्तकाले पुरुषैः स्मर्यते पुरुषोत्तमः ९१

इत्येतानाह राजर्षिः श्लोकानाद्यो भगीरथः ।
विष्णुसंस्मरणात्प्राप्य लोकाननशने मृतः ९२

एवमत्यन्तशस्तानां कर्मणामसुरेश्वर ।
नान्यदुत्कृष्टमुद्दिष्टं तज्ज्ञैरनशनात्परम् ९३

तस्याहं लक्षणं वक्ष्ये यच्च जप्यं मुमूर्षुभिः ।
यादृग्रूपश्च भगवांश्चिन्तनीयो जनार्दनः ९४

आसन्नमात्मनः कालं ज्ञात्वा प्राज्ञो महासुर ।
निर्धूतमलदोषश्च स्नातो नियतमानसः ९५

समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्ततः ।
प्रणिपातैः स्तवैः पुण्यैर्ध्यानयोगैश्च पूजयेत् ९६

दत्त्वा दानं च विप्रेभ्यो विकलादिभ्य एव च ।
सभाप्रपाब्राह्मणौकदेवौकाद्युपयोगि च ९७

बन्धुपुत्रकलत्रौकक्षेत्रधान्यधनादिषु ।
मित्रवर्गे च दैत्येन्द्रममत्वं विनिवर्तयेत् ९८

मित्रानमित्रान्मध्यस्थान्परान्स्वांश्च पुनः पुनः ।
अभ्यर्थनोपचारेण क्षामयेत्कुकृतं स्वकम् ९९

ततश्च प्रयतः कुर्यादुत्सर्गं सर्वकर्मणाम् ।
शुभाशुभानां दैत्येन्द्रवाक्यं चेदमुदाहरेत् १००

परित्यजाम्यहं भोगांस्त्यजामि सुहृदोऽखिलान् ।
भोजनादि मयोत्सृष्टमुत्सृष्टमनुलेपनम् १०१

स्रग्भूषणादिकं गेयं दानमादानमेव च ।
होमादयः पदार्था ये याश्च नित्यक्रिया मम १०२

नैमित्तिकास्तथा काम्या वर्णधर्मास्तथोज्झिताः ।
गुणधर्मादयो धर्मा याश्च काश्चिन्मम क्रियाः १०३

पद्भ्यां कराभ्यां विहरन्कुर्वन्वा कर्म न त्वहम् ।
करिष्ये प्राणिनां पीडां प्राणिनः सन्तु निर्भयाः १०४

नभसि प्राणिनो ये तु ये जले ये च भूतले ।
क्षितेरन्तरगा ये च ये च पाषाणसम्पुटे १०५

ये धान्यादिषु वस्त्रेषु शयनेष्वासनेषु च ।
ते स्वपन्तु विबुध्यन्तु सुखं मत्तो भयं विना १०६

न मेऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम् ।
मित्रपक्षे च मे विष्णुरधश्चोर्ध्वं तथाग्रतः १०७

पार्श्वतो मूर्ध्नि पृष्ठे च हृदये वाचि चक्षुषि ।
श्रोत्रादिषु च सर्वेषु मम विष्णुः प्रतिष्ठितः १०८

इति सर्वं समुत्सृज्य ध्यात्वा सर्वत्र चाच्युतम् ।
वासुदेवेत्यविरतं नाम देवस्य कीर्तयन् १०९

दक्षिणाग्रेषु दर्भेषु शयीत प्राच्छिरास्ततः ।
उदच्छिरा वा दैत्येन्द्रचिन्तयञ्जगतः पतिम् ११०

विष्णुं जिष्णुं हृषीकेशं केशवं मधुसूदनम् ।
नारायणं नरं कृष्णं वासुदेवं जनार्दनम् १११

वाराहं यज्ञपुरुषं पुण्डरीकाक्षमच्युतम् ।
वामनं श्रीधरं श्रीशं नृसिंहमपराजितम् ११२

पद्मनाभमजं शौरिं दामोदरमधोक्षजम् ।
सर्वेश्वरेश्वरं शुद्धमनन्तं राममीश्वरम् ११३

चक्रिणं गदिनं शार्ङ्गिं शङ्खिनं गरुडध्वजम् ।
किरीटकौस्तुभधरं प्रणमाम्यहमव्ययम् ११४

अहमत्र जगन्नाथे मयि चास्तु जनार्दनः ।
आवयोरन्तरं मास्तु समीरनभसोरिव ११५

अयं विष्णुरयं शौरिरयं कृष्णः पुरो मम ।
नीलोत्पलदलश्यामः पद्मपत्त्रोपमेक्षणः ११६

एष पश्यतु मामीशः पश्याम्यहमधोक्षजम् ।
यतो न व्यतिरिक्तोऽहं यन्मयोऽहं यदाश्रयः ११७

इत्थं जपन्नेकमनाः स्मरन्सर्वेश्वरं हरिम् ।
आसीनः सुखदुःखेषु समो मित्राहितेषु च ११८

ॐ नमो वासुदेवायेत्येतद्वा सततं वदन् ।
यद्वोदीरयितुं नाम समर्थस्तदुदीरयन् ।
ध्यायेत देवदेवस्य रूपं विष्णोर्मनोरमम् ११९

प्रशान्तनेत्रभ्रूवक्त्रं शङ्खचक्रगदाधरम् ।
श्रीवत्सवक्षसं चैव चतुर्बाहुं किरीटिनम् १२०

पीताम्बरधरं विष्णुं चारुकेयूरधारिणम् ।
चिन्तयेच्च तदा रूपं मनः कृत्वैकनिश्चयम् १२१

यादृशे वा मनः स्थैर्यं रूपे बध्नाति चक्रिणः ।
तदेव चिन्तयन्नाम वासुदेवेति कीर्तयेत् १२२

इत्तं जपन्स्मरन्वेत्थं स्वरूपं परमात्मनः ।
आ प्राणोपरमाद्वीरस्तच्चित्तस्तत्परायणः १२३

निर्विकल्पेन मनसा यः स्मरेत्पुरुषोत्तमम् ।
सर्वपातकयुक्तोऽपि पुरुषः पुरुषर्षभ ।
प्रयाति देवदेवेशे लयमीड्यतमेऽच्युते १२४

यथाग्निस्तृणजालानि दहत्यनिलसङ्गतः ।
तथानशनसङ्कल्पः पुंसां पापमसंशयम् १२५

विष्णोः संस्मरणे प्राप्य लोकमनशने मृतः ।
एवमत्यन्तशस्तानां कर्मणामसुरेश्वर ।
नास्ति सत्यात्परो धर्मो नास्त्यधर्म तथानृतात् ।
नास्ति विद्यासमं चक्षुस्तपो नानशनात्परम् १२६

नास्ति ज्ञानसमं दानं न सन्तोषसमं सुखम् ।
न चैवेर्ष्यासमं दुःखं तपो नानशनात्परम् १२७

नास्त्यरोगसमं धन्यं नास्ति गङ्गासमा सरित् ।
नास्ति विष्णुसमं ध्येयं तपो नानशनात्परम् १२८

बलिरुवाच ।
उत्क्रान्तिकाले भूतानां मुह्यन्ते चित्तवृत्तयः ।
जराव्याधिविधीनानां किमु व्याध्यादिदोषतः १२९

अत्यन्तवयसा वृद्ध्या व्याधिना चातिपीडितः ।
यदि स्थातुं न शक्नोति क्षितिस्थे दर्भसंस्तरे १३०

तत्किमन्योऽप्युपायोऽस्ति न वानशनकर्मणि ।
विफल्यं येन नाप्नोति तन्मे ब्रूहि पितामह १३१

प्रह्लाद उवाच ।
नात्र भूमिर्न च कुशाः संस्तरश्च न कारणम् ।
चित्तस्यालम्बनीभूतो विष्णुरेवात्र कारणम् १३२

भुञ्जन्नभुञ्जन्गच्छंश्च स्वपंस्तिष्ठन्नथापि वा ।
उत्क्रान्तिकाले गोविन्दं संस्मरंस्तन्मयो भवेत् १३३

किं जपैः किं भुवा कृत्यं किं कुशैर्दैत्यसत्तम ।
तथापि कुर्वतो यस्य हृदये न जनार्दनः १३४

तस्मात्प्रधानमन्त्रोक्तं वासुदेवस्य कीर्तनम् ।
तन्मयत्वेन दैत्येन्द्रतस्योपायश्च विस्तरः १३५

इत्येतत्कथितं सर्वं पृष्टोऽहं यत्त्वया बले ।
उत्क्रान्तिकाले स्मरणं किं भूयः कथयामि ते १३६

इति विष्णुधर्मेषूत्क्रान्तिस्मरणम् ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP