संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ९६ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ९६ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ९६ Translation - भाषांतर अथ षड्नवतितमोध्यायः ।शतानीक उवाच ।आख्यातं भवता ब्रह्मन्नेतद्ब्रह्म सनातनम् ।यस्मादुत्पद्यते कृत्स्नं जगदेतच्चराचरम् १किन्तु कौतुकमत्रास्ति मम भार्गवनन्दन ।तदहं श्रोतुमिच्छामि त्वत्तः सन्देहमुत्तमम् २यदेतद्भवताख्यातं ब्रह्म ब्रह्मविदां वर ।परिणामो न तस्यास्ति निर्गुणं सर्वगं यतः ३सनातनात्सर्वगतात्परिणामविवर्जितात् ।कथं सञ्जायते कृत्स्नं तस्मादपगुणादपि ४शौनक उवाच ।द्विविधं कारणं भूप निबोध गदतो मम ।निमित्तकारणं पूर्वं द्वितीयं परिणामि च ५यथा कुम्भस्य करणे कुलालः प्रथमं नृप ।कारणं परिणामाख्यं मृद्द्रव्यमपरं स्मृतम् ६धर्माधर्मादयस्तद्वज्जगत्सृष्टेर्महीपते ।कारणं परिणामाख्यं निमित्ताख्यं तु तत्परम् ७कारणं कालगगने यथा सन्निधिमात्रतः ।अविकारितया ब्रह्म तथा सृष्टेर्नरेश्वर ८अज्ञानपटलाच्छनैरेकदेशात्मवृत्तिभिः ।अनात्मवेदिभिर्जीवैर्निजकर्मनिबन्धनैः ९कुर्वद्भिर्नृपते कर्म कर्तृत्वमुपचारतः ।क्रियते सर्वभूतस्य सर्वगस्याव्ययात्मनः १०यतः सम्बन्धवानेभिरशेषैः प्राणिभिः प्रभुः ।कर्तृत्वमुपचारेण ततस्तस्यापि भूपते ११भेदाभेदस्वरूपेण तत्र ब्रह्म व्यवस्थितम् ।तयोः स्वरूपं नृपते श्रूयतामुभयोरपि १२अनादिसम्बन्धवत्या क्षेत्रज्ञः क्षेत्रविद्यया ।व्याप्तः पश्यत्यभेदेन ब्रह्म तद्ध्यात्मनि स्थितम् १३पश्यत्वात्मानमन्यत्र यावद्वै परमात्मनः ।तावत्सम्भ्राम्यते जन्तुर्मोहितो निजकर्मणा १४सङ्क्षीनाशेषकर्मा तु परं ब्रह्म प्रपश्यति ।अभेदेनात्मनः शुद्धं शुद्धत्वादक्षयोऽक्षयम् १५भेदश्च कर्मजनितः क्षेत्रज्ञपरमात्मनोः ।सङ्क्षीणकर्मबन्धस्य न भेदो ब्रह्मणा सह १६उपास्योपास्यकतया भेदो यैरपि कथ्यते ।तौ हि शुद्ध्यर्थमिच्छन्ति मलानां तदुपासनम् ।परोऽसावपरेणात्मा सन्त्यक्तममतेन तु ।उपास्यते तदा सोऽपि तद्भावं प्रतिपद्यते ।कर्मिणां कर्मभेदेन भेदादेवादयो यतः ।कर्मक्षयादशेषाणां भेदानां सङ्क्षयस्ततः १७अविद्या तु क्रिया सर्वा विद्या ज्ञानं प्रचक्षते ।कर्मणा जायते जन्तुर्विद्यया तु विमुच्यते १८अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ।उभयं ब्रह्मणो रूपं द्वैताद्वैतविभेदतः ।तयोः स्वरूपं वदतो निबोध मम पार्थिव १९देवतिर्यङ्मनुष्याख्यस्तथैव नृप तारकः ।चतुर्विधो हि भेदो यो मिथ्याज्ञाननिबन्धनः २०अहमन्योऽपरश्चायममी चात्र तथापरे ।विज्ञानमेतत्तद्द्वैतं यदन्यच्छ्रूयतां परम् २१ममेत्यहमितिप्रज्ञावियुक्तमविकल्पवत् ।अविकारमनाख्येयमद्वैतमपि भूपते २२अभेदेन तवाख्यातं यदेतद्ब्रह्म शाश्वतम् ।ज्ञानज्ञेयैक्यसद्भावं तदेवाद्वैतसञ्ज्ञितम् २३यश्च द्वैते प्रपञ्चः स्यान्निवर्त्योभयचेतसः ।मनोवृत्तिमयं द्वैतमद्वैतं परमाथतः २४मनसो वृत्तयस्तस्माद्धर्माधर्मनिमित्तजाः ।निरोधव्यास्तन्निरोधाद्द्वैतं नैवोपपद्यते २५मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम् ।मनसो ह्यमतीभावे द्वैताभावात्तदाप्नुयात् २६मनो हि विषयं यद्वदादत्ते तद्वदेव तत् ।भवत्यपास्तविषयं ग्राहिधर्मे च जायते २७अग्राहि तच्च विधृतं योगिनां विषयं प्रति ।निरोधे योगसामर्थ्याद्ब्रह्मग्राह्येव जायते २८ग्राह्यं च परमं ब्रह्म योगिचित्तस्य पार्थिव ।समुज्झितग्राह्यवृत्तिरमलस्य मलं महत् २९क्षीणक्लेशास्तु संसारविमुक्तिपथमाश्रिताः ।येऽपि कर्माणि कुर्वन्ति भगवन्तमपाश्रिताः ।क्रियायोगपरा राजन्कामाकाङ्क्षाविवर्जिताः ।ब्रह्मनिष्ठा ध्यानपरा ब्रह्मण्येव व्यवस्थिताः ।तेऽपि तद्भावमायान्ति विमुक्तिपथमाश्रिताः ।योगिनस्तं प्रपश्यन्ति समर्था नैव चोदितुम् ३०कर्मणो भावना येयं सा ब्रह्मपरिपन्थिनी ।कर्मभावनया तुल्यं विज्ञानमुपपद्यते ३१तादृग्भवतो विज्ञप्तिर्यादृशी कर्मभावना ।क्षये तस्याः परं ब्रह्म स्वयमेव प्रकाशते ३२एवमेतन्मया भूप यथावत्कथितं तव ।द्वैताद्वैतस्वरूपेण यथा ब्रह्म व्यवस्थितम् ३३यथावत्कर्मनिष्ठानां तत्प्राप्तिः कथितं तथा ।स्वरूपं ब्रह्मणश्चोक्तमुभयत्रापि ते पृथक् ।वासुदेवमयस्यान्यत्किं भूयः कथयामि ते ३४इति विष्णुधर्मेषु ब्रह्माभिव्यञ्जकः । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP