विष्णुधर्माः - अध्याय ७४
विष्णुधर्माः
N/Aअथ चतुस्सप्ततितमोऽध्यायः ।
शौनक उवाच ।
भूयश्च शृणु राजेन्द्रयज्जगाद जनार्दनः ।
नागपर्यङ्कशयने पृष्टः क्षीराब्धिकन्यया १
पुरा शयानं गोविन्दं प्रावृट्काले महोदधौ ।
शेषभोगिमहाभोगे वीच्यम्बुकणशीतले २
वक्षःस्थलस्थिता देवी जगन्माता जगत्पतिम् ।
अनन्यासक्तदृष्टिं च किमप्येकाग्रमानसम् ।
श्रीवत्सवक्षसं लक्ष्मीः करसंवाहनादृता ३
योगनिद्रावसानस्थमच्युतं जगतः पतिम् ।
पप्रच्छ पुण्डरीकाक्षं पुण्डरीककरा हरिम् ४
श्रीरुवाच ।
सृष्टं जगदिदं सर्वं बहुशश्चोपसंहृतम् ।
त्वया जगत्पते चात्र किं कश्चिद्दयितस्तव ५
देवान्मनुष्यान्गन्धर्वान्यक्षविद्याधरासुरान् ।
सृष्ट्वा सृष्टान्निर्घृणत्वादुपसंहरते भवान् ६
कश्चिदेतेषु भूतेषु देवादिषु तवाच्युत ।
द्वेषोऽस्ति प्रीतिरथवा समः सर्वत्र वा भवान् ७
भगवानुवाच ।
समोऽस्मि सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
तथापि गुणगृह्योऽहं प्रत्येकहृदयस्थितः ८
अन्तरात्मनि सर्वस्य लोकस्याहमवस्थितः ।
पुण्यापुण्यकृतौ तेषु प्रीतिद्वेषौ शुभे मम ९
पुण्यं प्रीत्यनुभावेन साधु बुद्धिषु वर्तते ।
द्वेषानुभावेनापुण्यं फलदं तेषु भामिनि १०
श्रूयतां च महाभागे नरेषु शुभचारिषु ।
सततं येषु मे प्रीतिस्तथाप्रीतिर्वरानने ११
प्रलयोत्पत्तितत्त्वज्ञा आत्मज्ञानपराश्च ये ।
एते स्वकर्मणा भद्रेमम प्रीतिपथं गताः १२
वाङ्मनःकायिकीं हिंसां ये न कुर्वन्ति कुत्रचित् ।
सर्वमैत्रा नरा लक्ष्मि दयितास्ते सदा मम १३
स्वकीयद्रव्यसन्तुष्टा निवृत्ताश्चौर्यकर्मणः ।
सत्यशीलदयायुक्ता नरा मम सदा प्रियाः १४
मातृस्वसृसुतातुल्यान्परदारांश्च ये नराः ।
मन्यन्ते ते च मे लक्ष्मि दृढं प्रियतमाः सदा १५
न कामान्न च संरम्भान्न द्वेषाद्ये च भामिनि ।
सन्त्यजन्ति स्वकं कर्म तेऽतीव दयिता मम १६
विश्वास्याः सर्वभूतानामहिंस्राश्च दयालवः ।
त्यक्तानृतकथा देवि मनुष्या दयिता मम १७
धर्मलब्धांस्तु ये भोगान्भुञ्जते नातिकीकटाः ।
परलोकाविरोधेन ते ममातिप्रिया नराः १८
न लोभे न च कार्पण्ये न स्तेये न च मत्सरे ।
येषां मतिर्मनुष्याणां तेऽतीव दयिता मम १९
धर्मलब्धेषु दारेषु ऋतुकालाभिगामिनः ।
गृहस्थकर्माभिरता नरास्ते दयिता मम २०
पररन्ध्रेषु जात्यन्धाः परदारेष्वपुंसकाः ।
परापवादे ये मूका दयितास्ते नरा मम २१
परापवादं निन्दां च परमर्मावघट्टनम् ।
ये न कुर्वन्ति पुरुषास्ते देवि मम वल्लभाः २२
सत्यां श्लक्ष्णां निराबाधां मधुरां प्रीतिदायिनीम् ।
ये वाचमीरयन्ति स्म ते मनुष्या मम प्रियाः २३
ये ब्राह्मणार्थे सन्त्यज्य सद्यः स्वमपि जीवितम् ।
यतन्ते परया भक्त्या ते देवि दयिता मम २४
साक्षाद्देवमिवायान्तं या पतिं नित्यमर्चति ।
पादशौचादिभिर्नारी तस्या नाहं सुदुर्लभः २५
पूर्णचन्द्रमिवोद्यतं भर्तारं या गृहागतम् ।
हृष्टा पश्यति तां विद्धि दयितां योषितं मम २६
ते भक्ता ये सदा विप्रान्पूजयन्त्यब्धिसम्भवे ।
यथाविभवतो भक्त्या स्वकर्माभिरता नराः २७
श्रुतिस्मृत्युदितं धर्मं मनसापि न ये नराः ।
समुल्लङ्घ्य प्रवर्तन्ते ते भक्ता मम भामिनि २८
ब्रह्मरूपधरस्यास्यान्मम वेदा विनिःसृताः ।
मन्वादिरूपिणश्चैव समस्ताः स्मृतयः स्मृताः २९
श्रुतिः स्मृतिर्ममैवाज्ञा तामुल्लङ्घ्य यजेच्छुभे ।
सर्वस्वेनापि मां देवि नाप्नोत्याज्ञाविघातकृत् ३०
यः स्वधर्मान्न चलति हिंसाधौ यो न सज्यते ।
वहतस्तस्य मद्भक्तिं सदैवाहं न दुर्लभः ३१
एतद्देवि मयाख्यातं यत्पृष्टोऽहमिह त्वया ।
प्रियाणां मम सर्वेषां शृणु योऽतितरं प्रियः ३२
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च वरवर्णिनि ।
स्वधर्मादचलन्देवि दयावान्सर्वजन्तुषु ३३
सत्यवाच्छौचसम्पन्नो न द्रोही न च मत्सरी ।
वाङ्मनःकर्मभिः शान्तो दयितः सततं मम ३४
शौनक उवाच ।
एवं श्रीर्देवदेवेन प्रागुक्ता हरिमेधसा ।
तवापि हि नरश्रेष्ठ यथावत्कथितं मया ३५
संवादमेतद्देवस्य सह लक्ष्म्या जगत्पतेः ।
यः शृणोति स पापेभ्यः समस्तेभ्यः प्रमुच्यते ३६
इति विष्णुधर्मेषु वासुदेवश्रीसंवादः ।
N/A
References : N/A
Last Updated : February 28, 2024
TOP