संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ९० विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ९० विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ९० Translation - भाषांतर अथ नवतितमोऽध्यायः ।गौरमुख उवाच ।देवकी भार्गवस्यैतच्छ्रुत्वा वाक्यं नराधिप ।शुद्धिकामा चचाराथ सर्वकामप्रदं व्रतम् १व्रतेनाराधितस्तेन तदा देव्या जनार्दनः ।ददौ दर्शनमीशेशः शङ्खचक्रगदाधरः २दृष्टे तस्मिन्नशेषेशे जगद्धातरि केशवे ।कृत्वा प्रणाममाहेदं भक्तिनम्राथ देवकी ३जगतामीश्वरेशेश ज्ञान ज्ञेय भवाव्यय ।समस्तदेवतादेव वासुदेव नमोऽस्तु ते ४प्रधानपुंसोरजयोर्यः कारणमकारणम् ।अविशेष्यमजं रूपं तव तस्मै नमोऽस्तु ते ५त्वं प्रधानं पुमांश्चैव कारणाकारणात्मकः ।सदसच्चाखिलं देव केनोक्तेन तव स्तवः ६प्रसीद देव देवानामरिशातन वामन ।लोभाभिभूता यदहं वरयामि प्रयच्छ तत् ७देवदेव उवाच ।अदितिस्त्वं महाभागे भुवं प्राप्ता सुरारणि ।भर्ता च ते कश्यपोऽयं देयस्तव वरो मया ८देवक्युवाच ।अपुत्रास्मि न मे भर्तुरस्ति केशव सन्ततिः ।प्रसीद देहि मे पुत्रमरिदुर्धारपौरुषम् ९देवदेव उवाच ।भविष्यत्यचिराद्देवि मदंशेन सुतस्तव ।हन्तव्या दानवास्तेन सद्धर्मपरिपन्थिनः १०देवक्युवाच ।त्वामहं जगद्धातारमुदारोरुपराक्रमम् ।धारयिष्यामि गर्भेण कथमच्युत शंस मे ११देवदेव उवाच ।तवोदरेऽवतारं वै पुरापि बलिबन्धने ।कुर्वता विधृताः सप्त लोकास्त्वं चात्ममायया १२तथा साम्प्रतमप्येतांल्लोकान्सस्थाणुजङ्गमान् ।धारयिष्याम्यथात्मानं त्वां च देवकि लीलया १३गौरमुख उवाच ।इत्येवमुक्त्वा तां देवीं देवकीं भगवान्प्रभुः ।तिरोबभूव गोविन्दो भूर्भुवःप्रभवो विभुः १४अवाप च ततो गर्भं देवकी वसुदेवतः ।अजायत च विश्वेशः स्वेनाङ्गेन जनार्दनः १५नीलोत्पलदलश्यामं ताम्रायतविलोचनम् ।चतुर्बाहुमुदाराङ्गं श्रीवत्साङ्कितवक्षसम् १६तं जातं देवकी देवं निधानं सर्वतेजसाम् ।प्रणिपत्याभितुष्टाव सम्प्रस्तुतपयोधरा १७अबालो बालरूपेण येनेश त्वमिहास्थितः ।त्वद्रूपं प्रणिपत्याहं यद्ब्रवीमि निबोध तत् १८नमस्ते सर्वभूतेश नमस्ते मधुसूदन ।नमस्ते पुण्डरीकाक्ष नमस्तेऽस्तु जनार्दन १९नमस्ते शार्ङ्गचक्रासिगदापरिघपाणये ।उपेन्द्रायाप्रमेयाय हृषीकेशाय वै नमः २०नमोऽस्तु तेऽणुरूपाय बृहद्रूपाय वै नमः ।अशेषभूतरूपाय तथारूपाय ते नमः २१अनिर्देश्यविशेषाय तुभ्यं सर्वात्मने नमः ।सर्वेश्वराय सर्वाय सर्वभूताय ते नमः २२नमोऽस्तु ते वासुदेव नमोऽस्तु कमलेक्षण ।अशेषभूतरूपाय तथाभूताय ते नमः ।नमोऽस्तु तेऽश्वरूपाय तथारूपाय ते नमः ।अनिर्देश्यविशेषाय तुभ्यं सर्वात्मने नमः ।नमोऽस्तु ते वासुदेव नमस्ते पुष्करेक्षण ।नमोऽस्तु ते सदाचिन्त्य योगिचिन्त्य जगत्पते २३विष्णो नमोऽस्तु ते कृष्ण नमस्ते पुरुषोत्तम ।नमो नारायण हरे नमस्तेऽस्तु सदाच्युत २४नमो नमस्ते गोविन्द नमस्ते गरुडध्वज ।श्रीश श्रीवत्स योगीश श्रीकान्तेश नमोऽस्तु ते २५नीलोत्पलदलश्याम दंष्ट्रोद्धृतवसुन्धर ।हिरण्याक्षरिपो देव नमस्ते यज्ञसूकर २६नृसिंह जय विश्वात्मन्दैत्योरःस्थलदारक ।नमो नमस्तेऽस्तु सदा विक्षेपध्वस्ततारक २७मायावामनरूपाय तुभ्यं देव नमो नमः ।त्रिविक्रम नमस्तुभ्यं त्रैलोक्यक्रान्ति दुर्जय २८ऋग्यजुःसामभूताय वेदाहरणकर्मणे ।प्रणवोद्गीतवचसे महाश्वशिरसे नमः २९निःक्षत्रियोर्वीकरण विकरालपराक्रम ।जामदग्न्य नमस्तुभ्यं कार्तवीर्यासुतस्कर ३०पौलस्त्यकुलनाशाय साहुमार्गविचारिणे ।नलसेतुकृते तुभ्यं नमो राघवरूपिणे ३१साम्प्रतं मत्प्रसन्नाय सम्भूताय ममोदरे ।स्वमायाबालरूपाय नमः कृष्णाय वै हरे ३२यावन्ति तव रूपाणि यावत्यश्च विभूतयः ।नमामि कृष्ण सर्वेभ्यस्तेभ्यस्ताभ्यश्च सर्वदा ३३स्वरूपचेष्टितं यत्ते यद्देवत्वे विचेष्टितम् ।यच्च तिर्यङ्मनुष्यत्वे चेष्टितं तन्नमाम्यहम् ३४परमेश परेशेश तिर्यगीश नरेश्वर ।सर्वेश्वरेश्वरेशेश नमस्ते पुरुषोत्तम ३५गौरमुख उवाच ।एवं स्तुतस्तया देव्या देवक्या मधुसूदनः ।बालरूपी जगादैवं वसुदेवस्य शृण्वतः ३६सम्यगाराधितेनोक्तं यत्प्रसन्नेन वै शुभे ।तत्कृतं सकलं भूयो यद्वृणोषि ददामि तत् ३७अवतारे तथैवास्मिन्वर्षाणामधिकं शतम् ।स्थास्यामि नरतां प्राप्तो दुष्टदैत्यनिबर्हणः ३८तत्त्वं वरय भद्रंते वरं यन्मनसेच्छसि ।दास्याम्यहमसन्दिग्धं यद्यपि स्यात्सुदुर्लभम् ३९देवक्युवाच ।यदि देव प्रसन्नस्त्वं प्रददासि ममेप्सितम् ।वृणोमि तदहं नित्यं तव केशव दर्शनम् ४०तवेदृग्रूपमालोक्य हार्दप्रस्रुतलोचना ।नालं वियोगं संसोढुं तवाहं मधुसूदन ४१देवदेव उवाच ।दाक्षायणी त्वमदितिः सम्भूता वसुधातले ।नित्यमेव जगद्धात्रि प्रसादं ते करोम्यहम् ४२षष्ठे षष्ठे तदा पक्षे दिनेऽस्मिन्नेव भामिनि ।त्वं मां द्रक्ष्यस्यसन्दिग्धं प्रसादस्ते कृतो मया ४३अनेनैव महाभागे बालरूपेण संवृतः ।तव दर्शनमेष्यामि यत्र ते स्नेहवन्मनः ४४तस्मिन्काले च लोकास्त्वां पूजयिष्यन्ति देवकि ।मां च पुष्पादिभिर्देवि तवोत्सङ्गव्यवस्थितम् ४५सम्पूजितोऽहं लोकानां तस्मिन्काले सुतोषितः ।प्रदास्यामि जगद्धात्रि यथाभिलषितं वरम् ४६अपुत्राणां वरान्पुत्रानधनानां तथा धनम् ।शुभान्दारानदाराणां सरोगाणामरोगताम् ४७सुगतिं गतिकामानां विद्यां विद्यार्थिनामपि ।प्रदास्यसि महाभागे मत्प्रसादोपवृंहिता ४८प्रसादिता हि मर्त्यानां यत्त्वं दास्यसि शोभने ।तत्तेषां मत्प्रसादेन भविष्यति न दुर्लभम् ४९त्वामभ्यर्च्योपचारेण स्नापयित्वा घृतेन माम् ।सर्वकामानवाप्स्यन्ति काले षट्पक्षसञ्ज्ञिते ५०त्वदङ्कस्थं च मां बालं संस्मरिष्यन्ति भक्तितः ।प्रतिमासं च ते पूजामष्टम्यां यः करिष्यति ।मम चैवाखिलान्कामान्सम्प्राप्नोत्यपकल्मषः ५१गौरमुख उवाच ।एवं पूर्वं हृषीकेशो देवक्याः प्रददौ वरम् ।तस्मात्कृष्णाष्टमी पुंसामशेषाघौघहारिणी ५२तस्यां हि पूजितः कृष्णो देवकी च समाधिना ।पापापनोदं कुरुते ददाति च मनोरथान् ५३तदेष पुष्टिकामानां नॄणां पुण्यार्थिनामपि ।उपवासो महीपाल शस्तः केशवतोषदः ५४इति विष्णुधर्मेषु देवकीव्रतम् । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP