संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ४ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ४ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ४ Translation - भाषांतर अथ चतुर्थोऽध्यायः ।प्रह्लाद उवाच ।उपवासैर्हृषीकेशः कथं तुष्यति भार्गव ।परिहारांस्तथाचक्ष्व ये त्याज्याश्चोपवासिनाम् १यद्यत्कार्यं यथा चैव केशवाराधने नरैः ।तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि २शुक्र उवाच ।स्मृतः सम्पूजितो धूपपुष्पाद्यैर्दयितैर्हरिः ।भोगिनामुपकाराय किं पुनश्चोपवासिनाम् ३उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह ।उपवासः स विज्ञेयः सर्वभोगविवर्जितः ४एकरात्रं द्विरात्रं वा त्रिरात्रमथवापरम् ।उपवासी हरिं यस्तु भक्त्या ध्यायति मानवः ५तन्नामजापी तत्कर्मरतिस्तद्गतमानसः ।निष्कामो दैत्य स ब्रह्म परमाप्नोत्यसंशयम् ६यं च काममभिध्यायन्केशवार्पितमानसः ।उपोष्यति तमाप्नोति प्रसन्ने गरुडध्वजे ७कथ्यते च पुरा विप्रः पुलस्त्यो ब्रह्मवादिना ।दाल्भ्येन पृष्टोऽकथयद्यथैतदरिसूदन ८दाल्भ्य उवाच ।ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः! स्त्रीभिस्तथा मुने ।संसारगर्तपङ्कस्थैः सुगतिः प्राप्यते कथम् ९पुलस्त्य उवाच ।अनाराध्य जगन्नाथं सर्वधातारमच्युतम् ।निर्व्यलीकेन चित्तेन कः प्रयास्यति सद्गतिम् १०विषयग्राहि वै यस्य न चित्तं केशवार्पितम् ।स कथं पापपङ्काङ्की नरो यास्यति सद्गतिम् ११यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि ।तदाराधय सर्वेशं जगद्धातारमच्युतम् १२पुष्पैः सुगन्धैर्हृद्यैश्च धूपैः सागरुचन्दनैः ।वासोभिर्भूषणैर्भक्ष्यैरुपवासपरायणः १३यदि संसारनिर्वेदादभिवाञ्छसि सद्गतिम् ।तदाराधय गोविन्दं यच्चेष्टं तव चेतसि १४पुष्पाणि यदि ते न स्युः शस्तं पादपपल्लवैः ।दूर्वाङ्कुरैरपि ब्रह्मंस्तदभावेऽर्चयाच्युतम् १५सुगन्धिपुष्पदीपाद्यैर्यः कुर्यात्केशवालये ।सर्वतीर्थफलं तस्य सम्भवेत्केशवार्चया ।सबाह्याभ्यन्तरं यस्तु मार्जयेदच्युतालयम् ।सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेत् ।पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमच्युतः ।पूजितस्तुष्टिमतुलां भक्त्यायात्येकचेतसाम् १६यः सदायतने विष्णोः कुरुते मार्जनक्रियाम् ।स पांसुभूमेर्देहाच्च सर्वपापं व्यपोहति १७यावन्त्यः पांसुकणिका मार्ज्यन्ते केशवालये ।दिनानि दिवि तावन्ति तिष्ठत्यस्तमलो नरः १८अहन्यहनि यत्पापं कुरुते द्विजसत्तम ।गोचर्ममात्रं सम्मार्ज्य हन्ति तत्केशवालये १९यश्चोपलेपनं कुर्याद्विष्णोरायतने नरः ।सोऽपि लोकं समासाद्य मोदते च शतक्रतोः २०मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ।उपलेपनकृद्याति विमानं मणिचित्रितम् २१उदकाभ्युक्षणं विष्णोर्यः करोति तथा गृहे ।सोऽपि गच्छति यत्रास्ते भगवान्यादसां पतिः २२पुष्पप्रकरमत्यर्थं सुगन्धं केशवालये ।उपलिप्ते नरो दत्त्वा न दुर्गतिमवाप्नुयात् २३विमानमतिविद्योति सर्वरत्नमयं दिवि ।समाप्नोति नरो दत्त्वा दीपकं केशवालये २४यस्तु संवत्सरं पूर्णं तिलपात्रप्रदो नरः ।ध्वजं तु विष्णवे दद्यात्सममेतत्फलं द्विज २५विधुन्वन्हन्ति वातेन दातुरज्ञानतः कृतम् ।पापं केतुर्गृहे विष्णोर्दिवारात्रमसंशयम् २६गीतवाद्यादिभिर्देवं य उपास्ते जनार्दनम् ।गान्धर्वैर्गीतनृत्यैः स विमानस्थो निषेव्यते २७जातिस्मरत्वं मेधां च तथैवोपरमे स्मृतिम् ।प्राप्नोति विष्ण्वायतने पुण्याख्यानकथाकरः २८उपोषितः पूजितो वा दृष्टो वा नमितोऽपि वा ।प्रदम्भ हरते पापं को न सेवेद्धरिं ततः ।वेदवादक्रियायज्ञस्नानतीर्थफलं परम् ।अष्टाङ्गप्रणिपातेन प्रणिपत्य हरिं लभेत् ।प्रगम्य हृदा शिरसा पादपद्मे महीतले ।निष्कल्मषो भवेत्सद्यो न नाटी पादपांसुना ।एकस्य कृष्णस्य क्राजतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।दशाश्वमेधैः पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ।एवं देवेश्वरो भक्त्या येन विष्णुरुपासितः ।स प्राप्नोति गतिं श्लाघ्यां यां यामिच्छति चेतसा २९देवत्वं मनुजैःकैश्चिद्गन्धर्वत्वं तथापरैः ।विद्याधरत्वमपरैराराध्याप्तं जनार्दनम् ३०शक्रः क्रतुशतेनेशमाराध्य गरुडध्वजम् ।देवेन्द्रत्वं गतस्तस्मान्नान्यः पूज्यतमः क्वचित् ३१देवेभ्योऽपि हि पूज्यस्तु स्वगुरुर्ब्रह्मचारिणः ।तस्यापि यज्ञपुरुषो विष्णुः पूज्यो द्विजोत्तम ३२स्त्रियश्च भर्तारमृते पूज्यमन्यन्न दैवतम् ।भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः ३३वैखानसानामाराध्यस्तपोभिर्मधुसूदनः ।ध्येयः परिव्राजकानां वासुदेवो महात्मनाम् ३४एवं सर्वाश्रमाणां हि वासुदेवः परायणम् ।सर्वेषां चैव वर्णानां तमाराध्याप्नुयाद्गतिम् ३५शृणुष्व गदतः काम्यामुपवासांस्तथापरान् ।तत्तमाश्रित्य यान्कामान्कुर्वीतेप्सितमात्मनः ३६-———————-एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः ।जपेत्कृष्णेति देवस्य नाम भक्त्या पुनःपुनः ३७देवार्चने चाष्टशतं कृत्वैतत्तु जपेच्छुचिः ।प्रातः प्रस्थानकाले च उत्थाने स्खलिते क्षुते ३८पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः ।नालपेत तथा कृष्णमर्चयेच्छ्रद्धयान्वितः ।इदं चोदाहरेत्कृष्णे मनः सन्धाय तत्परः ३९कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव ।संसारान्तर्निमग्नानां प्रसीद मधुसूदन ४०एवं प्रसाद्योपावासं कृत्वा नियतमानसः ।पूर्वाह्न एव चान्येद्युर्गव्यं सम्प्रास्य वै सकृत् ।स्नातोऽर्चयित्वा कृष्णेति पुनर्नाम प्रकीर्तयेत् ४१वारिधारात्रयं चैव विक्षिपेद्देवपादयोः ।चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे तु पूजयेत् ४२मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः ।उत्क्रान्तिकाले कृष्णस्य स्मरणं च तथाप्नुते ४३आषाढे श्रावणे चैव मासे भाद्रपदे तथा ।तथैवाश्वयुजे देवमनेन विधिना नरः ४४उपोष्य सम्पूज्य तथा केशवेति च कीर्तयेत् ।गोमूत्रप्राशनात्पूर्वं स्वर्गलोकगतिं व्रजेत् ४५आराधितस्य जगतामीश्वरस्याव्यायात्मनः ।उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात् ४६क्षीरस्य प्राशनं यस्तु विधिं चेमं यथोदितम् ।कार्त्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् ४७तेनैव विधिना ब्रह्मन्विष्णोर्नाम प्रकीर्तयेत् ।स याति विष्णुसालोक्यं विष्णुं स्मरति च क्षये ४८प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथेच्छया ।चातुर्मास्ये च सम्पूर्णे पुण्यं श्रवणकीर्तनम् ४९कथां वा वासुदेवस्य तद्गीतीर्वापि कारयेत् ।एवमेतां गतिं श्रेष्ठां देवनामानुकीर्तनात् ५०कथितं पारणं यत्ते कार्ष्णं मासचतुष्टयम् ।आधिपत्यं तथा भोगांस्तेन प्राप्नोति मानुषान् ५१द्वितीयेन तथा भोगानैन्द्रान्प्राप्नोति मानवः ।विष्णोर्लोकं तृतीयेन पारणेन तथाप्नुयात् ५२एवमेतत्समाख्यातं गतिप्रापकमुत्तमम् ।विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् ५३सुगतिद्वादशीमेतां श्रद्दधानस्तु यो नरः ।उपोष्य च तथा नारी प्राप्नोति त्रिविधां गतिम् ५४एषा धन्या पापहरा तिथिर्नित्यमुपासिता ।आराधनाय शिष्टैषा देवदेवस्य चक्रिणः ५५इति विष्णुधर्मेषु सुगतिद्वादशी । N/A References : N/A Last Updated : February 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP