संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ हृल्लासलक्षणम् ॥

॥ अथ हृल्लासलक्षणम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ हृल्लासलक्षणम्‍ ॥
हृल्लासो हेमाद्रौ ज्वरादिरोगोद्देश: ॥
ज्वरातिसारौ ग्रहणी ह्यर्शो जीर्णविषूचिका: । सालसा च विलम्बी च कृमिरुक्‍पाण्डुकामला: ॥१॥
हलीमकं रक्तपित्तं राजयक्ष्मा क्षतक्षय: । कासो हिक्का तथा श्वास: स्वरभेदस्त्वरोचक: ॥२॥
छर्दिस्तृष्णा च मूर्छा च तथा पानात्ययादय: । दाहाख्यश्च तथोन्मादो ह्यपस्मारोऽनिलामय: ॥३॥
वातरक्तमुरुस्तम्भ आमवातोऽथ शूलरुक्‍ । पक्तिजं शूलमानह उदावर्तोऽथ गुल्मरुक्‍ ॥४॥
हृद्रोगो मूत्रकृच्छ्रुं च मूत्राघातस्तथाश्मरी । प्रमेहो मधुमेहश्च पिटिकाश्च प्रमेहजा: ॥५॥
मेदोदोषादरं शोथो वृद्धिश्च गलगण्डक: । गण्डमालापचीग्रन्थिरर्बुदं श्लीपदं तथा ॥६॥
विद्रधिर्व्रणशोधश्च द्वौ व्रणौ भग्ननाडिकौ । भगन्दरोपदंशौ च शूकदोषस्त्वगामय: ॥७॥
शीतपित्तमुदर्दश्च स्फोटकश्चाम्लपित्तकम्‍ । विसर्पश्च सविस्फोटस्तथैव च मसूरिका ॥८॥
क्षुद्रास्यकर्णनासाक्षिशिर:स्त्रीबालकामया: । विषं चेत्येवमुद्देश: सड्गहेऽस्मिन्प्रकीर्तित: ॥९॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP