संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथावशिष्टानां प्रतीकार: ॥

॥ अथावशिष्टानां प्रतीकार: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथावशिष्टानां प्रतीकार: ॥
हनुग्रहे हनुस्तम्भे मन्यास्तम्भेऽर्दिते पिबेत्‍ । दशमूल्यम्भसा कृष्णा अश्वत्थस्वरसेन वा ॥१॥
बाह्यायामान्तरायामपार्श्वशूलकटिग्रहान्‍ । खल्लीदण्डापतानौ च स्नेहस्वेदपुरैर्जयेत्‍ ॥२॥
वामनत्वाड्गसड्कोचभड्गभेदग्रहव्यथा: । मर्दनैर्बस्तिभि: क्वाथै: स्वेदनैश्च भिषग्‍ जयेत्‍ ॥३॥
अपतानव्रणायामौ स्नेहैर्व्रणचिकित्सितै: । अड्गरौक्ष्यस्तम्भकम्पकार्श्यं कपिशतोदने ॥४॥
दौर्बल्ये स्फुरणे भ्रंशे स्नेहैर्मर्दनमिष्यते । शुक्रकार्श्ये शुक्रनाशे शुक्रस्यातिप्रवर्तने ॥५॥
विड्ग्रहे बद्धविट्‍के च स्नेहपानं हितं मतम्‍ । प्रलापे भीरुतापे च प्रसुप्तौ चित्तवैकृते ॥६॥
स्वेदनाशे बलक्षैण्ये कौशिक: सघृतो हित: । शब्दाज्ञतामये चापि लेह: कल्याणको हित: ॥७॥
शीततां रोमहर्षं च शिरापूरणमेव च । निरुहबस्तिनाथाड्गकाठिन्यं स्नेहगाहनात्‍ ॥९॥
शिरोग्रहे तु कर्तव्या शिरोगतमरुक्रिया । रक्तावसेचनं कुर्यादभीक्ष्णं वातकण्टके । पिबेदैरण्डलैलं वा दहेत्सूचिभिरेव च ॥१०॥
इत्यशीतिवातजरोगाणां संक्षेपेण पृथक्‍ पृथक्‍ चिकित्सा ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP