संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पुराणघृतम्‌ ॥

॥ अथ पुराणघृतम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


सर्पिः पुराणं विज्ञेयं दशवर्षं स्थित्तं तु यत्‌ ।
सर्पिः पुरातनं श्रेष्ठं त्रिदोषतिमिरापहम्‌ ॥१॥
मूर्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम्‌ ।
दशसंवत्सरादूर्ध्वमाज्यमुक्तं रसायनम्‌ ॥२॥
शतवर्षस्थितं यत्तु कुम्भसर्पिस्तदुच्यते ।
रक्षो कुम्भसर्पिः स्यातऽऽ परतस्तु महाघृतम्‌ ॥३॥
पेयं महाघृतं भूतैः सर्वतोऽपि गुणाधिकम्‌ ।
यथा यथा जरां याति गुणवत्स्यात्तथा तथा ॥४॥
भक्षणात्‌ कासरोगघ्नमञ्जनान्नेत्ररोगजित्‌ ।
शिरोऽभ्यङ्गादूर्ध्वजत्रुरोगघ्नं तत्पुरातनम्‌ ॥५॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP