संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ योगरत्नाकरः ॥

॥ अथ योगरत्नाकरः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


श्रीगणेशाय नमः ॥
श्रीनृसिंहाय नमः ॥
शिवं हरिं विधातारं तत्पत्नीं तत्सुतान्गुरून्‌ । नत्वा समस्तप्रत्यूहशान्तये मङ्गलाय च ॥१॥
अन्नदो जलदश्चैव आतुरस्य चिकित्सकः । त्रयस्ते स्वर्गमायान्ति विना यज्ञेन भारत ॥२॥
रोगपङ्कार्णवे मग्नं यः समुद्धरते नरम्‌ । कस्तेन न कृतो धर्मः कां च पूजां न सोऽहर्ति ॥३॥
वैद्यः पुरोहितो मन्त्री दैवज्ञश्च चतुर्थकः । द्रष्टव्याः प्रातरेवैते नित्यं श्रेयोविवृद्धये ॥४॥
गतश्रीर्गनकान्द्वेष्टि गतायुश्च चिकित्सकान्‌ । गतश्रीश्च गतायुश्च ब्राह्मणान्द्वेष्टि भारत ॥५॥
ज्यौतिषं व्यवहारं च प्रायश्चित्तं चिकित्सतम्‌ । विना शास्त्रेण यो ब्रूयात्तमाहुर्ब्रह्यघातकम्‌ ॥६॥
क्कचिद्धर्मः क्कचिन्मैत्री क्कचिदर्थः क्कचिद्यशः कर्माभ्यासः क्कचिच्चेति चिकित्सा नास्ति निष्फला ॥७॥
जन्मान्तरकृतं पापं व्याधिरूपेण बाधते । तच्छान्तिरौषधैर्दानैर्जपहोमसुरार्चनैः ॥८॥
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः । एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥९॥
अग्निमूलं बलं पुंसां रेतोमूलं च जीवितम्‌ । तस्मात्सर्वप्रयत्नेन वह्निं शुक्रं च रक्षयेत्‌ ॥१०॥
जातमात्रश्चिकित्स्यस्तुनोपेक्ष्योऽल्पतयागदः ।वह्निशस्त्रविषैस्तुल्यःस्वल्पोऽपिविकरोत्यसौ ॥११॥
निवृत्तोऽपि पुनर्व्याधिः स्वल्पेनायाति हेतुना । दोषैर्मार्गीकृते देहे शेषः सूक्ष्म इवानलः ॥१२॥
यावत्कण्ठगतप्रानस्तावत्कार्या प्रतिक्रिया । कदाचिद्दैवयोगेन दृष्टारिष्टोऽपि जीवति ॥१३॥
यथाशास्त्रं तु निर्णीतो यथाव्याधि चिकित्सितः । न शमं याति यो व्याधिः स ज्ञेयः कर्मजो बुधैः ॥१४॥
पुण्यैश्च भेषजैः शान्तास्ते ज्ञेयाः कर्मदोषजाः । विज्ञेया दोषजास्त्वन्ये केवला वाथ सङ्कराः ॥१५॥
औषधं मङ्गलं मन्त्रमन्याश्च विविधाः क्रियाः । यस्यायुस्तत्र सिद्ध्यन्ति न सिद्ध्यन्ति गतायुषि ॥१६॥
विकारनामाकुशलो न जिर्‍हीयात्कदाच न । न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः ॥१७॥
नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः । अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत्‌ ॥१८॥
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्‌ । ततः कर्म भिषक्‌ कुर्याज्ज्ञानपूर्वं विचक्षणः ॥१९॥
मूर्खश्चोरस्तथा म्लेच्छो ब्रह्मघ्नो  मत्स्यघातकी । द्वेष्टा च ग्रामकूटश्च बन्धकी मांसविक्रयी ॥२०॥
एतांस्तु व्याधिना ग्रस्तान्न कुर्याच्छमनक्रियाम्‌ । तेषां जीवाप्तिसन्दाता वैद्यो भवति पापभाक्‌ ॥२१॥
दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्‌ । रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः ॥२२॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP