संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रूपपरीक्षा ॥

॥ अथ रूपपरीक्षा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


विभुत्वादाशुकारित्वाब्दलित्वादन्यकोपनात्‌ । स्वातन्त्र्याब्दहुरोगत्वाद्दोषाणां प्रवलोऽनिलः ॥१॥
प्रायस्तएव पवनाध्युषिता मनुष्या दोषात्मकाः स्फुटितधूसरकेशगात्राः ।
शीतद्विषश्चलधृतिःस्मृतिबुद्धिचेष्टासौहार्ददृष्टिगतयोऽपि बहुप्रलापाः ॥२॥
पित्तं वन्हिर्वह्निजं वा यदस्मात्पित्तोद्रिक्तस्तीव्रतृष्णाबुभुक्षः । गौरोष्णाङ्गस्ताम्रहस्ताङ्घ्रिवक्रः शूरो मानी पिङ्गकेशोऽल्परोमा ॥३॥
श्लेष्मा सोमः श्लेष्मलस्तेन सौम्यो गूढस्निग्धश्लिष्टसंध्यस्थिमांसः । क्षुतृट्शोकक्लेदघर्मैरतप्तो बुद्ध्या युक्तं सात्विकः सत्यसन्ध ॥४॥
इति रूपपरीक्षा ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP