संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सोमनाथताम्रम्‌ ॥

॥ अथ सोमनाथताम्रम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


शुल्बतुल्येन सूतेन बलिना तत्समेन च ।
तदर्धाशेन तालेन शिलया च तदर्धया ॥१॥
विधाय कज्जलीं श्लक्ष्णां सूक्ष्मकज्जलसंनिभाम्‌ ।
कज्जल्या ताम्रपत्राणि पर्यायेण विलेपयेत्‌ ॥२॥
यन्त्राध्यायविनिर्दिष्टवालुकायन्त्रगं पचेत्‌ ।
प्रपचेद्युगयामं तु स्वाङ्गशीतं समुद्धरेत्‌ ॥३॥
तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितंतल्लीढं परिणामशूलमुदरं शूलं च पाण्डुज्वरम्‌ ।
गुल्मप्लीहक्षयाग्निसादसदनं श्वासं च कासं तथा दुष्टां च ग्रहणीं हरेद
ध्रुवमिदं तत्सोमनाथाभिधम्‌ ॥४॥
इति सोमनाथताम्रम्‌ ॥
अन्यच्च ।
योगरत्नसमुच्चये पाठान्तरम्‌ ।
नेपालं समरुद्रबीजमसुरस्तुल्यस्तयोस्तालकस्तस्यार्धार्धशिलां विधाय विधिना श्लक्ष्णां परा कज्जलीम्‌ ।
लिप्त्वा ताम्रदलान्यधोर्ध्वमनया भाण्डे पचेद्यामकं यन्त्राध्यायसमुक्तशास्त्रविधिना तत्स्वाङ्गशीतं हरेत्‌ ॥१॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP