संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ गुणाः ॥

॥ अथ गुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


कान्तं तु शीतं मधुरं कषायमायुःकक्रं धातुविवर्धनं च ।
हन्यात्रिदोषव्रणमेहकुष्ठप्लीहोदरग्रन्थिविषक्रिमींश्च ॥१॥
पाण्डुं पीड्यति क्षयं क्षपयति क्षैण्यं क्षिणोति क्षणात्कासं नाशयति भ्रमं शमयति श्लेष्मामयान्‌ खादति ।
अस्रं गुल्मसशूलपीनसवमिश्वासप्रमेहारुचीराशून्मूलयति प्रकम्यनहरं लोहं हिमं चाक्षुषम्‌ ॥२॥
शुद्धं पित्तकफानिलमोहं हन्ति हितं शिवशक्त्या लोहम्‌ ।
पाण्डुगदामयशूलविनाशि प्रोक्तमशुद्धं रोगविकासि ॥३॥
ये गुणा मृतरूप्यस्य ते गुणाः कान्तभस्मनः ।
कान्ताभावे प्रदातव्यं रूप्यमित्याह भैरवः ॥४॥
कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा ।
मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवकः ॥५॥
मत्त्स्यजीवकवार्ताकमाषं च कारवेल्लकम्‌ ।
व्यायामं तीक्ष्णकं सद्यस्त्तैलाम्लं दूरतस्त्यजेत्‌ ॥६॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP