संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ योनिरोगाधिकार: ॥

॥ अथ योनिरोगाधिकार: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ योनिरोगाधिकार: ॥
तत्र योनिव्यापद्रोगाणां निदानान्याह ॥ विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसड्गहे । मिथ्याचारेण ता: स्त्रीणां प्रदुष्टेनार्तवेन च ॥ जायन्ते बीजदोषाच्च दैवाद्वा शृणु ता: पृथक्‍ ॥१॥
अथ रोगिणीनां योनीनां नामान्याह ॥ उदावर्ता तथा वन्ध्या विप्लुता च परिप्लुता । वातला योनिरुग्ज्ञेया वातदोषेण पञ्चधा । पञ्चधा पित्तदोषेण तत्रादौ लोहितक्षया । प्रस्त्रंसिनी वामिनी च पुत्रघ्नी पित्तला तथा ॥२॥
अल्पानन्दा कर्णिनी च चरणानन्दपूर्विका । अतिपूर्वापि सा ज्ञेया श्लेष्मला च कफादिमा: ॥३॥
षण्ढयण्डिना च महती सूचीवक्रा त्रिदोषिणी । पञ्चैता योनय: प्रोक्ता: सर्वदोषप्रकोपत: ॥४॥
अथ तासां लक्षणमाह ॥ सा फेनिलमुदावर्ता रज: कृच्छ्रेण मुञ्चति । सा तु योनि: कफेनैवमार्तवं च विमुञ्चति ॥१॥
वन्ध्या नष्टार्तवा ज्ञेया विप्लुता नित्यवेदना । परिप्लुतायां भवति ग्राम्यधर्मेण रुग्‍ भृशम्‍ ॥२॥
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता । चतसृष्वपि चाद्यासु भवन्त्यानिलवेदना: ॥३॥
सदाहं क्षीयते रक्तं यस्यां सा लोहितक्षया । प्रस्त्रंसिनी स्त्रंसते च क्षोभिता दुष्प्रजायिनी ॥४॥
सवातमुद्गिरेद्वीजं वामिनी रजसा युतम्‍ । स्थितं स्थितं हन्ति गर्भ पुत्रघ्नी रक्तसंक्षयात्‍ ॥५॥
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता । चतसृष्वपि चाद्यासु पित्तलिड्गोच्छ्रयो भवेत्‍ ॥६॥
अल्पानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति । कर्णिन्यां योनौ श्लेष्मासृग्भ्यां प्रजायते ॥७॥
मैथुनाचरणात्पूर्वं पुरुषादतिरिच्यते । बहुशश्चातिचरणा तयोर्बीजं न विन्दति ॥८॥
श्लेष्मला पिच्छिला योनि: कण्डूग्रस्तातिशीतला । चतसृष्वपि चाद्यासु श्लेष्मलिड्गोच्छ्रयो भवेत्‍ ॥९॥
अनार्तवास्तनी खण्डी खरस्पर्शी च मैथुने । अतिकायगृहीतायास्तरूण्या अण्डिनी भवेत्‍ ॥१०॥
विवृता तु महायोनि: सूचीवक्रातिसंवृता । सर्वलिड्गसमुत्थाना सर्वदोषप्रकोपजा ॥११॥
चतसृश्वपि चाद्यासु सर्वलिड्गनिदर्शनम्‍ । पञ्चासाध्या भवन्तीह योनय: सर्वदोषजा: ॥१२॥
इति योनिव्यापद्रोगनिदानम्‍ ॥ अथ योनिकन्दस्य निदानमाह ॥ दिवा स्वप्नादतिकोधाद्‍ व्यायामादतिमैथुनात्‍ । क्षताच्च नखदन्ताद्द्यैर्वाताद्या: कुपिता मला: ॥१॥
पूयशोणितसड्गाशं लकुचाकृतिसन्निभम्‍ । जनयन्ति यदा योनि नाम्ना कन्दं तु योनित: ॥२॥
रुक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत्‍ । दाहरागज्वरयुतं विद्यात्पित्तात्मकं तु तम्‍ ॥३॥
नीलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम्‍ । सर्वलिड्गसमायुक्तं सन्निपातात्मकं वदेत्‍ ॥४॥
इति योनिकन्दनिदानम्‍ ॥ अथ योनिव्यापद्रोगाणां चिकित्सा ॥ तत्र वन्ध्या चिकित्सा ॥ आर्तवादर्शने नारी मत्स्यान्सेवेत नित्यश: । काञ्जिकं च तिलान्माषानुदश्विच्च तथा दधि ॥१॥
पीतं ज्योतिष्मतीपत्रराजिकोग्रासनं त्र्यहम्‍ । शीतेन पयसा पिष्टं कुसुमं जनयेद्‍ ध्रुवम्‍ ॥२॥
सगुड: श्यामतिलानां क्वाथ: पीत: सुशीतलो नार्या । जनयति कुसुमं सहसा गतमपि सुचिरं निरातड्कम्‍ ॥३॥
तिलशेलुकारवीणां क्वाथं पीत्वा नष्टरजा महिला । सगुडं शिशिरं त्रिदिनाज्जनयति कुसुमं न संदेह: ॥४॥
इक्ष्वाकुबीजदन्तीचपलागुडमदनकिण्वयावशूकै: । सस्नुकक्षीरैर्वर्तिर्योनिगता कुसुमसंजननी ॥५॥
इति वन्द्याचिकित्सा ॥ अथ वन्ध्याया: गर्भप्रदभेषजमाह ॥ बलासिता सातिबला मधूकं वटस्य शृड्गं गजकेशरं च । एतन्मधुक्षीरघृतैर्निपीय वन्ध्या सुपुत्रं नियतं प्रसूते ॥१॥
अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम्‍ । ऋतुस्नाताड्गना प्रात: पीत्वा गर्भ दधाति हि ॥२॥
पुष्पोद्‍धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया । पिष्टं पीत्वा ऋतुस्नाता गर्भं धत्ते न संशय: ॥३॥
कुरण्टमूलं धातक्या: कुसुमानि वटाड्कुरा: । नीलोत्पलं पयोयुक्तमेतद्गर्भप्रदं ध्रुवम्‍ ॥४॥
याबला पिबति पार्श्वपिप्पलं जीरकेण सहितं हिताशना । श्वेतया विशिखपुड्खया युतं सा सुतं जनयतीह नान्यथा ॥५॥
पत्रमेकं पलाशस्य पिष्ट्वा दुग्धेन गर्भिणी । पीत्वा पुत्रमवाप्नोति वीर्यवन्तं न संशय: ॥६॥
शूकरशिम्बीमूलं मध्यं वा दधिफलस्य सपयस्कम्‍ पीत्वाथोभयलिड्गीबीजं कन्यां न सूते स्त्री ॥७॥
क्षीरेण श्वेतबृहतीमूलं नासापुटे पिबेत्‍ । पुत्रार्थं दक्षिणानासा वामया कन्यकार्थिनी ॥८॥
लक्ष्मणा क्षीरसंयुक्ता नस्ये पाने प्रदाप्यताम्‍ । तेन सापि लभेद्गर्भं पुत्रो विद्याधरो भवेत्‍ ॥९॥
वामनाट्या भवेत्कन्या पुत्रो दक्षिणया भवेत्‍ । रक्तेऽधिके भवेत्कन्या पुत्र: शुक्रेऽधिके भवेत्‍ ॥१०॥
शुक्रशोणितमिश्रेण भवेद्योऽसौ नपुंसक: । एरण्डस्य तु बीजानि मातुलुड्गस्य चैव हि । सर्पिषा परिपिष्टानि पिबेद्गर्भप्रदानि च ॥११॥
इति चक्रदत्तात्‍ ॥ लड्कारं लक्ष्मणायाश्च मूलं कण्ठे बद्धं सर्पिषा नस्ययोगात्‍ । पीत्वा सूते पुत्रत्यन्तवीर्यं पश्चादन्यनप्यमन्दाड्गयष्टि: ॥१२॥
तिलतैलदुग्धफाणितदधिघृतमेकत्र पाणिना मथितम्‍ । पीतं सपिप्पलीकं जनयति पुत्रं परं महिला ॥१३॥
एकस्य मातुलिड्गस्य बीजानि सकलान्यपि । ऋत्वन्ते दुग्धपिष्टानि पीत्वाप्रोत्यबला सुतम्‍ ॥१४॥
अथ फलघृतम्‍ ॥ मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला । मेदे पयस्या काकोली मूलं चैवाश्मगन्धजम्‍ ॥१॥
अजमोदा हरिद्रे द्वे प्रियड्गु: कटुरोहिणी । उत्पलं कुमुदं लाक्षा काकोल्यौ चन्दनद्वयम्‍ ॥२॥
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत्‍ । शतावरीरसं क्षीरं घृताद्देयं चतुर्गुणम्‍ ॥३॥
सर्पिरेतन्नर: पीत्वा स्त्रीषु नित्यं वृषायते । पुत्राञ्जनयते वीरान्मेधाढ्यान्प्रियदर्शनात्‍ ॥४॥
या चैवारिथगर्भा स्यात्पुत्रं वा जनयेन्मृतम्‍ । अल्पायुषं वा जनयेद्या च कन्यां प्रसूयते ॥५॥
योनिरोगे रजोदोषे परिस्त्रावे च शस्यते । प्रजावर्धनमायुष्यं सर्वग्रहनिवारणम्‍ ॥६॥
नाम्ना फलघृतं ह्येतदश्विभ्यां परिकीर्तितम्‍ । अनक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सका: ॥७॥
जीवद्वत्सैकवर्णाया घृतं त्वत्र प्रयुज्यते । आरण्यगोमयेनेह वह्निज्वाला च दीयते ॥८॥
इति वन्ध्याचिकित्सा ॥ अथ गर्भनिवारणम्‍ ॥ पिप्पलिविडड्गटाड्कसमचूर्णं या पिबेत्पयसा । ऋतुसमये न हि तस्या गर्भ: संजायते क्वापि ॥१॥
आरनालपरिपेषितं त्र्यहं या जपाकुसुममत्ति पुष्पिणी । सत्पुराणगुडमुष्टिसेविनी सा दधाति न हि गर्भमड्गना ॥२॥
तैलाविलं सैन्धवखण्डमादौ निधाय रण्डा निजयोनिमध्ये । नरेण सार्धं रतिमाततोनि या सा न गर्भं लभते कदाचित्‍ ॥३॥
तण्डुलीयकमूलानि पिष्ट्वा तण्डुलवारिणा । ऋत्वन्ते तु त्र्यहं पीत्वा वन्ध्या: कुर्वन्ति योषित: ॥४॥
धूपिते योनिरन्ध्रे तु निम्बकाष्ठैश्च युक्तित: । ऋत्वन्ते रमते या स्त्री न सा गर्भमवाप्नुयात्‍ ॥५॥
तालीसगैरिके पीते बिडालपदमात्रके । शीताम्बुना चतुर्थेऽह्नि वन्ध्या नारी प्रजायते ॥६॥
ग्राह्यं कृष्णचतुर्दश्यां धत्तूरस्य च मूलकम्‍ । कटिं बद्‍ध्वा रमेत्कान्तं न गर्भ: संभवेत्क्वचित्‍ ॥७॥
मुक्ते न लभते गर्भं पुरा नागार्जुनोदितम्‍ । तन्मूलचूर्णं योनिस्थं न गर्भ: संभवेत्क्वचित्‍ ॥८॥
इति गर्भनिवारणम्‍ ॥ अथ गर्भपातनविधि: ॥ गृञ्जनबीजं टड्कत्रितयं तावच्च दाडिमीमूलम्‍ । तुवरीमीमूलम्‍ । तुवरीटड्कद्वितयं सिन्दूरं टड्कयुगुलं च ॥१॥
संमर्द्य खल्वमध्ये तोयेनैतन्निपीय गर्भवती । रण्डा योषिद्‍ गर्भं वेश्या वा पातयत्याशु ॥२॥
निर्गुण्डीद्रवसंपिष्टं चित्रमूलं मधुप्लुतम्‍ । कर्षं पीत्वा स्त्रवत्याशु गर्भं रण्डा कुलोद्भवम्‍ ॥३॥
काण्डमेरण्डपत्रस्य योनावष्टाड्गुलं क्षिपेत्‍ । चतुर्मासोद्भवो गर्भ: स्त्रवत्येव हि तत्क्षणात्‍ ॥४॥
देवालये तु यच्चूर्णं कर्षैकं तोयपेषितम्‍ । पिबेद्‍ गर्भवती नारी गर्भ: स्त्रवति तत्क्षणात्‍ ॥५॥
आलोड्य काञ्जिकैर्घोटीपुरीषं वस्त्रगालितम्‍ । संसीधूग्रासुरीतैलविषमागतगर्भनुत्‍ ॥६॥
इति गर्भपातनम्‍ ॥ अथावशिष्ठयोनिव्यापद्रोगाणां चिकित्सा ॥ तासु योनिषु चाद्यासु स्नेहादिक्रम इष्यते । वत्स्यभ्यड्गपरीषेकप्रलेपा: पिचुधारणम्‍ ॥१॥
नतवार्ताकिनीकुष्ठसैन्धवामरदारुभि: । तिलतैलं पचेन्नारी पिचुं तस्य विधारयेत्‍ । विप्लुतायां सदा योनौ व्यथा तेन प्रशाम्यति । वातलां कर्कशां स्तब्धामल्पस्पर्शो तथैव च ॥३॥
कुम्भीस्वेदैरुपचरेदन्तर्वेश्मनि संवृते । धारयेद्वा पिचुं योनौ तिलतैलस्य सा सदा ॥४॥
रास्त्राश्वगन्धावृषकैर्योनिशूलहरं पय: । गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम्‍ ॥५॥
बिल्वमार्कवजं बीजं कल्कं मद्येन पाययेत्‍ । तेन योनिगतं शूलमाशु शाम्यति योषिताम्‍ ॥६॥
उपकुञ्चिकां पिपलीं च मदिरालाभत: पिबेत्‍ । सौवर्चलेन संयुक्तं योनिशूलानिवारणम्‍ ॥७॥
पित्तलानां च योनीनां सेकाभ्यड्गपिचुक्रिया: । शीता: पित्तहरा: कार्या: स्नेहनार्थं घृतानि च ॥८॥
प्रस्त्रंसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत्‍ । विधाय वेसवारेण ततो बन्धं समाचरेत्‍ ॥९॥
अथ वेसवार: ॥ शुण्ठीमरीचकृष्णाभिर्धान्यकाजाजिदाडिमै: । पिप्पलीमूलसंयुक्तैर्वेसवार: स्मृतो बुधै: ॥१॥
धात्रीरसं सितायुक्तं योनिदाहे पिबेत्सदा । सूर्यक्रान्ताभवं मूलम्‍ पिबेद्वा तण्डुलाम्बुना ॥२॥
योन्यां तु पूयस्त्राविण्यां शोधनद्रव्यनिर्मितै: । सगोमूत्रै: सवलणै: पिण्डै: संपूरणं हितम्‍ ॥३॥
पिचवश्च घृताभ्यक्ताश्चन्दनाम्भ:समुत्थिता: । योनौ स्थाप्या: स्त्रिया दाहकृच्छ्रपाकप्रशान्तये ॥४॥
योन्यां बलासजुष्टायां सर्वं रुक्षोष्णमौषधम्‍ । तैलं साधु यवान्नं च पथ्यारिष्टं च योजयेत्‍ ॥५॥
गुडूचीत्रिफलादन्तीक्वथितोदकधारया । योनिं प्रक्षालयेत्तेन तत: कण्डू: प्रशाम्यति ॥६॥
मुद्गपुष्पं सखदिरं पथ्या जातीफलं तथा । वृकीपूगं च संचूर्ण्य वस्त्रपूतं क्षिपेद्भगे ॥७॥
योनिर्भवति संकीर्णा न स्त्रवेच्च जलं तत: । कपिकच्छूभवम्‍ मूलं क्वाथयेद्विधिना भवेत्‍ ॥८॥
योनि: सड्कीर्णतां याति क्वाथेनानेन धावनात्‍ । पिप्पल्या मरिचैर्माषै: शताह्वाकुष्ठसैन्धवै: ॥९॥
वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी । सुरामण्डोत्थितो धार्य: पिचुर्योनौ कफात्मनि ॥१०॥
कण्डूपैच्छिल्यसंस्त्रावशैथिल्यविनिवृत्तये । सुगन्धानां पदार्थानां कल्कचूर्णै: शृतै: कृत: ॥११॥
योनौ दौर्गन्ध्यशमन: पूयपैच्छिल्यभाजि च । सन्निपातसमुत्थानां कार्या योन्या यदा क्रिया: ॥११॥
साधारणा दशाड्घ्रीश्रीमदाक्वाथपिचुर्हित: । जीरकद्वितयं कृष्णा सुषवी सुरभिर्वचा ॥१३॥
वासकं सैन्धवश्चापि यवक्षारो यवानिका । एषां चूर्णं घृते किंचिद्‍ भृष्ट्वा खण्डेन मोदकम्‍ ॥१४॥
कृत्वा खादेद्यथावह्नि योनिरोगाद्विमुच्यते । मूषकक्वाथसंसिद्धतिलतैलकृत: पित्तु: ॥ नाशयेद्योनिरोगांस्तान्धृतो योनौ न संशय: ॥१५॥
अथ त्रिफलादिघृतम्‍ ॥ त्रिफलां द्वौ सहचरौ गुडूचीं सपुनर्नवाम्‍ । शुकनासं हरिद्रे द्वे रास्त्रामेदाशतावरी: ॥१॥
कल्कीकृत्य घृतप्रस्थं पचेत्क्षीरे चतुर्गुणे । तत्सिद्धं पाययेन्नारीं योनिरोगप्रशान्तये ॥२॥
इति योनिव्यापद्रोगचिकित्सा ॥ अथ योनिकन्दस्य चिकित्सा ॥ गैरिकाम्रास्थिजठररजन्यञ्जनकट्‍फला: । पूरयेद्योनिमेतेषां चूर्णै: क्षौद्रसमन्वितै: ॥१॥
त्रिफलाया: कषायेण सक्षौद्रेण च सेचयेत्‍ । प्रमदायोनिकन्देन व्याधिना परिमुच्यते ॥२॥
आखोर्मांसं सपदि बहुधा सूक्ष्मखण्डीकृतं तत्तैले पाच्यं द्रवति नियतं यावदेतेन सम्यक्‍ । तत्तैलाक्तं वसनमनिशं योनिभागे दधाना सत्यं व्रीडाजनकमबलायोनिकन्दं निहन्ति ॥३॥
इति योनिकन्दचिकित्सा ॥ इति योनिरोगाधिकार: ॥

N/A

References : N/A
Last Updated : March 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP