संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मारणम्‌ ॥

॥ अथ मारणम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


काञ्चने गलिते नागं षोडशांशेन निक्षिपेत्‌ ।
चूर्णियित्वा तथाम्लेन घृष्ट्वा कृत्वा च गोलकम्‌ ॥१॥
गोलकेन समं गन्धं दत्वा चैवाधरोत्तरम्‌ ।
शरावसम्पुटे धृत्वा पुटेद्विंशद्वनोत्पलैः ॥२॥
एवं सप्तपुटैर्हेम निरुद्धं भस्म जायते ।
स्वर्णपत्रसमं नागभस्म निम्बूविलेपितम्‌ ॥३॥
त्रिवारं वै गजपुटे सुवर्णं भस्मतां व्रजेत्‌ ।
पारावतमलैर्लेपादथवा कुकुटोद्भवैः ॥४॥
हेमपत्राणि लेपांश्च प्रदद्यादुत्तरोत्तरम्‌ ।
गन्धचूर्ण समं कृत्वा शरावयुगसंपुटे ॥५॥
प्रदद्यात्कुक्क्टपुटं पञ्चभिर्गोमयोपलैः ।
एवं न वपुटं दद्यादशमं च महापुटम्‌ ।
त्रिंशद्वनोपलैर्देयं जायते हेमभस्म तु ॥६॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP