संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मांसगुणाः ॥

॥ अथ मांसगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


मांसवर्गो द्विधा ज्ञेयो जाङ्गलानूपभेदतः ।
[ तत्र जाङ्गललक्षणं गुणाः ]
मांसवर्गेऽत्रजङ्घाला बिलस्थाश्च गुहाशयाः ॥१॥
तथा पर्णमृगा ज्ञेया विष्किरा प्रतुदा अपि ।
प्रहसा अथ च ग्राम्या अष्टौ जाङ्गलजातयः ॥२॥
[ हरिणैणकुरङ्गमृगादयः जङ्घालाः ।
गोधाशशभुजङ्गाख्वादयो बिलस्थाः ।
सिंहव्याघ्रवृकऋक्षादयो गुहाशयाः ।
वानरऋक्षमार्जारादयः पर्णमृगाः ।
वार्तिकलावतित्तिरविकिरकपिञ्जलादयो विष्किराः ।
हारितकपोतसारिकाखञ्जरीटपिकादयः प्रतुदाः ।
काकोलूकगृध्रशशचिल्लचाषादयः प्रहसाः । प्रच्छिद्यभक्षणात्‌ ] छागमेषवृषाश्वाद्याः ग्राम्याः प्रोक्ता महर्षिभिः ॥
इति अष्टौ जाङ्गलाः ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP