संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ निरुत्थानम्‌ ॥

॥ अथ निरुत्थानम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


सर्वमेतन्मृतं लोहं ध्मातव्यं मित्रपञ्चकैः ।
इत्येवं स्यान्निरुत्थानं सेव्यं वारितरं भवेत्‌ ॥१॥
रक्तिकाघृतं लाक्षया युतं क्षौद्रमिश्रितं टङ्कणान्वितम्‌ ।
ऊर्णया तथा ध्माततां गताः सप्त धातवो यान्ति जीवताम्‌ ॥२॥
गन्धकं चोत्थितं लोहं तुल्यं खल्वे विमर्दयेत्‌ ।
दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत्‌ ।
इत्येवं सर्वलोहानां कर्तव्यं तन्निरुउत्थितम्‌ ॥३॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP