संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सर्ववातरोगाणां सामान्यप्रतीकारानाह ॥

॥ अथ सर्ववातरोगाणां सामान्यप्रतीकारानाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ सर्ववातरोगाणां सामान्यप्रतीकारानाह ॥
अथ क्वाथा: । सहचरामरदारुसनागरं क्वथितमम्भसि तैलविमिश्रितम्‍ । पवनपीडितदेहगति: पिबन्द्रुतविलम्बितगो भवतिच्छया ॥१॥
इति योगतरड्गिण्या: सहचरादि: । अथ योगसारान्महारास्नादि: ॥ रास्नैरण्डामृतोग्रासहचरचविकारामसेनाब्दभार्गीदीप्यानन्तायवानीवृकिसुरकृमिजिच्छृड्गिशुण्ठीबलाभि: । मूर्वातिक्तासमड्गाद्विविषषटिवरापिप्पलीयावशूकै रक्तश्रीखण्डकारग्वधकटुकफलैर्वत्सवृश्चीवयुक्तै: ॥१॥
सर्वैरेतैर्दशाड्घ्रिप्रयुतसमलवै: साधितोऽष्टावशेष: क्वाथो रास्नादिरादौ महदुपपदवान्कौशिकाक्तो निहन्ति । सर्वाड्गैकाड्गवाताञ् श्वसनकसनहृत्स्वेदशैत्यादितन्द्रामूलं तूनीप्रतूनीगलगदनिखिलाड्गव्यथाकम्पखल्ली: ॥२॥
विश्वाचीश्लीपदामानिलनिखिइलमहासूतिकारोसुप्तिं जिह्वास्तम्भापतानं स्फुटनविमथनक्लीबताक्षेपकौब्जम्‍ । शोफाटोपापतन्त्र्यार्दितखुडनहनुगृध्रसीपादशूलं वायुश्लेष्मोस्थरोगानपि गिरितनयावल्लभेनोपदिष्ट: ॥३॥
इति महारास्नादि: ॥ अथ शार्ड्गुधरान्महारास्नादि: ॥ रास्ना द्विगुणभागा स्यादेकभागास्तथापरे । धन्वयासबलैरण्डदेवदारुदारुश्च शतपुष्पा च गोक्षुर: ॥२॥
अश्वगन्धा प्रतिविषा कृतमाल: शतावरी । कृष्णा सहचरश्वैव धान्यकं बृहतीद्वयम्‍ ॥३॥
एभि: कृतं पिबेत्क्वाथं शुण्ठीचूर्णेन संयुतम्‍ । कृष्णाचूर्णेन वा योगराजगुगुल्लुनाथवा ॥४॥
आजमोदादिना वापि तैलेनैरण्डजेन वा । सर्वाड्गकम्पेकुब्जत्वे पक्षाघाते‍ऽवबाहुके ॥५॥
गृध्रस्यामामवाते च श्लीपदे चापतानके । अन्नवृद्धौ तथाध्माने जड्घाजानुगदेऽर्दिते ॥६॥
शुक्रामये मेण्ढ्रवाते वन्ध्यायोन्यामयेषु च । महारास्त्रादिराख्यातो ब्रह्मणा गर्भधारणे ॥७॥
अथ महाबलाक्वाथ: । महाबलामूलमहौषधाभ्यां क्वाथं पिबेन्मिश्रितपिप्पलीकम्‍ । शीतं सकम्पं परिदाहयुक्तं विनाशयेद्वित्रिदिनप्रयुक्त: ॥१॥ इति योगसागरात्‍ ॥
अथ योगरत्नावलित: पञ्चमूलादि: । पञ्चमूलीकृत: क्वाथो दशमूलीकृतोऽथवा । रुक्ष: स्वेदस्तथा नस्यं मन्यास्तम्भे प्रशस्यते ॥१॥
अथैरण्डादि: । एरण्डबिल्वं बृहतीद्वयं च सौवर्चलं व्योषसुरामठं च । समातुलुड्गीलवणोत्तमं च क्वाथो धनुर्वांतहर: प्रशस्त: ॥१॥
अथ वाजिगन्धादि: । वाजिगन्धाबलास्त्रिस्तो दशमूलीमहौषधम्‍ । गृध्रनख्यौ च रास्ना च मणो मारुतनाशन: ॥१॥
अथ समीरदावानल: । भल्लातकानां शकलानि कृत्वा त्रिकोलमानं परिगृह्य वैद्य: । चतुष्पलं तोयसमन्वितो‍ऽयं क्वाथश्चतुर्थांशक एष सम्यक्‍ ॥१॥
सिताघृतं गोपयमिश्रितेन कोलं पलार्धं पलमेकयुक्तम्‍ । क्रमेण पीत: खलु हन्ति वातान्‍ समीरदावानलनामधेय: ॥२॥
इति क्वाथा:

॥ अथ चूर्णानि ॥
रास्त्राकुष्ठनतदुषट्‍कटुशटीपाठावचासारिवाभूनिम्बात्रिफलाबलादशजटानिर्गुण्डिकैरण्डकम्‍ । हिड्ग्वाम्लार्द्रकबस्तगन्धकबरीक्षारौ पटूनां त्रयं चूर्णं पुष्करतैलयुक्तमखिलान्वातानशीतिं जयेत्‍ ॥१॥
अथाभादिचूर्णं वृन्दात्‍ ॥ आभा रास्त्रा गुडूची च शतावर्यो महौषधम्‍ । शतपुष्पाश्वगन्धा च हपुषा वृद्धदारक: ॥१॥
यवानी चाजमोदा च समभागानि कारयेत्‍ । सूक्ष्मचूर्णमिदं कृत्वा बिडालपदकं पिबेत्‍ ॥२॥
मद्यैर्मांसरसैर्यूषैस्तक्रैरुष्णोदकेन वा । सर्पिषा वापि लेह्यं तु दधिमण्डेन वा पुन: ॥३॥
अस्थिसन्धिगतं वायुं स्नायुमज्जाश्रितं च यम्‍ । कटिग्रहं गृध्रसीं च मन्यास्तम्भं हनुग्रहम्‍ ॥४॥
ये च कोष्ठगता रोगास्तांश्च सर्वान्प्रणाशयेत्‍ । आभाद्यो नाम चूर्णोऽयं सर्वव्याधिनिबर्हण: ॥५॥
इत्याभाद्यं चूर्णम्‍ ॥ इति चूर्णानि ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP