संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ कलिङ्गपरिभाषा ॥

॥ अथ कलिङ्गपरिभाषा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो बलम्‌ ।
प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत्‌ ॥१॥
यतो मन्दाग्नयो ह्रत्वा हीनसत्वा नराः कलौ ।
अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसंमता ॥२॥
यवो द्वादशभिर्गौरसर्षपैः प्रोच्यते बुधैः ।
यवद्वयेन गुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते ॥३॥
माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत्क्कचित्‌ ।
स्याच्चतुर्माषकैः शाणः स निष्कष्टङ्कः उच्यते ॥४॥
गद्याणो माषकैः षड्भिः कर्षः स्याद्दशमाषकः ।
चतुःकर्षै पलं प्रोक्तं दशशाणमितं बुधैः ॥५॥
चतुःपलैश्च कुडवः प्रस्थाद्याः पूर्ववन्मताः ॥
इति कलिङ्गपरिभाषा ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP