संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ आयुर्विचारमाह ॥

॥ अथ आयुर्विचारमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


भिषगादौ परीक्षेत रुग्णस्यायुः प्रयत्नतः ।
सत्यायुषि तु विस्तीर्णे चिकित्सा सफला भवेत्‌ ॥१॥
[ तत्र दीर्घायुषः ] सौम्या दृष्टिर्भवेद्यस्य श्रोत्रं त्वक्‌ च तथैव च ।
स्वादुगन्धं विजानाति स साध्यो नात्र संशयः ॥२॥
पानी पादौ च यस्योष्णौ दाहः स्वल्पतरो भवेत्‌ ।
जिह्वा सुकोमला यस्य स रोगी न विनश्यति ॥३॥
स्वेदहीनो ज्वरो यस्य श्वासो नासिकया सरेत्‌ ।
कण्ठश्च कफहीनः स्यात्स रोगी जीवति ध्रुवम्‌ ॥४॥
यस्य निद्रा सुखेन स्याच्छरीरं सोद्यमं भवेत्‌ ।
इन्द्रियाणि प्रसन्नानि स रोगी नैव नश्यति ॥५॥
विकारनामा कुशलो न जिह्वीयात्‌ कदाचन ।
न हि सर्वविकाराणाम नामतोऽस्ति ध्रुवा स्थितिः ॥६॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP