संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ दूतपरीक्षा ॥

॥ अथ दूतपरीक्षा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.

दूतस्य प्रश्नाक्षरयोगसंख्या त्रिघ्नाष्टभाज्या प्रवदन्ति शेषे । समे च मृत्युर्विषमे च नैव विलोक्य वैद्याः खलु प्रश्नकाले ॥१॥
दूतो रक्तकषायकृष्णवासनो दण्डीं जटी मुण्डितस्तैलाभ्यक्तवपुर्भयङ्करवचा दीनोऽश्रुपूर्णेक्षणः । भस्माङ्गारकपालपाशमुसली सूर्येऽस्तगे व्याकुलो यः शून्यस्वरसंस्थितो गदवतो दूतस्तु कालानलः ॥२॥
स्वज्ञातिः श्वेतवस्त्रो द्रविनयुतकरः क्षत्रियो ब्राह्मणो वा ताम्बूलास्यः सुशीलः शुभवचनवदः स्यात्प्रशस्तोऽत्रदूतः ॥३॥
संध्याकाले तथा रात्रौ स्नानभोजनसङ्गमे । विपरीतेषु कालेषु न गच्छेतत्र बुद्धिमान्‌ ॥४॥
न सुप्याद्रोगिसदने न भुञ्जीयात्‌ कदाचन । विनाह्वानं न गच्छेच्च न ब्रूयान्मरणं भिषक्‌ ॥५॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP