संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ वर्षासु हिताहितमाह ॥

॥ अथ वर्षासु हिताहितमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


वर्षासु प्रबलो वायुस्तस्मान्मिष्टादयस्त्रयः ।
रसाः सेव्या विशेषेण पवनस्योपाशान्तये ॥१॥
भावेद्वर्षासु वपुषि क्लिन्नत्वं यद्विशेषतः ।
तत्क्लेदशान्तये सेव्या अपि कट्वादयस्त्रयः ॥२॥
स्वेदनं मर्दनं सेव्यं दध्युष्णं जाङ्गलामिषम्‌ ।
गोधूमाः शालयो माषा जलं कोपं दिवश्च्युतम्‌ ॥३॥
न भजेत्पूर्वपवनं वृष्टिं घर्मं हिमं श्रमम्‌ ।
नदीनीरं दिवा स्वापं रूक्षं नित्यं च मैथुनम्‌ ॥४॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP