संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ शीतपित्तोदर्दकोठनिदानम् ॥

॥ अथ शीतपित्तोदर्दकोठनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ शीतपित्तोदर्दकोठनिदानम्‍ ॥
आदौ तस्य दोषत्रयजन्यत्वमाह ॥ शीतमारुतसंस्पर्शात्प्रदुष्टौ कफमारुतौ । पित्तेन सह संभूय बहिरन्तर्विसर्पत: ॥१॥
अथ तस्य पूर्वरुपमाह ॥ पिपासारुचिहृल्लासदाहसादाड्गगौरवम्‍ । रक्तलोचनता तेषां पूर्वरुपमिति स्मृतम्‍ ॥१॥
अनयोर्भेदमाह ॥ वरटीदंष्ट्रंस्थान: शोफ: संजायते बहि: । सकण्डूतोदबहुलच्छर्दिज्वरविदाहवान्‍ ॥१॥
उदर्दमिति तं विद्याच्छीतपित्तमथापरे । वाताधिकं शीतपित्तमुदर्दस्तु कफाधिक: ॥२॥
अथोदर्दस्य धर्मान्तरमाह ॥ सोत्सड्गैश्च सरागैश्च सरागैश्च कण्डूमद्भिश्च मण्डलै: । शैशिर: कफजो व्याधिरुदर्द: परिकीर्तित: ॥१॥
अथ त्वग्दोषसामान्यादत्रैव कोठ: प्रोच्यते ॥
असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहै: । आरनालैश्च शुक्तैश्च आरनालैश्च शुक्तैश्च आसुरीलवणेन च ॥१॥
वर्षाकाले प्रकुप्येत्स तथा दुष्टैश्च कारणै: । मण्डलानि सकण्डूनि रागवन्ति बहून च ॥२॥
उत्कोठ: सानुबन्धश्च कोठ इत्यमिधीयते ॥३॥
इति शीतपित्तोदर्दकोठनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
अभ्यड्ग: कटुतैलेन स्वेदश्चोष्णेन वारिणा । तथाशु वमनं कार्यं पटोलारिष्टवासकै: ॥१॥
त्रिफलापुरकृष्णाभिर्विरेकश्च प्रशस्यते । सर्पि: पीत्वा महातिक्तं कार्यं शोणितमोक्षणम्‍ ॥२॥
सक्षारसिन्धुतैलेश्च गात्राभ्यड्गं प्रकल्पयेत्‍ । गम्भारिकाफलं पक्वं शुष्कमुत्स्वेदितं पुन: ॥३॥
क्षीरेण शीतपित्तघ्नं खादितं पथ्यसेविना । यष्टी मधूकपुष्पं च सरास्त्रं चन्दनद्वयम्‍ ॥४॥
निर्गुण्डी सकणा क्वाथं शीतपित्तहरं पिबेत्‍ । अमृतारजनीनिम्बधनायासै: पृथक्‍ शृतम्‍ ॥५॥
प्राणिनां प्राणदं चैतच्छीतपित्ते समाचरेत्‍ । सगुडं दीप्यकं यस्तु खादेत्पथ्यान्नभुड्गनर: ॥६॥
तस्य नश्यति सप्ताहादुदर्द: सर्वदेहज: । यवानीं पाययेद्वापि सव्योषां क्षीरसंयुताम्‍ ॥७॥
पिप्पलीवर्धमानं वा लशुनं वा प्रयोजयेत्‍ । अग्निमन्थभवं मूलं पिष्टं पीतं च सर्पिषा ॥ शीतपित्तोदर्दकोठान्सप्ताहादेव नाशयेत्‍ ॥८॥
निम्बस्य पत्राणि सदा घृतेन धात्रीविमिश्राण्यथ वा प्रयुञ्ज्यात्‍ । विस्फोटकोठक्षतशीतपित्तं कण्ड्वस्त्रपित्तं सकलं निहन्यात्‍ ॥९॥
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारु शिग्रु: । ससर्षपं तुम्बरुधान्यकं त्वक्काण्डावचूर्णानि समानि कुर्यात्‍ ॥१०॥
तैस्तक्रपिष्टै: प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत । तथा सकण्डू पिटिका सकोठा कुष्ठानि शोफश्च शमं व्रजन्ति ॥११॥
ससैन्धवेन कुष्ठेन सर्पिषा लेपमाचरेत्‍ । सुरसास्वरसैर्वाथ लेपयेत्परमौषधम्‍ ॥१२॥
सिद्धार्थ्रजनीकुष्ठप्रपुन्नाटतिलै: सह । कटुतैलेन संमिश्रमेतदुद्वर्तनं हितम्‍ ॥१३॥
शीतपित्त उदर्दे च तथा कोथाभिधे गदे । कृमिदद्रुहर: कार्य: शीतपित्तेऽखिल: क्रम: ॥१४॥
स्निग्धास्विन्नस्य संशुद्धिमादौ कोष्ठे समाचरेत्‍ । तत: कुष्ठहर: सर्वो विधेयो विधिरादरात्‍ ॥१५॥
अथ पथ्यापथ्यम्‍ ॥ शालिमुद्गकुलत्थांश्च कारवेल्लमुपोदिकाम्‍ । वेत्राग्रं तप्तनीरं च पित्तश्लेष्महराणि च ॥१॥
शीतपित्तोदर्दकोठरोगिणां पथ्यमीरितम्‍ । स्नानमातपमम्लं च गुर्वन्नं च विवर्जयेत्‍ ॥२॥
इति शीतपित्तचिकित्सा ॥

N/A

References : N/A
Last Updated : March 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP