संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ प्रत्याध्मानोरुस्तम्भयो: कल्कादि ॥

॥ अथ प्रत्याध्मानोरुस्तम्भयो: कल्कादि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ प्रत्याध्मानोरुस्तम्भयो: कल्कादि ॥

प्रत्याध्माने तु वमनं लड्घनं दीपनौषधम्‍ । ऊरुस्तम्भं जयेद्रूक्षस्वेदमर्दनकौशिकै: ॥१॥
पिप्पली पिप्पलीमूलं भल्लातकफलानि च । एतत्कल्कश्च सक्षौद्र ऊरुस्तम्भनिवारण: ॥२॥
इति पिप्पलीक्ल्क: ॥ पञ्चमूलीकषायं तु सुखोष्णं त्रिवृतायुतम्‍ । गृध्रसीं गुल्मशूलं च सद्य: पीतं नियच्छति ॥१॥
इति पञ्चमूलीकषाय: ॥ वाजिगन्धाबलाबिल्वदशमूल्यम्बुसाधितम्‍ । गृध्रस्यां तैलमैरण्डं वस्तौ पाने च शस्यते ॥१॥
इति वाजिगन्धाद्यं तैलम्‍ ॥ द्वे पले सैन्धवात्पञ्च शुण्ठया ग्रन्थिकचित्रकात्‍ । द्वे पले भल्लकास्थीनि विंशती द्वे तथाढके ॥१॥
आरनाले पचेत्प्रस्थं तैलस्यैतैरपत्यदम्‍ । गृध्रस्यूरुग्रहार्शोर्ते सर्ववातविकारनुत्‍ ॥२॥ इति सैन्धवाद्यं तैलम्‍ ॥
विध्येच्छिरां मेण्ढ्रबस्तेरधस्ताच्चतुरड्गुले । यदि नोपशमं गच्छेद्दहेत्पादकनिष्ठिकाम्‍ ॥३॥
इति वृन्दात्‍ ॥ महानिम्बजटाकल्को गृध्रसीनाशन: स्मृत: ॥४॥
इति शार्ड्धरात्‍ ॥

॥ अथ जिह्वास्तम्भे ॥
जिह्वास्तम्भे क्रिया श्रेष्ठा  सामान्योक्ता तु यार्दिते ॥ अथ कल्याणकावलेह: ॥ सहरिद्रावचाकुष्ठं पिप्पलीविश्वभेषजम्‍ । अजाजी चाजमोदा च यष्टी मधुयुतं घृतम्‍ ॥१॥
एकविंशतिरात्रेण भवेच्छुतिधरो नर: । मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिस्वन: ॥ जडगद्गदमूकत्वं लेह: कल्याणको जयेत्‍ ॥२॥
इति योगत: ।

॥ अथ गृध्रसीकलायखञ्जपड्गुषु ॥
विशोध्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत्‍ । पायसं तत्कटीशूले गृध्रस्यां चौषधं परम्‍ ॥१॥
रास्त्रायास्तु पलं चैकं कर्षान्पञ्च च गुगुलो: । सर्पिषा वटकान्कृत्वा खादेद्‍ गृधसिनाशनम्‍ ॥२॥
इति रास्त्राद्यो गुगुल: ॥ तैलमेरण्डजं वापि गोमूत्रेण पिबेन्नर: । मासमेकं प्रयोगो‍ऽयं गृध्रस्यूरुग्रहापह: ॥ जयेत्कलायखञ्जं तु हेनुत्यागरसोनत: ॥१॥

॥ अथ कटिशूले ॥
दशमूलीकषायेण पिबेद्वा नागराम्भसा । कटिशूलेषु सर्वेषु तैलमेरण्डसम्भवम्‍ ॥१॥
हल्लाबं खाखसं खर्जूरं मेथिकातिला: । मिशिद्वयं च भल्लास्थि वातामं बब्बुलं तथा ॥२॥
सारं चैकपलं ग्राह्यं गुडोऽब्धिकुडवस्तथा । घृतं द्विकुडवं चैव लडुकान्‍ कारयेद्भिषक्‍ ॥३॥
द्विकर्षं भक्षयेत्प्रात: कटिवातविनाशन: । धातुस्तम्भं धातुवृद्धिं कुरुते नात्र संशय: ॥४॥
तैलं घृतं चार्द्रकमातुलुड्ग्यो रसं सचुक्रं सगुडं पिबेद्वा । कट्यूरुपृष्ठत्रिकगुल्मशूलगृधस्युदावर्तहनुग्रहेषु ॥५॥

॥ अथ क्रोष्टुशीर्षे ॥
गुडूचीत्रिफलाक्वाथैर्गुगुलु: पिण्डितो वर: । क्रोष्टुशीर्षं निहन्त्युच्चै: सेवितो मासमात्रत: ॥१॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP