संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रसा: ॥

॥ अथ रसा: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ रसा: ॥
कम्बूभस्म चतुष्कर्षं कर्षैकमहिफेनकम्‍ । जातीफलं टड्कणं च पृथककर्षं विनिक्षिपेत्‍ ॥१॥
अतिसूक्ष्म विमर्द्याथ नवनीतेन गुञ्जकम्‍ । रस: शड्खोदरो नाम सर्वातीसारनाशन: ॥२॥
इति शड्खोदर: । सूतं गन्धं त्रिकटुकं दीप्यकं जीरकद्वयम्‍ । सौवर्चलं सैन्धवं च रामठं बिडमेव च ॥१॥
शक्राह्वयस्य चूर्णं तु चूर्णतुल्यं प्रदापयेत्‍ । संग्रहं शूलमानाहं हन्यान्नानातिसारजित्‍ ॥२॥
इति लघुलायिचूर्णम्‍ । रसगन्धौ विषं सूतं पादभागं समं च तत्‍ । गगनं भावयेदेभी रसै: सर्वं विचूर्णयेत्‍ ॥१॥
सर्पाक्षीधातकीस्वर्णविषाविश्वजयाम्बुदम्‍ । यवानीबिल्वधान्याकजीरपाठाणकणाशिवा: ॥२॥
कुटजत्वक्‍ कपित्थं च दाडिमं सकलिड्गकम्‍ । इत्येषां गोलकं कृत्वा वालुकायन्त्रगं पचेत्‍ ॥३॥
मृतसंजीवनो नाम रस: स्यादस्य वल्लक: । षट्‍प्रकारमतीसारं हन्ति वै चानुशीलित: ॥४॥
विश्वाब्दधातकीदारुयवान्यम्बुकणा वचा । कुटजो धान्यकं बिल्वं पाठेन्द्रयवशाल्मली । विश्वाभयासमं चैषां चूर्णेन मधुनासह ॥५॥
इति मृतसंजीवनो रस: ॥ अथ चन्द्रप्रभावटी ॥ मृतं सूतं मृतं स्वर्णं चाभ्रं समं समम्‍ । तुल्यं च खादिरं सारं तथा मोचरसं क्षिपेत्‍ ॥१॥
द्र्वै: शाल्मलिमूलोत्थैर्मर्दयेत्प्रहरद्वयम्‍ । चणमात्रां वटीं कृत्वा खादेज्जीरकसंयुताम्‍ । त्रिदोषोत्थमतीसारं सज्वरं नाशयेद्‍ध्रुवम्‍ ॥२॥
इति चन्द्रप्रभावटी ॥ इति रसा: ॥ तड्घनं वमनं निद्रा पुराणा: शालिषष्टिका: । विलेपी लाजमण्डश्च मसूरी तुवरी रसा: ॥१॥
शशैणलावहरिणकपिञ्जलभवा रसा: । सर्वे क्षुद्रझषा: शृड्गीडिण्डिशो मधुनालिका ॥२॥
तैलं छागघृतं क्षीरं दधि तक्रं गवामपि । दधिजं वा पयोजं वा नवनीतं गवाजयो: ॥३॥
नवं रम्भापुष्पफलं क्षौद्रं जम्बूफलानि च । भव्यं महार्द्रकं विश्वं शालूकं च विकड्कतम्‍ ॥४॥
कपित्थं बकुलं बिल्वं तिन्दुकं दाडिमद्वयम्‍  । शालूकं कण्टाकाढ्या च चाड्गेरी विजयारूणा ॥५॥
जातीफलमफेनं च जीरकं गिरिमल्लिका । कुस्तुम्बुरु महानिम्ब: कषाय: सकलो रस: ॥६॥
अन्नपानानि सर्वाणि दीपनानि लघूनि च । नाभेर्व्द्यड्गुलतोऽधस्ताच्छस्त्रेणार्धेन्दुवद्दहेत्‍ । तथा वंशास्थिमूलेऽपि पथ्यवर्गोऽतिसारिणाम्‍ ॥७॥
अथातिसारेऽपथ्यानि ॥ स्वेदोऽञ्जनं रुधिरभोक्षणमम्बुपानं स्नानं व्यवायमपि जागरधूमनस्यम्‍ । अभ्यञ्जनं सकलवेगविधारणं च रुक्षाण्यसात्म्यमशमनं च विरुद्धमन्नम्‍ ॥१॥
गोधूममाषयववास्तुककाकमाचीनिष्पावकं च मधुशिगुरसालपूगम्‍ । कृष्णाण्डतुम्बिबदरं ग्रुरु चान्नपानं ताम्बूलमिक्षुगुड्मद्यमुपोदकी च ॥२॥
द्राक्षाम्लवेतसफलं लशुनं च धात्री दुष्टाम्बुमस्तु गृहवारि च नारिकेलम्‍ । सहस्त्रेन मृगमदोऽखिलपत्रशाकं क्षीरं सराणि सकलानि पुनर्नवा च ॥३॥
उर्वारुकं लवणमम्लमपि प्रकोपी वर्गोऽतिसारगदपीडितमानवेषु । स्नानावगाहमभ्यड्गगुरुस्निग्धान्नभोजनम्‍ । व्यायाममग्निसन्तापमतीसारी विवर्जयेत्‍ ॥४॥
इत्यतीसारचिकित्सा ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP