संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ क्वथिततक्रगुणाः ॥

॥ अथ क्वथिततक्रगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च ।
पीनसश्वासकासादौ पक्कमेव विशिष्यते ॥१॥
न तक्रसेवी व्यथते कदाचिन्न तक्रदग्धाः प्रभवन्ति रोगाः ।
यथा सुराणाममृतं निधानं तथा नराणां भुवि तक्रमाहुः ॥२॥
तक्राल्ल्लघुतरो मन्थः कूर्चिका दधितक्रवत्‌ ।
गोऽजाविमहिषीतक्रं तद्वद्दधिगुणाः पृथक्‌ ॥३॥
कैलासे यदि तक्रमस्ति गिरिशः किं नीलकण्ठो भवेद्वैकुण्ठे यदि कृष्णतामनुभवेदद्यापि किं केशवः ।
इन्द्रो दुर्भगतां क्षयं द्विजपतिर्लम्बोदरत्वं गणं कुष्ठित्वं च कुबेरको दहनतामग्निश्च किं विन्दति ॥४॥
इति तक्रगुणाः ॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP