संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ वङ्गम्‌ ॥

॥ अथ वङ्गम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ वङ्गम्‌ ॥

खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।
खुरं तत्र गुणैः श्रेष्ठं मिश्रकं न हितं मतम्‌ ॥१॥
धवलं मृदुलं स्निग्धं द्रुतद्रावं सगौरवम्‌ ।
निःशब्दं खुरवङ्गं स्यान्‌मिश्रकं श्यामशुभ्रकम्‌ ॥२॥

==

॥ अथ वङ्गशोधनम्‌ ॥

द्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसे ।
विशुध्यति त्रिवारेण खुरवङ्गं न संशयः ॥१॥

==

॥ अथ मारणम्‌ ॥

शाणमात्रं भवेद्वङ्गं भुजङ्गो रक्तिकामितः ।
खर्परे गलितं सर्वं लोहदर्व्या विघर्षयेत्‌ ॥१॥
प्रहराज्जायते भस्म भिन्नकज्जलसन्निभम्‌ ।
शुक्लतां याति तद्भस्म तीव्रखर्परवह्निना ॥२॥
अन्यच्च ।
पलाशद्रवयुक्तेन वङ्गं पत्राणि लेपयेत्‌ ।
तालेन पुटितं भस्म त्रिवारं जायते ध्रुवम्‌ ॥१॥
अन्यच्च ।
भल्लाततैलसंलिप्तं वङ्गं वस्त्रेण वेष्टितम्‌ ।
चिञ्चापिप्पलपालाशकाष्ठाग्नौ याति पञ्चताम्‌ ॥१॥
अन्यच्च ।
मृत्पात्रे द्राविते वङ्गे चिञ्चाश्वत्थत्वचो रजः ।
क्षिप्त्वा क्षिप्त्वा चतुर्थाशं लोहदर्व्या विचालयेत्‌ ।
ततो द्वियाममात्रेण वङ्गभस्म प्रजायते ॥१॥
अथ भस्मसमं तालं क्षिप्त्वाम्लेन प्रमर्दयेत्‌ ।
ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत्‌ ॥२॥
तालेन दशमांशेन याममेकं ततः पुटेत्‌ ।
एवं दशपुटैः पक्कं वङ्गं तु म्रियते ध्रुवम्‌ ॥३॥

==

॥ अथ गुणाः ॥

वङ्गं तिक्तोष्णकं रूक्षमीषद्वातप्रकोपणम्‌ ।
मेहश्लेष्मामयघ्नं च मेदोघ्नं कृमिनाशनम्‌ ॥१॥
अशुद्धममृतं वङ्गं प्रमेहादिगदप्रदम्‌ ।
गुल्महृद्रोगशूलार्गःकासश्वासवमिप्रदम्‌ ॥२॥
इति वङ्गम्‌ ॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP