संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रागखाण्डवः ॥

॥ अथ रागखाण्डवः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


आममाम्रं त्वचा ह ईनं द्विस्त्रिर्वा खण्डितं ततः ।
भृष्टमाज्ये मनागस्तं खण्डपाकेऽथ युक्तितः ॥१॥
सुपक्कं च समुत्तीर्य मरीचैलेन्दुवासितम्‌ ।
स्थापितं स्निग्धमॄद्भाण्डे रागखाण्डवसंज्ञितम्‌ ॥२॥
पुष्टिदो बलदः पित्तवातास्रारुचिनाशनः ।
स्निग्धो गुरुस्तर्पणश्च सुस्वादूरागखाण्डवः ॥३॥
सितारुचकसिन्धूत्यैः सवृक्षाम्लपरूषकैः ।
जम्बूफलरसैर्युक्तो रागो रजिकया कृतः ॥४॥
खाण्डवा मधुराम्लादिरससंयोगसंभवाः ।
दीपना बृंहणा रुच्यास्तीक्ष्णा हृद्याः श्रमापहाः ॥५॥
इति नानाखाण्डवाः ॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP