संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ तैलानि ॥

॥ अथ तैलानि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


अथाश्वगन्धादितैलम्‍ ।
अश्वगन्धाबलालाक्षाप्रस्थं पृथक्‍ पृथक्‍ । जलद्रोणे विपक्तव्य़ं चतुर्भागावशेषितम्‍ ॥१॥
तैलं त्रिमानकं दद्याद्दधिमस्तु चतुर्गुणम्‍ । अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनै: ॥२॥
निशा तिक्ता शताह्वा च लाक्षामूर्वा समूलकै: । सुरदारु च मञ्जिष्ठा मधुकोशीरसारिवा: ॥३॥
समभागानि कुर्वीत कल्कीकृत्य विपाचयेत्‍ । सर्वज्वरं हरत्याशु सर्वधातुविवर्धनम्‍ ॥ एतदभ्यञ्जनेनाशु क्षयरोगं विमुञ्चति ॥४॥
इत्यश्वगन्धादितैलम्‍ । सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभि: । तैलं ज्वरे षड्‍गुणतक्रसिद्धमभ्यञ्जनाच्छीतविदाहनुत्स्यात्‍ ॥१॥
दग्ध: ससारकस्य स्यात्षट्‍तक्रे तक्रमुत्तमम्‍ ॥२॥ इति षट्‍तक्रतैलम्‍ ।
लाक्षाहरिद्रामञ्जिष्ठाकल्कैस्तैलं विपाचयेत्‍ । षडगुणेनारनालेन दाहशीतज्वरापहम्‍ ॥१॥
इति लघुलाक्षादितैलम्‍ । तैलं लाक्षारसं क्षीरं पृथक्प्रस्थं समं पचेत्‍ । चतुर्गुणैरिति क्वाथ्यद्र्व्यैरेतै: पलोन्मितै: ॥१॥
लोध्रकट‍फलमञ्जिष्ठामुस्तकेसरपद्मकै: । चन्दनोत्पलयष्टयाह्यैस्तैलं गण्डूषधारणात्‍ ॥२॥
दन्तरोगा: प्रणश्यन्ति लेपात्सर्वज्वराञ्जयेत्‍ । एतल्लाक्षादिकं तैलं बलपुष्टिप्रदायकम्‍ ॥३॥
इति बृहल्लाक्षादितैलम्‍ । लाक्षामधुकमञ्जिष्ठामूर्वाचन्दनसारिवा - तैलं षट्‍चरणं नाम त्वभ्यड्गाज्वरनाशनम्‍ ॥१॥
इति षटचरणं मांसी तैलम्‍ । लाक्षा मूर्वा हरिद्रे द्वे मञ्जिष्ठा चेन्द्रवारूणी बृहती सैन्धवं कुष्ठं रास्त्रा मांसी शतावरी ॥२॥
आरनालाढकेनात्र तैलप्रस्थं विपाचयेत्‍ । तैलमड्गारकं नाम सर्वज्वरविमोक्षणम्‍ ॥३॥
इत्यड्गारकतैलम्‍ । तैलं प्रस्थमितं चतुर्गुणजतुक्वाथं चतुर्मस्तुरुग्यष्टीदारुनिशाब्दमूर्वकटुकामिस्यश्च कौन्तिहिमै: । रास्त्राह्यै: पिचुसंमितै: कृतमिदं शस्तं तु जीर्णज्वरे सर्वस्मिन्विषमेऽपि यक्ष्मणि शिशौ वृद्धे मुगर्मासु च ॥१॥
इति मध्यमलाक्षादितैलम्‍ ॥

॥ अथ चन्दनबलालाक्षादि तैलम्‍ ॥
चन्दनं च बलामूलं लाक्षा लामज्जकं तथा । पृथक्‍ पृथक्‍ प्रस्थमात्रं द्रोणे च सलिले पचेत्‍ । चतुर्भागावशेषेस्मिंतैलं प्रस्थद्वयं क्षिपेत्‍ ॥१॥
चन्दनोशीरमधुकशताह्वा कटुरोहिणी । देवदारुनिशाकुष्ठ्मञ्जिष्ठागुरुवालकम्‍ ॥२॥
अश्वगन्धा बलादार्वी मूर्वा मुस्ता समूलका: । एला त्वड्नागकुसुमं रास्त्रा लाक्षा सुगन्धिका ॥३॥
चम्पकं पीतसारं च सारिवा रोचकद्वयम्‍ । कल्कैरेतै: समायुक्तं क्षीराढकसमन्वितम्‍ ॥४॥
तैलमभ्यञ्जने श्रेष्ठं सप्तधातुविवर्धनम्‍ । कासश्वासक्षयहरं सर्वच्छार्दिनिवारणम्‍ ॥५॥
असृग्दरं रक्तपितं हन्ति पित्तकफामयम्‍ । कान्तिकृद्दाहशमनं कण्डूविस्फोटनाशनम्‍ ॥६॥
शिरोरोगं नेत्रदाहमड्गदाहं च नाशयेत्‍ । वातामयहतानां च क्षीणानां क्षीणरेतसाम्‍ ॥७॥
बालमध्यमवृद्धानां शस्यते शोफकामलाम्‍ । पाण्डुरोगे विशेषेण सर्वज्वरविनाशनम्‍ ॥८॥
इति चन्दनबलालाक्षादितैलम्‍ ॥ इति तैलानि ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP