संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ तक्रगुणाः ॥

॥ अथ तक्रगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


घोलं मथितमुदस्वित्तक्रं चतुर्विधं ज्ञेयत्‌ ।
ससरं निर्जलं घोलं मथितं सरवर्जितम्‌ ।
तक्रं पादजलं प्रोक्तमुदस्विच्चार्धवारिकम्‌ ॥१॥
दिवोदासप्रभृतयस्तक्रमर्धजलं जगुः ।
पादतोयं विनिगदन्त्युदस्विदपि तत्तथा ॥२॥
वातपित्तहरं घोलं मथितं कफपित्तनुत्‌ ।
तक्रं त्रिदोषशमनं मुदस्वित्कफदं स्मृतम्‌ ॥३॥
गव्यं तु दीपनं तक्रं मेध्यमर्शस्त्रिदोषनुत्‌ ।
हितं गुल्मातिसारेषु प्लीहार्शोग्रहणीगदे ॥४॥
माहिषं श्लेष्मलं तक्रं सान्द्रं शोफकरं गुरु ।
सुस्निग्ग्धं छागलं तक्रं लघु दोषत्रयापहम्‌ ॥५॥
गुल्मार्शोग्रहणिशोफपाण्ड्वामयविनाशनम्‌ ।
दातेऽम्लं सैन्धवोपेतं स्वादु पित्ते सशर्करम्‌ ॥६॥
पिबेत्तक्रं कफे रूक्षं व्योषक्षारसमन्वितम्‌ ।
मूत्रकृउच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम्‌ ॥७॥
हिङ्गुजीरयुतं घोलं सैन्धवेनावधूलितम्‌ ।
तद्भवेदतिवातघ्नमर्शोऽतीसारनाशनम्‌ ॥८॥
सुरुच्यं पुष्टिदं बल्यं बस्तिशूलविनाशनम्‌ ।
शीतकालेऽग्निमान्द्ये च कफवातामयेषु च ॥९॥
अरुचौ स्रोतसां रोधे तक्रं स्यादमृतोपमम्‌ ।
नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले ॥१०॥
न मूर्छाभ्रमदाहेषु न रोगे रक्तपित्तजे ।
तक्रं तल्लवणोपेतं दीपनं ग्रहणिगदे ।
तक्रं लवणहीनं यद्ग्रहण्यर्शोविकारकृत्‌ ॥११॥
क्षुद्वर्धनं नेत्ररुजापहं च प्राणप्रदं शोणितमांसदं च ।
आमाभिघातं कफवातहन्तृ त्वष्टौ गुणा वै कथिता हि तक्रे ॥१२॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP