संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ वटककल्पना ॥

॥ अथ वटककल्पना ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


वटका अत्र कथ्यन्ते तन्नाम गुटिका वटी ।
मोदको वटिका पिण्डी गुडो वर्तिस्तथोच्यते ॥१॥
लेहवत्साध्यते वह्नौ गुडो वा शर्कराथवा ।
गुग्गुलुर्वा क्षिपेत्तग्र तच्चूर्णं निर्मिता वटी ॥२॥
कुर्यादवह्निसिद्धेन क्कचिद्रुग्गुलुना वटी ।
द्रवेण मधुना वापि गुटिकां कारयेद्बुधः ॥३॥
सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः ।
सर्वचूर्णसमः कार्यो गुग्गुलुर्मधु तत्समम्‌ ॥४॥
द्रवं च द्विगुणं देयं मोदकेषु भिषग्वरैः ।
कर्षप्रमाणां तन्मात्रां बलं दृष्ट्वा प्रयोजयेत्‌ ॥५॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP