संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पाचनम् ॥

॥ अथ पाचनम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ पाचनम्‍ ॥
कण्टकारिद्वयं शुण्ठी धान्यकं सुरदारु च । एभि: शृतं पाचनं स्यात्सर्वज्वरनिवारणम्‍ ॥१॥

॥ अथ वालुकास्वेद: ॥
खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तवालुकास्वेद: । शमयति वातकफामयमस्तकशूलाड्गभेदादीन्‍ ॥१॥
इति वालुकास्वेद: ॥

॥ अथ नस्यम्‍ ॥
मातुलिड्गार्द्रकरसं कोष्णं त्रिलवणान्वितम्‍ । अन्यद्वा सिद्धविहितं नस्यं तीक्ष्णं प्रयोजयेत्‍ ॥१॥
तेन प्रभिद्यते श्लेष्मा प्रभिन्नवस्तु प्रसिच्यते । शिरोहृदयकण्ठास्यपार्श्वरुक्‍ चोपशाम्यति ॥२॥
मधूकसारसिन्धूत्थवचोषणकणा: समा: । श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम्‍ ॥३॥
सैन्धवं श्वेतमरिचं सर्षपा: कुष्ठपिप्पली । बस्तमूत्रेण पिष्टानां नस्यं तन्द्रानिवारणम्‍ ॥४॥
इति नस्यम्‍ ॥

॥ अथ निष्ठीवनम्‍ ॥
आर्द्रकस्वरसोपेतं सैन्धवं सकटुत्रयम्‍ । आकण्ठं धारयेच्चास्ये निष्ठीवेच्च पुन:पुन: ॥१॥
तेनास्य हृदयाच्ल्छेष्मा मन्यापार्श्वशिरोगलात्‍ । लीनो व्याकृष्यते शुष्को लाघवं चास्य जायते ॥२॥
इति निष्ठीवनम्‍ ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP