संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ दोषत्रयलक्षणानि ॥

॥ अथ दोषत्रयलक्षणानि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


वाते च पाण्डुरं मूत्रं सफेनं कफरोगिणः । रक्तवर्णं भवेत्पित्ते द्वन्द्वजे मिश्रितं भवेत्‌ । सन्निपाते च कृष्णं स्यादेतन्मूत्रस्य लक्षणम्‌ ॥४॥
अन्यच्च । परीक्षा विधिवत्कार्या रोगिमूत्रस्य तत्त्वतः । तृणेन दापयेत्तेलबिन्दुं तत्रातिलाघवात्‌ ॥५॥
विकासितं तैलमथाशु मूत्रे साध्यः स रोगी न विकासितं चेत्‌ । स्यात्कष्टसाध्यस्तलगे त्वसाध्यो नागार्जुनेनैव कृता परीक्षा ॥६॥
चर्पटतः । नीलं च रूक्षं कुपिते च वायौ पीतारुणं तैलसमं च पित्ते । स्निग्धं कफे पल्वलवारितुल्यं स्निग्धोष्णरक्तं रुधिरप्रकोपे ॥७॥
मातुलुङ्गरसाभासं सौवीराभं जलोपमम्‌ । प्रपाकरहितानां च मूत्रं चन्दनसन्निभम्‌ ॥८॥
अजीर्णप्रभवे रोगे मूत्रं तण्डुलतोयवत्‌ । नवज्वरे धूम्रवर्णं बहुमूत्रं प्रजायते ॥९॥
पित्तानिले धूम्रजलाभमुष्णं श्वेतं मरुच्छ्लेष्मणि बुद्बुदाभम्‌ । तच्छेष्मपित्ते कलुषं सरक्तं जीर्णज्वरेऽसॄक्सदृशं च पीतम्‌ । स्यात्‌ सन्निपातादपि मिश्रवर्णं तूर्णं विधिज्ञेन विचारणीयम्‌ ॥१०॥
पूर्वाशां वर्धते बिन्दुर्यदा शीर्घं सुखी भवेत्‌ । दक्षिणाशां ज्वरो ज्ञेयस्तथारोग्यं क्रमाद्भवेत्‌ ॥११॥
उत्तरस्यां यदा बिन्दोः प्रसरः संप्रजायते । आरोगिता तदा नूनं पुरुषस्य न संशयः ॥१२॥
वारुण्यां प्रसरेद्द्बिन्दुः सुखारोग्यं तदादिशेत्‌ । ऐशान्यां वर्धते बिन्दुर्ध्रुवं मासेन नश्यति ॥१३॥
आग्नेय्यां तु तथा ज्ञेयं नैरृत्यां प्रसरेद्यदि । छिद्रितश्च भवेत्पश्चात्ध्रुवं मरणमेव च ॥१४॥
वायव्यां प्रसरेद्बिन्दुः सुधयापि विनश्यति । विकाशितं हलं कूर्मं सैरिभाकारसंयुतम्‌ ॥१५॥
करण्डमण्डलं वापि शिरोहीननरं तथा । गात्रखण्डं च शस्त्रं च खङ्गं मुसलपट्टिशम्‌ ॥१६॥
शरं च लगुडं चैव तथैव त्रिचतुःपथम्‌ । बिन्दुरूपं नरो दॄष्ट्वा न कुर्वीत क्रियां क्कचित्‌ ॥१७॥
हंसकारण्डताडागं कमलं गजचामरम्‌ । छत्रं वा तोरणं हर्म्यं सुपूर्णं दृश्यते यदि ॥१८॥
अरोग्यता ध्रुवं ज्ञेया तदा कुर्यात्प्रतिक्रियाम्‌ । तैलबिन्दुर्यदा मूत्रे चालनीसदृशोभवेत्‌ ॥१९॥
कुलदोषो ध्रुवं ज्ञेयः प्रेतदोषसमुद्भवः । नराकारं प्रजायेत किंवा स्यान्मस्तकद्वयम्‌ । भूतदोषं विजानीयाद्भूतविद्यां तदाचरेत्‌ ॥२०॥
मञ्जिसाभं धूम्रवर्णं च नीलं स्निग्धं मूत्रं वारितुल्यं च शीतम्‌ । ज्ञात्वा चित्ते बुद्धिमान्मामुषाणां कुर्यात्वन्तर्भेषजं रोगिणां च ॥२१॥
सर्पाकारं भवेद्वातच्छत्राकारं तु पित्ततः । मुक्ताकारं बलासात्स्यादेतन्मूत्रस्य लक्षणम्‌ ॥२२॥
इति मूत्रपरीक्षा ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP