श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
अस्य श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य,वेदव्यासो
भगवानृषिः, अनुष्टुप्छन्दः, भगवान् श्रीमहाविष्णुर्देवता ।
श्रीरङ्गशायीति बीजम्, श्रीकान्त इति शक्तिः, श्रीप्रद इति कीलकम्,
मम समस्तपापनाशार्थे जपे विनियोगः ।
धौम्य उवाच -
श्रीरङ्गशायी श्रीकान्तः श्रीप्रदः श्रितवत्सलः ।
अनन्तो माधवो जेता जगन्नाथो जगद्गुरुः ॥१॥
सुरवर्यः सुराराध्यः सुरराजानुजः प्रभुः ।
हरिर्हतारिर्विश्वेशः शाश्वतः शम्भुरव्ययः ॥२॥
भक्तार्तिभञ्जनो वाग्मी वीरो विख्यातकीर्तिमान् ।
भास्करः शास्त्रतत्त्वज्ञो दैत्यशास्ताऽमरेश्वरः ॥३॥
नारायणो नरहरिर्नीरजाक्षो नरप्रियः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्माङ्गो ब्रह्मपूजितः ॥४॥
कृष्णः कृतज्ञो गोविन्दो हृषीकेशोऽघनाशनः ।
विष्णुर्जिष्णुर्जितारातिः सज्जनप्रिय ईश्वरः ॥५॥
त्रिविक्रमस्त्रिलोकेशस्त्रय्यर्थस्त्रिगुणात्मकः ।
काकुत्स्थः कमलाकान्तः कालियोरगमर्दनः ॥६॥
कालाम्बुदश्यामलाङ्गः केशवः क्लेशनाशनः ।
केशिप्रभञ्जनः कान्तो नन्दसूनुररिन्दमः ॥७॥
रुक्मिणीवल्लभः शौरिर्बलभद्रो बलानुजः ।
दामोदरो हृषीकेशो वामनो मधुसूदनः ॥८॥
पूतः पुण्यजनध्वंसी पुण्यश्लोकशिखामणिः ।
आदिमूर्तिर्दयामूर्तिः शान्तमूर्तिरमूर्तिमान् ॥९॥
परं ब्रह्म परं धाम पावनः पवनो विभुः ।
चन्द्रश्छन्दोमयो रामः संसाराम्बुधितारकः ॥१०॥
आदितेयोऽच्युतो भानुः शङ्करः शिव ऊर्जितः ।
महेश्वरो महायोगी महाशक्तिर्महत्प्रियः ॥११॥
दुर्जनध्वंसकोऽशेषसज्जनोपास्तसत्फलम् ।
पक्षीन्द्रवाहनोऽक्षोभ्यः क्षीराब्धिशयनो विधुः ॥१२॥
जनार्दनो जगद्धेतुर्जितमन्मथविग्रहः ।
चक्रपाणिः शङ्खधारी शार्ङ्गी खड्गी गदाधरः ॥१३॥
एवं विष्णोः शतं नाम्नामष्टोत्तरमिहेरितम् ।
स्तोत्राणामुत्तमं गुह्यं नामरत्नस्तवाभिधम् ॥१४॥
सर्वथा सर्वरोगघ्नं चिन्तितार्थफलप्रदम् ।
त्वं तु शीघ्रं महाराज गच्छ रङ्गस्थलं शुभम् ॥१५॥
स्नात्वा तुलार्के कावेर्यां माहात्म्यश्रवणं कुरु ।
गवाश्ववस्त्रधान्यान्नभूमिकन्याप्रदो भव ॥१६॥
द्वादश्यां पायसान्नेन सहस्रं दश भोजय ।
नामरत्नस्तवाख्येन विष्णोरष्टशतेन च ।
स्तुत्वा श्रीरङ्गनाथं त्वमभीष्टफलमाप्नुहि ॥१७॥
इति श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
अथवा
श्रीरङ्गराजनामरत्नस्तोत्रम् श्रीतुलापुराणान्तर्गतम्
N/A
References : N/A
Last Updated : December 26, 2025

TOP