संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीरामाष्टोत्तरशतनामस्तोत्रम्

श्रीरामाष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


रामो रावणसंहारकृतमानुषविग्रहः ।
कौसल्यासुकृतव्रातफलं दशरथात्मजः ॥१॥

लक्ष्मणार्चितपादाब्जसर्वलोकप्रियङ्करः
साकेतवासिनेत्राब्जसंप्रीणनदिवाकरः ॥२॥

विश्वामित्रप्रियश्शान्तः ताटकाध्वान्तभास्करः ।
सुबाहुराक्षसरिपुः कौशिकाध्वरपालकः ॥३॥

अहल्यापापसंहर्ता जनकेन्द्रप्रियातिथिः ।
पुरारिचापदलनो वीरलक्ष्मीसमाश्रयः ॥४॥

सीतावरणमाल्याढ्यो जामदग्न्यमदापहः ।
वैदेहीकृतशृङ्गारः पितृप्रीतिविवर्धनः ॥५॥

ताताज्ञोत्सृष्टहस्तस्थराज्यस्सत्यप्रतिश्रवः ।
तमसातीरसंवासी गुहानुग्रहतत्परः ॥६॥

सुमन्त्रसेवितपदो भरद्वाजप्रियातिथिः ।
चित्रकूटप्रियावासः पादुकान्यस्तभूभरः ॥७॥

अनसूयाङ्गरागाङ्कसीतासाहित्यशोभितः ।
दण्डकारण्यसञ्चारी विराधस्वर्गदायकः ॥८॥

रक्षःकालान्तकस्सर्वमुनिसङ्घमुदावहः ।
प्रतिज्ञातास्शरवधः शरभभङ्गगतिप्रदः ॥९॥

अगस्त्यार्पितबाणासखड्गतूणीरमण्डितः ।
प्राप्तपञ्चवटीवासो गृध्रराजसहायवान् ॥१०॥

कामिशूर्पणखाकर्णनासाच्छेदनियामकः ।
खरादिराक्षसव्रातखण्डनावितसज्जनः ॥११॥

सीतासंश्लिष्टकायाभाजितविद्युद्युताम्बुदः ।
मारीचहन्ता मायाढ्यो जटायुर्मोक्षदायकः ॥१२॥

कबन्धबाहुदलनश्शबरीप्रार्थितातिथिः ।
हनुमद्वन्दितपदस्सुग्रीवसुहृदव्ययः ॥१३॥

दैत्यकङ्कालविक्षेपी सप्ततालप्रभेदकः ।
एकेषुहतवाली च तारासंस्तुतसद्गुणः ॥१४॥

कपीन्द्रीकृतसुग्रीवस्सर्ववानरपूजितः ।
वायुसूनुसमानीतसीतासन्देशनन्दितः ॥१५॥

जैत्रयात्रोत्सवः जिष्णुर्विष्णुरूपो निराकृतिः ।
कम्पिताम्भोनिधिस्सम्पत्प्रदस्सेतुनिबन्धनः ॥१६॥

लङ्काविभेदनपटुर्निशाचरविनाशकः ।
कुम्भकर्णाख्यकुम्भीन्द्रमृगराजपराक्रमः ॥१७॥

मेघनादवधोद्युक्तलक्ष्मणास्त्रबलप्रदः ।
दशग्रीवान्धतामिस्रप्रमापणप्रभाकरः ॥१८॥

इन्द्रादिदेवतास्तुत्यश्चन्द्राभमुखमण्डलः ।
बिभीषणार्पितनिशाचरराज्यो वृषप्रियः ॥१९॥

वैश्वानरस्तुतगुणावनिपुत्रीसमागतः ।
पुष्पकस्थानसुभगः पुण्यवत्प्राप्यदर्शनः ॥२०॥

राज्याभिषिक्तो राजेन्द्रो राजीवसदृशेक्षणः ।
लोकतापपरिहन्ता च धर्मसंस्थापनोद्यतः ॥२१॥
शरण्यः कीर्तिमान्नित्यो वदान्यः करुणार्णवः ।
संसारसिन्धुसम्मग्नतारकाख्यामहोज्जवलः ॥२२॥

मधुरोमधुरोक्तिश्च मधुरानायकाग्रजः ।
शम्बूकदत्तस्वर्लोकश्शम्बरारातिसुन्दरः ॥२३॥

अश्वमेधमहायाजी वाल्मीकिप्रीतिमान्वशी ।
स्वयंरामायणश्रोता पुत्रप्राप्तिप्रमोदितः ॥२४॥

ब्रह्मादिस्तुतमाहात्म्यो ब्रह्मर्षिगणपूजितः ।
वर्णाश्रमरतो वर्णाश्रमधर्मनियामकः ॥२५॥

रक्षापरो राजवंशप्रतिष्ठापनतत्परः । रक्षावहः
गन्धर्वहिंसासंहारी धृतिमान्दीनवत्सलः ॥२६॥

ज्ञानोपदेष्टा वेदान्तवेद्यो भक्तप्रियङ्करः ।
वैकुण्ठवासी पायान्नश्चराचरविमुक्तिदः ॥२७॥

इति श्रीरामरहस्योक्तं श्रीरामाष्टोत्तरशतनामस्त्तोरं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP