श्रीकृष्णोक्त झिल्लिरास्तोत्रम्
अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.
(अथ श्रीकालीविलासतन्त्रे अष्टाविंशतिपटलः ।)
श्रीकृष्ण उवाच ।
हे मातः कथ्यतां नित्यां यदितेऽस्ति दयामयि ।
कदापश्यामि तां राधां कासा राधा कुतस्थितिः ॥३७॥
तन्मे कथय हे मातर्हृत्कम्पञ्च भवेन्मम ।
राधा राधेति मे चिन्ता सर्वदैव प्रजायते ॥३८॥
श्रीकालिकोवाच ।
गोलोकमन्मथे बीजे वैद्युते विन्द मण्डले ।
यद्दिन्दौ सुन्दरी नित्या तत्रराधा विराजते ॥३८॥
बिन्दुना शृणु रे पुत्र मर्दिन्या गमनं यतः ।
मर्दिन्या अर्ध सम्भूता चाहं ब्रह्मादिपूजिता ॥४०॥
करालवदना काली सुन्दरी चाङ्ग -सम्भवा ।
नमस्ते कालिके मातर्धर्मार्थकाममोक्षदे ॥४१॥
दलिताञ्जनसङ्काशे नमस्ते बीजरूपिणि ।
कामरूपे नमस्तुभ्यं नमो मन्मथरूपिणि ॥४२॥
कन्दर्परूपिणि मातर्नमस्तुभ्यं नमो नमः ।
ऊँकार रूपिणि तुभ्यं नमस्तुभ्यं नमो नमः ॥४३॥
नमस्ते शङ्कराकारे मीनकेतुस्वरूपिणि ।
मायारूपि नमस्तुभ्यं कमला राजरूपिणि ॥४४॥
कूर्चराजे नमस्तुभ्यं नमस्ते श्रीस्वरूपिणि ।
वह्निजाया खरूपे त्वं नमस्तुभ्यं नमो नमः ॥४५॥
झिल्लिरा रूपिणि तुभ्यं नमस्तुभ्यं नमो नमः ।
श्रुत्वा कृष्णमुखात् स्तोत्रं यदाह कालिका परा ॥४६॥
ध्यात्वा मन्त्र जपित्वा च स्तोत्र मेतत्तु यः पठेत् ।
तस्मैतुष्टा च झिल्लीरा प्रसन्ना च प्रसीदति ॥४७॥
झिल्लीरा मन्त्रविज्ञानं धानं स्तोत्रं विना तथा ।
यत्किञ्चित् क्रियते कर्म सर्वं भवति निष्फलम् ॥४८॥
इति श्रीकालीविलासतन्त्रे श्रीकृष्णोक्त झिल्लिरास्तोत्रं
नामाष्टाविंशतिपटलः समाप्तः ।
N/A
References : N/A
Last Updated : December 23, 2025

TOP