संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्

श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


चन्द्र बीज मन्त्र - ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥

श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः ।
सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥१॥

जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः ।
विकर्तनानुजो वीरो विश्वेशो विदुषाम्पतिः ॥२॥

दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः ।
अष्टमूर्तिप्रियोऽनन्त कष्टदारुकुठारकः ॥३॥

स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः ।
कळाधरः कालहेतुः कामकृत्कामदायकः ॥४॥

मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः ।
क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥५॥

जैवातृकः शुची शुभ्रो जयी जयफलप्रदः ।
सुधामयस्सुरस्वामी भक्तानामिष्टदायकः ॥६॥

भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः ।
सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥७॥

भयान्तकृत् भक्तिगम्यो भवबन्धविमोचकः ।
जगत्प्रकाशकिरणो जगदानन्दकारणः ॥८॥

निस्सपत्नो निराहारो निर्विकारो निरामयः ।
भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥९॥

सकलार्तिहरः सौम्यजनकः साधुवन्दितः ।
सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥१०॥

सितच्छत्रध्वजोपेतः सीतांगो सीतभूषणः ।
var  षीतांगो षीतभूषणः  var  पीतांगो पीतभूषणः
श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ॥११॥

दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः ।
कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥१२॥

आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः ।
करुणारससम्पूर्णः कर्कटप्रभुरव्ययः ॥१३॥

चतुरश्रासनारूढश्चतुरो दिव्यवाहनः ।
विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः ॥१४॥

महेश्वरःप्रियो दान्त्यो मेरुगोत्रप्रदक्षिणः ।
ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥१५॥

द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः ।
औदुम्बरनगावास उदारो रोहिणीपतिः ॥१६॥

नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः ।
सकलाह्लादनकरो फलाशसमिधप्रियः ॥१७॥

एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ।

N/A

References : N/A
Last Updated : December 23, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP