श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्
अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.
चन्द्र बीज मन्त्र - ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥
श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः ।
सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥१॥
जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः ।
विकर्तनानुजो वीरो विश्वेशो विदुषाम्पतिः ॥२॥
दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः ।
अष्टमूर्तिप्रियोऽनन्त कष्टदारुकुठारकः ॥३॥
स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः ।
कळाधरः कालहेतुः कामकृत्कामदायकः ॥४॥
मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः ।
क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥५॥
जैवातृकः शुची शुभ्रो जयी जयफलप्रदः ।
सुधामयस्सुरस्वामी भक्तानामिष्टदायकः ॥६॥
भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः ।
सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥७॥
भयान्तकृत् भक्तिगम्यो भवबन्धविमोचकः ।
जगत्प्रकाशकिरणो जगदानन्दकारणः ॥८॥
निस्सपत्नो निराहारो निर्विकारो निरामयः ।
भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥९॥
सकलार्तिहरः सौम्यजनकः साधुवन्दितः ।
सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥१०॥
सितच्छत्रध्वजोपेतः सीतांगो सीतभूषणः ।
var षीतांगो षीतभूषणः var पीतांगो पीतभूषणः
श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ॥११॥
दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः ।
कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥१२॥
आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः ।
करुणारससम्पूर्णः कर्कटप्रभुरव्ययः ॥१३॥
चतुरश्रासनारूढश्चतुरो दिव्यवाहनः ।
विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः ॥१४॥
महेश्वरःप्रियो दान्त्यो मेरुगोत्रप्रदक्षिणः ।
ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥१५॥
द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः ।
औदुम्बरनगावास उदारो रोहिणीपतिः ॥१६॥
नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः ।
सकलाह्लादनकरो फलाशसमिधप्रियः ॥१७॥
एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ।
N/A
References : N/A
Last Updated : December 23, 2025

TOP